Mahabharata - Sabha Parva (महाभारत - सभापर्वम्)
02.036
Pancharatra: Sahadeva roars that he will keep his foot on those who disagree.
वैशम्पायन उवाच॥
एवमुक्त्वा ततो भीष्मो विरराम महायशाः। व्याजहारोत्तरं तत्र सहदेवोऽर्थवद्वचः ॥२-३६-१॥
केशवं केशिहन्तारमप्रमेयपराक्रमम्। पूज्यमानं मया यो वः कृष्णं न सहते नृपाः ॥२-३६-२॥
सर्वेषां बलिनां मूर्ध्नि मयेदं निहितं पदम्। एवमुक्ते मया सम्यगुत्तरं प्रब्रवीतु सः ॥२-३६-३॥
मतिमन्तस्तु ये केचिदाचार्यं पितरं गुरुम्। अर्च्यमर्चितमर्चार्हमनुजानन्तु ते नृपाः ॥२-३६-४॥
ततो न व्याजहारैषां कश्चिद्बुद्धिमतां सताम्। मानिनां बलिनां राज्ञां मध्ये संदर्शिते पदे ॥२-३६-५॥
ततोऽपतत्पुष्पवृष्टिः सहदेवस्य मूर्धनि। अदृश्यरूपा वाचश्चाप्यब्रुवन्साधु साध्विति ॥२-३६-६॥
आविध्यदजिनं कृष्णं भविष्यद्भूतजल्पकः। सर्वसंशयनिर्मोक्ता नारदः सर्वलोकवित् ॥२-३६-७॥
तत्राहूतागताः सर्वे सुनीथप्रमुखा गणाः। सम्प्रादृश्यन्त सङ्क्रुद्धा विवर्णवदनास्तथा ॥२-३६-८॥
युधिष्ठिराभिषेकं च वासुदेवस्य चार्हणम्। अब्रुवंस्तत्र राजानो निर्वेदादात्मनिश्चयात् ॥२-३६-९॥
सुहृद्भिर्वार्यमाणानां तेषां हि वपुराबभौ। आमिषादपकृष्टानां सिंहानामिव गर्जताम् ॥२-३६-१०॥
तं बलौघमपर्यन्तं राजसागरमक्षयम्। कुर्वाणं समयं कृष्णो युद्धाय बुबुधे तदा ॥२-३६-११॥
पूजयित्वा तु पूजार्हं ब्रह्मक्षत्रं विशेषतः। सहदेवो नृणां देवः समापयत कर्म तत् ॥२-३६-१२॥
तस्मिन्नभ्यर्चिते कृष्णे सुनीथः शत्रुकर्षणः। अतिताम्रेक्षणः कोपादुवाच मनुजाधिपान् ॥२-३६-१३॥
स्थितः सेनापतिर्वोऽहं मन्यध्वं किं नु साम्प्रतम्। युधि तिष्ठाम संनह्य समेतान्वृष्णिपाण्डवान् ॥२-३६-१४॥
इति सर्वान्समुत्साह्य राज्ञस्तांश्चेदिपुङ्गवः। यज्ञोपघाताय ततः सोऽमन्त्रयत राजभिः ॥२-३६-१५॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.