Mahabharata - Sabha Parva (महाभारत - सभापर्वम्)
02.037
Pancharatra: Bhishma consoles Yudhisthira.
वैशम्पायन उवाच॥
ततः सागरसङ्काशं दृष्ट्वा नृपतिसागरम्। रोषात्प्रचलितं सर्वमिदमाह युधिष्ठिरः ॥२-३७-१॥
भीष्मं मतिमतां श्रेष्ठं वृद्धं कुरुपितामहम्। बृहस्पतिं बृहत्तेजाः पुरुहूत इवारिहा ॥२-३७-२॥
असौ रोषात्प्रचलितो महान्नृपतिसागरः। अत्र यत्प्रतिपत्तव्यं तन्मे ब्रूहि पितामह ॥२-३७-३॥
यज्ञस्य च न विघ्नः स्यात्प्रजानां च शिवं भवेत्। यथा सर्वत्र तत्सर्वं ब्रूहि मेऽद्य पितामह ॥२-३७-४॥
इत्युक्तवति धर्मज्ञे धर्मराजे युधिष्ठिरे। उवाचेदं वचो भीष्मस्ततः कुरुपितामहः ॥२-३७-५॥
मा भैस्त्वं कुरुशार्दूल श्वा सिंहं हन्तुमर्हति। शिवः पन्थाः सुनीतोऽत्र मया पूर्वतरं वृतः ॥२-३७-६॥
प्रसुप्ते हि यथा सिंहे श्वानस्तत्र समागताः। भषेयुः सहिताः सर्वे तथेमे वसुधाधिपाः ॥२-३७-७॥
वृष्णिसिंहस्य सुप्तस्य तथेमे प्रमुखे स्थिताः। भषन्ते तात सङ्क्रुद्धाः श्वानः सिंहस्य संनिधौ ॥२-३७-८॥
न हि सम्बुध्यते तावत्सुप्तः सिंह इवाच्युतः। तेन सिंहीकरोत्येतान्नृसिंहश्चेदिपुङ्गवः ॥२-३७-९॥
पार्थिवान्पार्थिवश्रेष्ठ शिशुपालोऽल्पचेतनः। सर्वान्सर्वात्मना तात नेतुकामो यमक्षयम् ॥२-३७-१०॥
नूनमेतत्समादातुं पुनरिच्छत्यधोक्षजः। यदस्य शिशुपालस्थं तेजस्तिष्ठति भारत ॥२-३७-११॥
विप्लुता चास्य भद्रं ते बुद्धिर्बुद्धिमतां वर। चेदिराजस्य कौन्तेय सर्वेषां च महीक्षिताम् ॥२-३७-१२॥
आदातुं हि नरव्याघ्रो यं यमिच्छत्ययं यदा। तस्य विप्लवते बुद्धिरेवं चेदिपतेर्यथा ॥२-३७-१३॥
चतुर्विधानां भूतानां त्रिषु लोकेषु माधवः। प्रभवश्चैव सर्वेषां निधनं च युधिष्ठिर ॥२-३७-१४॥
इति तस्य वचः श्रुत्वा ततश्चेदिपतिर्नृपः। भीष्मं रूक्षाक्षरा वाचः श्रावयामास भारत ॥२-३७-१५॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.