Mahabharata - Sabha Parva (महाभारत - सभापर्वम्)
02.042
Core-Pancharatra: Rajasuya is completed, and Krishna takes leave.
वैशम्पायन उवाच॥
ततः श्रुत्वैव भीष्मस्य चेदिराडुरुविक्रमः। युयुत्सुर्वासुदेवेन वासुदेवमुवाच ह ॥२-४२-१॥
आह्वये त्वां रणं गच्छ मया सार्धं जनार्दन। यावदद्य निहन्मि त्वां सहितं सर्वपाण्डवैः ॥२-४२-२॥
सह त्वया हि मे वध्याः पाण्डवाः कृष्ण सर्वथा। नृपतीन्समतिक्रम्य यैरराजा त्वमर्चितः ॥२-४२-३॥
ये त्वां दासमराजानं बाल्यादर्चन्ति दुर्मतिम्। अनर्हमर्हवत्कृष्ण वध्यास्त इति मे मतिः ॥ इत्युक्त्वा राजशार्दूलस्तस्थौ गर्जन्नमर्षणः ॥२-४२-४॥
एवमुक्ते ततः कृष्णो मृदुपूर्वमिदं वचः। उवाच पार्थिवान्सर्वांस्तत्समक्षं च पाण्डवान् ॥२-४२-५॥
एष नः शत्रुरत्यन्तं पार्थिवाः सात्वतीसुतः। सात्वतानां नृशंसात्मा न हितोऽनपकारिणाम् ॥२-४२-६॥
प्राग्ज्योतिषपुरं यातानस्माञ्ज्ञात्वा नृशंसकृत्। अदहद्द्वारकामेष स्वस्रीयः सन्नराधिपाः ॥२-४२-७॥
क्रीडतो भोजराजन्यानेष रैवतके गिरौ। हत्वा बद्ध्वा च तान्सर्वानुपायात्स्वपुरं पुरा ॥२-४२-८॥
अश्वमेधे हयं मेध्यमुत्सृष्टं रक्षिभिर्वृतम्। पितुर्मे यज्ञविघ्नार्थमहरत्पापनिश्चयः ॥२-४२-९॥
सौवीरान्प्रतिपत्तौ च बभ्रोरेष यशस्विनः। भार्यामभ्यहरन्मोहादकामां तामितो गताम् ॥२-४२-१०॥
एष मायाप्रतिच्छन्नः करूषार्थे तपस्विनीम्। जहार भद्रां वैशालीं मातुलस्य नृशंसकृत् ॥२-४२-११॥
पितृष्वसुः कृते दुःखं सुमहन्मर्षयाम्यहम्। दिष्ट्या त्विदं सर्वराज्ञां संनिधावद्य वर्तते ॥२-४२-१२॥
पश्यन्ति हि भवन्तोऽद्य मय्यतीव व्यतिक्रमम्। कृतानि तु परोक्षं मे यानि तानि निबोधत ॥२-४२-१३॥
इमं त्वस्य न शक्ष्यामि क्षन्तुमद्य व्यतिक्रमम्। अवलेपाद्वधार्हस्य समग्रे राजमण्डले ॥२-४२-१४॥
रुक्मिण्यामस्य मूढस्य प्रार्थनासीन्मुमूर्षतः। न च तां प्राप्तवान्मूढः शूद्रो वेदश्रुतिं यथा ॥२-४२-१५॥
एवमादि ततः सर्वे सहितास्ते नराधिपाः। वासुदेववचः श्रुत्वा चेदिराजं व्यगर्हयन् ॥२-४२-१६॥
ततस्तद्वचनं श्रुत्वा शिशुपालः प्रतापवान्। जहास स्वनवद्धासं प्रहस्येदमुवाच ह ॥२-४२-१७॥
मत्पूर्वां रुक्मिणीं कृष्ण संसत्सु परिकीर्तयन्। विशेषतः पार्थिवेषु व्रीडां न कुरुषे कथम् ॥२-४२-१८॥
मन्मानो हि कः सत्सु पुरुषः परिकीर्तयेत्। अन्यपूर्वां स्त्रियं जातु त्वदन्यो मधुसूदन ॥२-४२-१९॥
क्षम वा यदि ते श्रद्धा मा वा कृष्ण मम क्षम। क्रुद्धाद्वापि प्रसन्नाद्वा किं मे त्वत्तो भविष्यति ॥२-४२-२०॥
