Mahabharata - Sabha Parva (महाभारत - सभापर्वम्)
02.040
Pancharatra: Bhishma narrates about the boon given by Krishna to Shishupala’s mother.
भीष्म उवाच॥
चेदिराजकुले जातस्त्र्यक्ष एष चतुर्भुजः। रासभारावसदृशं रुराव च ननाद च ॥२-४०-१॥
तेनास्य मातापितरौ त्रेसतुस्तौ सबान्धवौ। वैकृतं तच्च तौ दृष्ट्वा त्यागाय कुरुतां मतिम् ॥२-४०-२॥
ततः सभार्यं नृपतिं सामात्यं सपुरोहितम्। चिन्तासंमूढहृदयं वागुवाचाशरीरिणी ॥२-४०-३॥
एष ते नृपते पुत्रः श्रीमाञ्जातो महाबलः। तस्मादस्मान्न भेतव्यमव्यग्रः पाहि वै शिशुम् ॥२-४०-४॥
न चैवैतस्य मृत्युस्त्वं न कालः प्रत्युपस्थितः। मृत्युर्हन्तास्य शस्त्रेण स चोत्पन्नो नराधिप ॥२-४०-५॥
संश्रुत्योदाहृतं वाक्यं भूतमन्तर्हितं ततः। पुत्रस्नेहाभिसन्तप्ता जननी वाक्यमब्रवीत् ॥२-४०-६॥
येनेदमीरितं वाक्यं ममैव तनयं प्रति। प्राञ्जलिस्तं नमस्यामि ब्रवीतु स पुनर्वचः ॥२-४०-७॥
श्रोतुमिच्छामि पुत्रस्य कोऽस्य मृत्युर्भविष्यति। अन्तर्हितं ततो भूतमुवाचेदं पुनर्वचः ॥२-४०-८॥
येनोत्सङ्गे गृहीतस्य भुजावभ्यधिकावुभौ। पतिष्यतः क्षितितले पञ्चशीर्षाविवोरगौ ॥२-४०-९॥
तृतीयमेतद्बालस्य ललाटस्थं च लोचनम्। निमज्जिष्यति यं दृष्ट्वा सोऽस्य मृत्युर्भविष्यति ॥२-४०-१०॥
त्र्यक्षं चतुर्भुजं श्रुत्वा तथा च समुदाहृतम्। धरण्यां पार्थिवाः सर्वे अभ्यगच्छन्दिदृक्षवः ॥२-४०-११॥
तान्पूजयित्वा सम्प्राप्तान्यथार्हं स महीपतिः। एकैकस्य नृपस्याङ्के पुत्रमारोपयत्तदा ॥२-४०-१२॥
एवं राजसहस्राणां पृथक्त्वेन यथाक्रमम्। शिशुरङ्के समारूढो न तत्प्राप निदर्शनम् ॥२-४०-१३॥
ततश्चेदिपुरं प्राप्तौ सङ्कर्षणजनार्दनौ। यादवौ यादवीं द्रष्टुं स्वसारं तां पितुस्तदा ॥२-४०-१४॥
अभिवाद्य यथान्यायं यथाज्येष्ठं नृपांश्च तान्। कुशलानामयं पृष्ट्वा निषण्णौ रामकेशवौ ॥२-४०-१५॥
अभ्यर्चितौ तदा वीरौ प्रीत्या चाभ्यधिकं ततः। पुत्रं दामोदरोत्सङ्गे देवी संन्यदधात्स्वयम् ॥२-४०-१६॥
न्यस्तमात्रस्य तस्याङ्के भुजावभ्यधिकावुभौ। पेततुस्तच्च नयनं निममज्ज ललाटजम् ॥२-४०-१७॥
तद्दृष्ट्वा व्यथिता त्रस्ता वरं कृष्णमयाचत। ददस्व मे वरं कृष्ण भयार्ताया महाभुज ॥२-४०-१८॥
त्वं ह्यार्तानां समाश्वासो भीतानामभयङ्करः। पितृष्वसारं मा भैषीरित्युवाच जनार्दनः ॥२-४०-१९॥
ददानि कं वरं किं वा करवाणि पितृष्वसः। शक्यं वा यदि वाशक्यं करिष्यामि वचस्तव ॥२-४०-२०॥
एवमुक्ता ततः कृष्णमब्रवीद्यदुनन्दनम्। शिशुपालस्यापराधान्क्षमेथास्त्वं महाबल ॥२-४०-२१॥
कृष्ण उवाच॥
अपराधशतं क्षाम्यं मया ह्यस्य पितृष्वसः। पुत्रस्य ते वधार्हाणां मा त्वं शोके मनः कृथाः ॥२-४०-२२॥
भीष्म उवाच॥
एवमेष नृपः पापः शिशुपालः सुमन्दधीः। त्वां समाह्वयते वीर गोविन्दवरदर्पितः ॥२-४०-२३॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.