Mahabharata - Sabha Parva (महाभारत - सभापर्वम्)
02.039
Pancharatra: Bhishma restrains enraged Bhima.
शिशुपाल उवाच॥
स मे बहुमतो राजा जरासन्धो महाबलः। योऽनेन युद्धं नेयेष दासोऽयमिति संयुगे ॥२-३९-१॥
केशवेन कृतं यत्तु जरासन्धवधे तदा। भीमसेनार्जुनाभ्यां च कस्तत्साध्विति मन्यते ॥२-३९-२॥
अद्वारेण प्रविष्टेन छद्मना ब्रह्मवादिना। दृष्टः प्रभावः कृष्णेन जरासन्धस्य धीमतः ॥२-३९-३॥
येन धर्मात्मनात्मानं ब्रह्मण्यमभिजानता। नैषितं पाद्यमस्मै तद्दातुमग्रे दुरात्मने ॥२-३९-४॥
भुज्यतामिति तेनोक्ताः कृष्णभीमधनञ्जयाः। जरासन्धेन कौरव्य कृष्णेन विकृतं कृतम् ॥२-३९-५॥
यद्ययं जगतः कर्ता यथैनं मूर्ख मन्यसे। कस्मान्न ब्राह्मणं सम्यगात्मानमवगच्छति ॥२-३९-६॥
इदं त्वाश्चर्यभूतं मे यदिमे पाण्डवास्त्वया। अपकृष्टाः सतां मार्गान्मन्यन्ते तच्च साध्विति ॥२-३९-७॥
अथ वा नैतदाश्चर्यं येषां त्वमसि भारत। स्त्रीसधर्मा च वृद्धश्च सर्वार्थानां प्रदर्शकः ॥२-३९-८॥
वैशम्पायन उवाच॥
तस्य तद्वचनं श्रुत्वा रूक्षं रूक्षाक्षरं बहु। चुकोप बलिनां श्रेष्ठो भीमसेनः प्रतापवान् ॥२-३९-९॥
तस्य पद्मप्रतीकाशे स्वभावायतविस्तृते। भूयः क्रोधाभिताम्रान्ते रक्ते नेत्रे बभूवतुः ॥२-३९-१०॥
त्रिशिखां भ्रुकुटीं चास्य ददृशुः सर्वपार्थिवाः। ललाटस्थां त्रिकूटस्थां गङ्गां त्रिपथगामिव ॥२-३९-११॥
दन्तान्संदशतस्तस्य कोपाद्ददृशुराननम्। युगान्ते सर्वभूतानि कालस्येव दिधक्षतः ॥२-३९-१२॥
उत्पतन्तं तु वेगेन जग्राहैनं मनस्विनम्। भीष्म एव महाबाहुर्महासेनमिवेश्वरः ॥२-३९-१३॥
तस्य भीमस्य भीष्मेण वार्यमाणस्य भारत। गुरुणा विविधैर्वाक्यैः क्रोधः प्रशममागतः ॥२-३९-१४॥
नातिचक्राम भीष्मस्य स हि वाक्यमरिंदमः। समुद्धूतो घनापाये वेलामिव महोदधिः ॥२-३९-१५॥
शिशुपालस्तु सङ्क्रुद्धे भीमसेने नराधिप। नाकम्पत तदा वीरः पौरुषे स्वे व्यवस्थितः ॥२-३९-१६॥
उत्पतन्तं तु वेगेन पुनः पुनररिंदमः। न स तं चिन्तयामास सिंहः क्षुद्रमृगं यथा ॥२-३९-१७॥
प्रहसंश्चाब्रवीद्वाक्यं चेदिराजः प्रतापवान्। भीमसेनमतिक्रुद्धं दृष्ट्वा भीमपराक्रमम् ॥२-३९-१८॥
मुञ्चैनं भीष्म पश्यन्तु यावदेनं नराधिपाः। मत्प्रतापाग्निनिर्दग्धं पतङ्गमिव वह्निना ॥२-३९-१९॥
ततश्चेदिपतेर्वाक्यं तच्छ्रुत्वा कुरुसत्तमः। भीमसेनमुवाचेदं भीष्मो मतिमतां वरः ॥२-३९-२०॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.