तथा ब्रुवत एवास्य भगवान्मधुसूदनः। व्यपाहरच्छिरः क्रुद्धश्चक्रेणामित्रकर्षणः ॥ स पपात महाबाहुर्वज्राहत इवाचलः ॥२-४२-२१॥
ततश्चेदिपतेर्देहात्तेजोऽग्र्यं ददृशुर्नृपाः। उत्पतन्तं महाराज गगनादिव भास्करम् ॥२-४२-२२॥
ततः कमलपत्राक्षं कृष्णं लोकनमस्कृतम्। ववन्दे तत्तदा तेजो विवेश च नराधिप ॥२-४२-२३॥
तदद्भुतममन्यन्त दृष्ट्वा सर्वे महीक्षितः। यद्विवेश महाबाहुं तत्तेजः पुरुषोत्तमम् ॥२-४२-२४॥
अनभ्रे प्रववर्ष द्यौः पपात ज्वलिताशनिः। कृष्णेन निहते चैद्ये चचाल च वसुन्धरा ॥२-४२-२५॥
ततः केचिन्महीपाला नाब्रुवंस्तत्र किञ्चन। अतीतवाक्पथे काले प्रेक्षमाणा जनार्दनम् ॥२-४२-२६॥
हस्तैर्हस्ताग्रमपरे प्रत्यपीषन्नमर्षिताः। अपरे दशनैरोष्ठानदशन्क्रोधमूर्छिताः ॥२-४२-२७॥
रहस्तु केचिद्वार्ष्णेयं प्रशशंसुर्नराधिपाः। केचिदेव तु संरब्धा मध्यस्थास्त्वपरेऽभवन् ॥२-४२-२८॥
प्रहृष्टाः केशवं जग्मुः संस्तुवन्तो महर्षयः। ब्राह्मणाश्च महात्मानः पार्थिवाश्च महाबलाः ॥२-४२-२९॥
पाण्डवस्त्वब्रवीद्भ्रातॄन्सत्कारेण महीपतिम्। दमघोषात्मजं वीरं संसाधयत मा चिरम् ॥ तथा च कृतवन्तस्ते भ्रातुर्वै शासनं तदा ॥२-४२-३०॥
चेदीनामाधिपत्ये च पुत्रमस्य महीपतिम्। अभ्यषिञ्चत्तदा पार्थः सह तैर्वसुधाधिपैः ॥२-४२-३१॥
ततः स कुरुराजस्य क्रतुः सर्वसमृद्धिमान्। यूनां प्रीतिकरो राजन्सम्बभौ विपुलौजसः ॥२-४२-३२॥
शान्तविघ्नः सुखारम्भः प्रभूतधनधान्यवान्। अन्नवान्बहुभक्ष्यश्च केशवेन सुरक्षितः ॥२-४२-३३॥
समापयामास च तं राजसूयं महाक्रतुम्। तं तु यज्ञं महाबाहुरा समाप्तेर्जनार्दनः ॥ ररक्ष भगवाञ्शौरिः शार्ङ्गचक्रगदाधरः ॥२-४२-३४॥
ततस्त्ववभृथस्नातं धर्मराजं युधिष्ठिरम्। समस्तं पार्थिवं क्षत्रमभिगम्येदमब्रवीत् ॥२-४२-३५॥
दिष्ट्या वर्धसि धर्मज्ञ साम्राज्यं प्राप्तवान्विभो। आजमीढाजमीढानां यशः संवर्धितं त्वया ॥ कर्मणैतेन राजेन्द्र धर्मश्च सुमहान्कृतः ॥२-४२-३६॥
आपृच्छामो नरव्याघ्र सर्वकामैः सुपूजिताः। स्वराष्ट्राणि गमिष्यामस्तदनुज्ञातुमर्हसि ॥२-४२-३७॥
श्रुत्वा तु वचनं राज्ञां धर्मराजो युधिष्ठिरः। यथार्हं पूज्य नृपतीन्भ्रातॄन्सर्वानुवाच ह ॥२-४२-३८॥
राजानः सर्व एवैते प्रीत्यास्मान्समुपागताः। प्रस्थिताः स्वानि राष्ट्राणि मामापृच्छ्य परन्तपाः ॥ तेऽनुव्रजत भद्रं वो विषयान्तं नृपोत्तमान् ॥२-४२-३९॥
भ्रातुर्वचनमाज्ञाय पाण्डवा धर्मचारिणः। यथार्हं नृपमुख्यांस्तानेकैकं समनुव्रजन् ॥२-४२-४०॥
