02.038
Pancharatra: Shishupala starts insulting Bhishma.
शिशुपाल उवाच॥
विभीषिकाभिर्बह्वीभिर्भीषयन्सर्वपार्थिवान्। न व्यपत्रपसे कस्माद्वृद्धः सन्कुलपांसनः ॥२-३८-१॥
युक्तमेतत्तृतीयायां प्रकृतौ वर्तता त्वया। वक्तुं धर्मादपेतार्थं त्वं हि सर्वकुरूत्तमः ॥२-३८-२॥
नावि नौरिव सम्बद्धा यथान्धो वान्धमन्वियात्। तथाभूता हि कौरव्या भीष्म येषां त्वमग्रणीः ॥२-३८-३॥
पूतनाघातपूर्वाणि कर्माण्यस्य विशेषतः। त्वया कीर्तयतास्माकं भूयः प्रच्यावितं मनः ॥२-३८-४॥
अवलिप्तस्य मूर्खस्य केशवं स्तोतुमिच्छतः। कथं भीष्म न ते जिह्वा शतधेयं विदीर्यते ॥२-३८-५॥
यत्र कुत्सा प्रयोक्तव्या भीष्म बालतरैर्नरैः। तमिमं ज्ञानवृद्धः सन्गोपं संस्तोतुमिच्छसि ॥२-३८-६॥
यद्यनेन हता बाल्ये शकुनिश्चित्रमत्र किम्। तौ वाश्ववृषभौ भीष्म यौ न युद्धविशारदौ ॥२-३८-७॥
चेतनारहितं काष्ठं यद्यनेन निपातितम्। पादेन शकटं भीष्म तत्र किं कृतमद्भुतम् ॥२-३८-८॥
वल्मीकमात्रः सप्ताहं यद्यनेन धृतोऽचलः। तदा गोवर्धनो भीष्म न तच्चित्रं मतं मम ॥२-३८-९॥
भुक्तमेतेन बह्वन्नं क्रीडता नगमूर्धनि। इति ते भीष्म शृण्वानाः परं विस्मयमागताः ॥२-३८-१०॥
यस्य चानेन धर्मज्ञ भुक्तमन्नं बलीयसः। स चानेन हतः कंस इत्येतन्न महाद्भुतम् ॥२-३८-११॥
न ते श्रुतमिदं भीष्म नूनं कथयतां सताम्। यद्वक्ष्ये त्वामधर्मज्ञ वाक्यं कुरुकुलाधम ॥२-३८-१२॥
स्त्रीषु गोषु न शस्त्राणि पातयेद्ब्राह्मणेषु च। यस्य चान्नानि भुञ्जीत यश्च स्याच्छरणागतः ॥२-३८-१३॥
इति सन्तोऽनुशासन्ति सज्जना धर्मिणः सदा। भीष्म लोके हि तत्सर्वं वितथं त्वयि दृश्यते ॥२-३८-१४॥
ज्ञानवृद्धं च वृद्धं च भूयांसं केशवं मम। अजानत इवाख्यासि संस्तुवन्कुरुसत्तम ॥ गोघ्नः स्त्रीघ्नश्च सन्भीष्म कथं संस्तवमर्हति ॥२-३८-१५॥
असौ मतिमतां श्रेष्ठो य एष जगतः प्रभुः। सम्भावयति यद्येवं त्वद्वाक्याच्च जनार्दनः ॥ एवमेतत्सर्वमिति सर्वं तद्वितथं ध्रुवम् ॥२-३८-१६॥
न गाथा गाथिनं शास्ति बहु चेदपि गायति। प्रकृतिं यान्ति भूतानि भूलिङ्गशकुनिर्यथा ॥२-३८-१७॥
नूनं प्रकृतिरेषा ते जघन्या नात्र संशयः। अतः पापीयसी चैषां पाण्डवानामपीष्यते ॥२-३८-१८॥
येषामर्च्यतमः कृष्णस्त्वं च येषां प्रदर्शकः। धर्मवाक्त्वमधर्मज्ञः सतां मार्गादवप्लुतः ॥२-३८-१९॥
