02.035
Pancharatra: Bhishma justifies why Krishna deserves the highest honour.
वैशम्पायन उवाच॥
ततो युधिष्ठिरो राजा शिशुपालमुपाद्रवत्। उवाच चैनं मधुरं सान्त्वपूर्वमिदं वचः ॥२-३५-१॥
नेदं युक्तं महीपाल यादृशं वै त्वमुक्तवान्। अधर्मश्च परो राजन्पारुष्यं च निरर्थकम् ॥२-३५-२॥
न हि धर्मं परं जातु नावबुध्येत पार्थिव। भीष्मः शान्तनवस्त्वेनं मावमंस्था अतोऽन्यथा ॥२-३५-३॥
पश्य चेमान्महीपालांस्त्वत्तो वृद्धतमान्बहून्। मृष्यन्ते चार्हणां कृष्णे तद्वत्त्वं क्षन्तुमर्हसि ॥२-३५-४॥
वेद तत्त्वेन कृष्णं हि भीष्मश्चेदिपते भृशम्। न ह्येनं त्वं तथा वेत्थ यथैनं वेद कौरवः ॥२-३५-५॥
भीष्म उवाच॥
नास्मा अनुनयो देयो नायमर्हति सान्त्वनम्। लोकवृद्धतमे कृष्णे योऽर्हणां नानुमन्यते ॥२-३५-६॥
क्षत्रियः क्षत्रियं जित्वा रणे रणकृतां वरः। यो मुञ्चति वशे कृत्वा गुरुर्भवति तस्य सः ॥२-३५-७॥
अस्यां च समितौ राज्ञामेकमप्यजितं युधि। न पश्यामि महीपालं सात्वतीपुत्रतेजसा ॥२-३५-८॥
न हि केवलमस्माकमयमर्च्यतमोऽच्युतः। त्रयाणामपि लोकानामर्चनीयो जनार्दनः ॥२-३५-९॥
कृष्णेन हि जिता युद्धे बहवः क्षत्रियर्षभाः। जगत्सर्वं च वार्ष्णेये निखिलेन प्रतिष्ठितम् ॥२-३५-१०॥
तस्मात्सत्स्वपि वृद्धेषु कृष्णमर्चाम नेतरान्। एवं वक्तुं न चार्हस्त्वं मा भूत्ते बुद्धिरीदृशी ॥२-३५-११॥
ज्ञानवृद्धा मया राजन्बहवः पर्युपासिताः। तेषां कथयतां शौरेरहं गुणवतो गुणान् ॥ समागतानामश्रौषं बहून्बहुमतान्सताम् ॥२-३५-१२॥
कर्माण्यपि च यान्यस्य जन्मप्रभृति धीमतः। बहुशः कथ्यमानानि नरैर्भूयः श्रुतानि मे ॥२-३५-१३॥
न केवलं वयं कामाच्चेदिराज जनार्दनम्। न सम्बन्धं पुरस्कृत्य कृतार्थं वा कथञ्चन ॥२-३५-१४॥
अर्चामहेऽर्चितं सद्भिर्भुवि भौमसुखावहम्। यशः शौर्यं जयं चास्य विज्ञायार्चां प्रयुज्महे ॥२-३५-१५॥
न हि कश्चिदिहास्माभिः सुबालोऽप्यपरीक्षितः। गुणैर्वृद्धानतिक्रम्य हरिरर्च्यतमो मतः ॥२-३५-१६॥
ज्ञानवृद्धो द्विजातीनां क्षत्रियाणां बलाधिकः। पूज्ये ताविह गोविन्दे हेतू द्वावपि संस्थितौ ॥२-३५-१७॥
वेदवेदाङ्गविज्ञानं बलं चाप्यमितं तथा। नृणां हि लोके कस्यास्ति विशिष्टं केशवादृते ॥२-३५-१८॥
दानं दाक्ष्यं श्रुतं शौर्यं ह्रीः कीर्तिर्बुद्धिरुत्तमा। संनतिः श्रीर्धृतिस्तुष्टिः पुष्टिश्च नियताच्युते ॥२-३५-१९॥
तमिमं सर्वसम्पन्नमाचार्यं पितरं गुरुम्। अर्च्यमर्चितमर्चार्हं सर्वे संमन्तुमर्हथ ॥२-३५-२०॥
ऋत्विग्गुरुर्विवाह्यश्च स्नातको नृपतिः प्रियः। सर्वमेतद्धृषीकेशे तस्मादभ्यर्चितोऽच्युतः ॥२-३५-२१॥
कृष्ण एव हि लोकानामुत्पत्तिरपि चाप्ययः। कृष्णस्य हि कृते भूतमिदं विश्वं समर्पितम् ॥२-३५-२२॥
एष प्रकृतिरव्यक्ता कर्ता चैव सनातनः। परश्च सर्वभूतेभ्यस्तस्माद्वृद्धतमोऽच्युतः ॥२-३५-२३॥
बुद्धिर्मनो महान्वायुस्तेजोऽम्भः खं मही च या। चतुर्विधं च यद्भूतं सर्वं कृष्णे प्रतिष्ठितम् ॥२-३५-२४॥
आदित्यश्चन्द्रमाश्चैव नक्षत्राणि ग्रहाश्च ये। दिशश्चोपदिशश्चैव सर्वं कृष्णे प्रतिष्ठितम् ॥२-३५-२५॥
अयं तु पुरुषो बालः शिशुपालो न बुध्यते। सर्वत्र सर्वदा कृष्णं तस्मादेवं प्रभाषते ॥२-३५-२६॥
यो हि धर्मं विचिनुयादुत्कृष्टं मतिमान्नरः। स वै पश्येद्यथाधर्मं न तथा चेदिराडयम् ॥२-३५-२७॥
सवृद्धबालेष्वथ वा पार्थिवेषु महात्मसु। को नार्हं मन्यते कृष्णं को वाप्येनं न पूजयेत् ॥२-३५-२८॥
अथेमां दुष्कृतां पूजां शिशुपालो व्यवस्यति। दुष्कृतायां यथान्यायं तथायं कर्तुमर्हति ॥२-३५-२९॥