विराटमन्वयात्तूर्णं धृष्टद्युम्नः प्रतापवान्। धनञ्जयो यज्ञसेनं महात्मानं महारथः ॥२-४२-४१॥
भीष्मं च धृतराष्ट्रं च भीमसेनो महाबलः। द्रोणं च ससुतं वीरं सहदेवो महारथः ॥२-४२-४२॥
नकुलः सुबलं राजन्सहपुत्रं समन्वयात्। द्रौपदेयाः ससौभद्राः पार्वतीयान्महीपतीन् ॥२-४२-४३॥
अन्वगच्छंस्तथैवान्यान्क्षत्रियान्क्षत्रियर्षभाः। एवं सम्पूजितास्ते वै जग्मुर्विप्राश्च सर्वशः ॥२-४२-४४॥
गतेषु पार्थिवेन्द्रेषु सर्वेषु भरतर्षभ। युधिष्ठिरमुवाचेदं वासुदेवः प्रतापवान् ॥२-४२-४५॥
आपृच्छे त्वां गमिष्यामि द्वारकां कुरुनन्दन। राजसूयं क्रतुश्रेष्ठं दिष्ट्या त्वं प्राप्तवानसि ॥२-४२-४६॥
तमुवाचैवमुक्तस्तु धर्मराण्मधुसूदनम्। तव प्रसादाद्गोविन्द प्राप्तवानस्मि वै क्रतुम् ॥२-४२-४७॥
समस्तं पार्थिवं क्षत्रं त्वत्प्रसादाद्वशानुगम्। उपादाय बलिं मुख्यं मामेव समुपस्थितम् ॥२-४२-४८॥
न वयं त्वामृते वीर रंस्यामेह कथञ्चन। अवश्यं चापि गन्तव्या त्वया द्वारवती पुरी ॥२-४२-४९॥
एवमुक्तः स धर्मात्मा युधिष्ठिरसहायवान्। अभिगम्याब्रवीत्प्रीतः पृथां पृथुयशा हरिः ॥२-४२-५०॥
साम्राज्यं समनुप्राप्ताः पुत्रास्तेऽद्य पितृष्वसः। सिद्धार्था वसुमन्तश्च सा त्वं प्रीतिमवाप्नुहि ॥२-४२-५१॥
अनुज्ञातस्त्वया चाहं द्वारकां गन्तुमुत्सहे। सुभद्रां द्रौपदीं चैव सभाजयत केशवः ॥२-४२-५२॥
निष्क्रम्यान्तःपुराच्चैव युधिष्ठिरसहायवान्। स्नातश्च कृतजप्यश्च ब्राह्मणान्स्वस्ति वाच्य च ॥२-४२-५३॥
ततो मेघवरप्रख्यं स्यन्दनं वै सुकल्पितम्। योजयित्वा महाराज दारुकः प्रत्युपस्थितः ॥२-४२-५४॥
उपस्थितं रथं दृष्ट्वा तार्क्ष्यप्रवरकेतनम्। प्रदक्षिणमुपावृत्य समारुह्य महामनाः ॥ प्रययौ पुण्डरीकाक्षस्ततो द्वारवतीं पुरीम् ॥२-४२-५५॥
तं पद्भ्यामनुवव्राज धर्मराजो युधिष्ठिरः। भ्रातृभिः सहितः श्रीमान्वासुदेवं महाबलम् ॥२-४२-५६॥
ततो मुहूर्तं सङ्गृह्य स्यन्दनप्रवरं हरिः। अब्रवीत्पुण्डरीकाक्षः कुन्तीपुत्रं युधिष्ठिरम् ॥२-४२-५७॥
अप्रमत्तः स्थितो नित्यं प्रजाः पाहि विशां पते। पर्जन्यमिव भूतानि महाद्रुममिवाण्डजाः ॥ बान्धवास्त्वोपजीवन्तु सहस्राक्षमिवामराः ॥२-४२-५८॥
कृत्वा परस्परेणैवं संविदं कृष्णपाण्डवौ। अन्योन्यं समनुज्ञाप्य जग्मतुः स्वगृहान्प्रति ॥२-४२-५९॥
गते द्वारवतीं कृष्णे सात्वतप्रवरे नृप। एको दुर्योधनो राजा शकुनिश्चापि सौबलः ॥ तस्यां सभायां दिव्यायामूषतुस्तौ नरर्षभौ ॥२-४२-६०॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.