को हि धर्मिणमात्मानं जानञ्ज्ञानवतां वरः। कुर्याद्यथा त्वया भीष्म कृतं धर्ममवेक्षता ॥२-३८-२०॥
अन्यकामा हि धर्मज्ञ कन्यका प्राज्ञमानिना। अम्बा नामेति भद्रं ते कथं सापहृता त्वया ॥२-३८-२१॥
यां त्वयापहृतां भीष्म कन्यां नैषितवान्नृपः। भ्राता विचित्रवीर्यस्ते सतां वृत्तमनुष्ठितः ॥२-३८-२२॥
दारयोर्यस्य चान्येन मिषतः प्राज्ञमानिनः। तव जातान्यपत्यानि सज्जनाचरिते पथि ॥२-३८-२३॥
न हि धर्मोऽस्ति ते भीष्म ब्रह्मचर्यमिदं वृथा। यद्धारयसि मोहाद्वा क्लीबत्वाद्वा न संशयः ॥२-३८-२४॥
न त्वहं तव धर्मज्ञ पश्याम्युपचयं क्वचित्। न हि ते सेविता वृद्धा य एवं धर्ममब्रुवन् ॥२-३८-२५॥
इष्टं दत्तमधीतं च यज्ञाश्च बहुदक्षिणाः। सर्वमेतदपत्यस्य कलां नार्हति षोडशीम् ॥२-३८-२६॥
व्रतोपवासैर्बहुभिः कृतं भवति भीष्म यत्। सर्वं तदनपत्यस्य मोघं भवति निश्चयात् ॥२-३८-२७॥
सोऽनपत्यश्च वृद्धश्च मिथ्याधर्मानुशासनात्। हंसवत्त्वमपीदानीं ज्ञातिभ्यः प्राप्नुया वधम् ॥२-३८-२८॥
एवं हि कथयन्त्यन्ये नरा ज्ञानविदः पुरा। भीष्म यत्तदहं सम्यग्वक्ष्यामि तव शृण्वतः ॥२-३८-२९॥
वृद्धः किल समुद्रान्ते कश्चिद्धंसोऽभवत्पुरा। धर्मवागन्यथावृत्तः पक्षिणः सोऽनुशास्ति ह ॥२-३८-३०॥
धर्मं चरत माधर्ममिति तस्य वचः किल। पक्षिणः शुश्रुवुर्भीष्म सततं धर्मवादिनः ॥२-३८-३१॥
अथास्य भक्ष्यमाजह्रुः समुद्रजलचारिणः। अण्डजा भीष्म तस्यान्ये धर्मार्थमिति शुश्रुम ॥२-३८-३२॥
तस्य चैव समभ्याशे निक्षिप्याण्डानि सर्वशः। समुद्राम्भस्यमोदन्त चरन्तो भीष्म पक्षिणः ॥२-३८-३३॥
तेषामण्डानि सर्वेषां भक्षयामास पापकृत्। स हंसः सम्प्रमत्तानामप्रमत्तः स्वकर्मणि ॥२-३८-३४॥
ततः प्रक्षीयमाणेषु तेष्वण्डेष्वण्डजोऽपरः। अशङ्कत महाप्राज्ञस्तं कदाचिद्ददर्श ह ॥२-३८-३५॥
ततः स कथयामास दृष्ट्वा हंसस्य किल्बिषम्। तेषां परमदुःखार्तः स पक्षी सर्वपक्षिणाम् ॥२-३८-३६॥
ततः प्रत्यक्षतो दृष्ट्वा पक्षिणस्ते समागताः। निजघ्नुस्तं तदा हंसं मिथ्यावृत्तं कुरूद्वह ॥२-३८-३७॥
ते त्वां हंससधर्माणमपीमे वसुधाधिपाः। निहन्युर्भीष्म सङ्क्रुद्धाः पक्षिणस्तमिवाण्डजम् ॥२-३८-३८॥
गाथामप्यत्र गायन्ति ये पुराणविदो जनाः। भीष्म यां तां च ते सम्यक्कथयिष्यामि भारत ॥२-३८-३९॥
अन्तरात्मनि विनिहिते; रौषि पत्ररथ वितथम्। अण्डभक्षणमशुचि ते; कर्म वाचमतिशयते ॥२-३८-४०॥