Mahabharata - Sabha Parva (महाभारत - सभापर्वम्)
02.041
Pancharatra: Exchange of words between Bhishma and Shishupala.
भीष्म उवाच॥
नैषा चेदिपतेर्बुद्धिर्यया त्वाह्वयतेऽच्युतम्। नूनमेष जगद्भर्तुः कृष्णस्यैव विनिश्चयः ॥२-४१-१॥
को हि मां भीमसेनाद्य क्षितावर्हति पार्थिवः। क्षेप्तुं दैवपरीतात्मा यथैष कुलपांसनः ॥२-४१-२॥
एष ह्यस्य महाबाहो तेजोंशश्च हरेर्ध्रुवम्। तमेव पुनरादातुमिच्छत्पृथुयशा हरिः ॥२-४१-३॥
येनैष कुरुशार्दूल शार्दूल इव चेदिराट्। गर्जत्यतीव दुर्बुद्धिः सर्वानस्मानचिन्तयन् ॥२-४१-४॥
वैशम्पायन उवाच॥
ततो न ममृषे चैद्यस्तद्भीष्मवचनं तदा। उवाच चैनं सङ्क्रुद्धः पुनर्भीष्ममथोत्तरम् ॥२-४१-५॥
शिशुपाल उवाच॥
द्विषतां नोऽस्तु भीष्मैष प्रभावः केशवस्य यः। यस्य संस्तववक्ता त्वं बन्दिवत्सततोत्थितः ॥२-४१-६॥
संस्तवाय मनो भीष्म परेषां रमते सदा। यदि संस्तौषि राज्ञस्त्वमिमं हित्वा जनार्दनम् ॥२-४१-७॥
दरदं स्तुहि बाह्लीकमिमं पार्थिवसत्तमम्। जायमानेन येनेयमभवद्दारिता मही ॥२-४१-८॥
वङ्गाङ्गविषयाध्यक्षं सहस्राक्षसमं बले। स्तुहि कर्णमिमं भीष्म महाचापविकर्षणम् ॥२-४१-९॥
द्रोणं द्रौणिं च साधु त्वं पितापुत्रौ महारथौ। स्तुहि स्तुत्याविमौ भीष्म सततं द्विजसत्तमौ ॥२-४१-१०॥
ययोरन्यतरो भीष्म सङ्क्रुद्धः सचराचराम्। इमां वसुमतीं कुर्यादशेषामिति मे मतिः ॥२-४१-११॥
द्रोणस्य हि समं युद्धे न पश्यामि नराधिपम्। अश्वत्थाम्नस्तथा भीष्म न चैतौ स्तोतुमिच्छसि ॥२-४१-१२॥
शल्यादीनपि कस्मात्त्वं न स्तौषि वसुधाधिपान्। स्तवाय यदि ते बुद्धिर्वर्तते भीष्म सर्वदा ॥२-४१-१३॥
किं हि शक्यं मया कर्तुं यद्वृद्धानां त्वया नृप। पुरा कथयतां नूनं न श्रुतं धर्मवादिनाम् ॥२-४१-१४॥
आत्मनिन्दात्मपूजा च परनिन्दा परस्तवः। अनाचरितमार्याणां वृत्तमेतच्चतुर्विधम् ॥२-४१-१५॥
यदस्तव्यमिमं शश्वन्मोहात्संस्तौषि भक्तितः। केशवं तच्च ते भीष्म न कश्चिदनुमन्यते ॥२-४१-१६॥
कथं भोजस्य पुरुषे वर्गपाले दुरात्मनि। समावेशयसे सर्वं जगत्केवलकाम्यया ॥२-४१-१७॥
अथ वैषा न ते भक्तिः पकृतिं याति भारत। मयैव कथितं पूर्वं भूलिङ्गशकुनिर्यथा ॥२-४१-१८॥
भूलिङ्गशकुनिर्नाम पार्श्वे हिमवतः परे। भीष्म तस्याः सदा वाचः श्रूयन्तेऽर्थविगर्हिताः ॥२-४१-१९॥
मा साहसमितीदं सा सततं वाशते किल। साहसं चात्मनातीव चरन्ती नावबुध्यते ॥२-४१-२०॥
सा हि मांसार्गलं भीष्म मुखात्सिंहस्य खादतः। दन्तान्तरविलग्नं यत्तदादत्तेऽल्पचेतना ॥२-४१-२१॥
इच्छतः सा हि सिंहस्य भीष्म जीवत्यसंशयम्। तद्वत्त्वमप्यधर्मज्ञ सदा वाचः प्रभाषसे ॥२-४१-२२॥
इच्छतां पार्थिवेन्द्राणां भीष्म जीवस्यसंशयम्। लोकविद्विष्टकर्मा हि नान्योऽस्ति भवता समः ॥२-४१-२३॥
वैशम्पायन उवाच॥
ततश्चेदिपतेः श्रुत्वा भीष्मः स कटुकं वचः। उवाचेदं वचो राजंश्चेदिराजस्य शृण्वतः ॥२-४१-२४॥
इच्छतां किल नामाहं जीवाम्येषां महीक्षिताम्। योऽहं न गणयाम्येतांस्तृणानीव नराधिपान् ॥२-४१-२५॥
एवमुक्ते तु भीष्मेण ततः सञ्चुक्रुधुर्नृपाः। केचिज्जहृषिरे तत्र केचिद्भीष्मं जगर्हिरे ॥२-४१-२६॥
केचिदूचुर्महेष्वासाः श्रुत्वा भीष्मस्य तद्वचः। पापोऽवलिप्तो वृद्धश्च नायं भीष्मोऽर्हति क्षमाम् ॥२-४१-२७॥
हन्यतां दुर्मतिर्भीष्मः पशुवत्साध्वयं नृपैः। सर्वैः समेत्य संरब्धैर्दह्यतां वा कटाग्निना ॥२-४१-२८॥
इति तेषां वचः श्रुत्वा ततः कुरुपितामहः। उवाच मतिमान्भीष्मस्तानेव वसुधाधिपान् ॥२-४१-२९॥
उक्तस्योक्तस्य नेहान्तमहं समुपलक्षये। यत्तु वक्ष्यामि तत्सर्वं शृणुध्वं वसुधाधिपाः ॥२-४१-३०॥
पशुवद्घातनं वा मे दहनं वा कटाग्निना। क्रियतां मूर्ध्नि वो न्यस्तं मयेदं सकलं पदम् ॥२-४१-३१॥
एष तिष्ठति गोविन्दः पूजितोऽस्माभिरच्युतः। यस्य वस्त्वरते बुद्धिर्मरणाय स माधवम् ॥२-४१-३२॥
कृष्णमाह्वयतामद्य युद्धे शार्ङ्गगदाधरम्। यावदस्यैव देवस्य देहं विशतु पातितः ॥२-४१-३३॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.