Mahabharata - Sabha Parva (महाभारत - सभापर्वम्)
02.045
Core-Pancharatra: Duyodhana, Shakuni and Dritarastra plan for a game of dice and send Vidura to fetch Yudhisthira.
वैशम्पायन उवाच॥
अनुभूय तु राज्ञस्तं राजसूयं महाक्रतुम्। युधिष्ठिरस्य नृपतेर्गान्धारीपुत्रसंयुतः ॥२-४५-१॥
प्रियकृन्मतमाज्ञाय पूर्वं दुर्योधनस्य तत्। प्रज्ञाचक्षुषमासीनं शकुनिः सौबलस्तदा ॥२-४५-२॥
दुर्योधनवचः श्रुत्वा धृतराष्ट्रं जनाधिपम्। उपगम्य महाप्राज्ञं शकुनिर्वाक्यमब्रवीत् ॥२-४५-३॥
दुर्योधनो महाराज विवर्णो हरिणः कृशः। दीनश्चिन्तापरश्चैव तद्विद्धि भरतर्षभ ॥२-४५-४॥
न वै परीक्षसे सम्यगसह्यं शत्रुसम्भवम्। ज्येष्ठपुत्रस्य शोकं त्वं किमर्थं नावबुध्यसे ॥२-४५-५॥
धृतराष्ट्र उवाच॥
दुर्योधन कुतोमूलं भृशमार्तोऽसि पुत्रक। श्रोतव्यश्चेन्मया सोऽर्थो ब्रूहि मे कुरुनन्दन ॥२-४५-६॥
अयं त्वां शकुनिः प्राह विवर्णं हरिणं कृशम्। चिन्तयंश्च न पश्यामि शोकस्य तव सम्भवम् ॥२-४५-७॥
ऐश्वर्यं हि महत्पुत्र त्वयि सर्वं समर्पितम्। भ्रातरः सुहृदश्चैव नाचरन्ति तवाप्रियम् ॥२-४५-८॥
आच्छादयसि प्रावारानश्नासि पिशितौदनम्। आजानेया वहन्ति त्वां केनासि हरिणः कृशः ॥२-४५-९॥
शयनानि महार्हाणि योषितश्च मनोरमाः। गुणवन्ति च वेश्मानि विहाराश्च यथासुखम् ॥२-४५-१०॥
देवानामिव ते सर्वं वाचि बद्धं न संशयः। स दीन इव दुर्धर्षः कस्माच्छोचसि पुत्रक ॥२-४५-११॥
दुर्योधन उवाच॥
अश्नाम्याच्छादये चाहं यथा कुपुरुषस्तथा। अमर्षं धारये चोग्रं तितिक्षन्कालपर्ययम् ॥२-४५-१२॥
अमर्षणः स्वाः प्रकृतीरभिभूय परे स्थिताः। क्लेशान्मुमुक्षुः परजान्स वै पुरुष उच्यते ॥२-४५-१३॥
सन्तोषो वै श्रियं हन्ति अभिमानश्च भारत। अनुक्रोशभये चोभे यैर्वृतो नाश्नुते महत् ॥२-४५-१४॥
न मामवति तद्भुक्तं श्रियं दृष्ट्वा युधिष्ठिरे। ज्वलन्तीमिव कौन्तेये विवर्णकरणीं मम ॥२-४५-१५॥
सपत्नानृध्यतोऽऽत्मानं हीयमानं निशाम्य च। अदृश्यामपि कौन्तेये स्थितां पश्यन्निवोद्यताम् ॥ तस्मादहं विवर्णश्च दीनश्च हरिणः कृशः ॥२-४५-१६॥
अष्टाशीतिसहस्राणि स्नातका गृहमेधिनः। त्रिंशद्दासीक एकैको यान्बिभर्ति युधिष्ठिरः ॥२-४५-१७॥
दशान्यानि सहस्राणि नित्यं तत्रान्नमुत्तमम्। भुञ्जते रुक्मपात्रीभिर्युधिष्ठिरनिवेशने ॥२-४५-१८॥
कदलीमृगमोकानि कृष्णश्यामारुणानि च। काम्बोजः प्राहिणोत्तस्मै परार्ध्यानपि कम्बलान् ॥२-४५-१९॥
रथयोषिद्गवाश्वस्य शतशोऽथ सहस्रशः। त्रिंशतं चोष्ट्रवामीनां शतानि विचरन्त्युत ॥२-४५-२०॥
पृथग्विधानि रत्नानि पार्थिवाः पृथिवीपते। आहरन्क्रतुमुख्येऽस्मिन्कुन्तीपुत्राय भूरिशः ॥२-४५-२१॥
न क्वचिद्धि मया दृष्टस्तादृशो नैव च श्रुतः। यादृग्धनागमो यज्ञे पाण्डुपुत्रस्य धीमतः ॥२-४५-२२॥
अपर्यन्तं धनौघं तं दृष्ट्वा शत्रोरहं नृप। शर्म नैवाधिगच्छामि चिन्तयानोऽनिशं विभो ॥२-४५-२३॥
ब्राह्मणा वाटधानाश्च गोमन्तः शतसङ्घशः। त्रैखर्वं बलिमादाय द्वारि तिष्ठन्ति वारिताः ॥२-४५-२४॥
कमण्डलूनुपादाय जातरूपमयाञ्शुभान्। एवं बलिं समादाय प्रवेशं लेभिरे ततः ॥२-४५-२५॥
यन्नैव मधु शक्राय धारयन्त्यमरस्त्रियः। तदस्मै कांस्यमाहार्षीद्वारुणं कलशोदधिः ॥२-४५-२६॥
शैक्यं रुक्मसहस्रस्य बहुरत्नविभूषितम्। दृष्ट्वा च मम तत्सर्वं ज्वररूपमिवाभवत् ॥२-४५-२७॥
गृहीत्वा तत्तु गच्छन्ति समुद्रौ पूर्वदक्षिणौ। तथैव पश्चिमं यान्ति गृहीत्वा भरतर्षभ ॥२-४५-२८॥
उत्तरं तु न गच्छन्ति विना तात पतत्रिभिः। इदं चाद्भुतमत्रासीत्तन्मे निगदतः शृणु ॥२-४५-२९॥
पूर्णे शतसहस्रे तु विप्राणां परिविष्यताम्। स्थापिता तत्र सञ्ज्ञाभूच्छङ्खो ध्मायति नित्यशः ॥२-४५-३०॥
महुर्मुहुः प्रणदतस्तस्य शङ्खस्य भारत। उत्तमं शब्दमश्रौषं ततो रोमाणि मेऽहृषन् ॥२-४५-३१॥
पार्थिवैर्बहुभिः कीर्णमुपस्थानं दिदृक्षुभिः। सर्वरत्नान्युपादाय पार्थिवा वै जनेश्वर ॥२-४५-३२॥
यज्ञे तस्य महाराज पाण्डुपुत्रस्य धीमतः। वैश्या इव महीपाला द्विजातिपरिवेषकाः ॥२-४५-३३॥
न सा श्रीर्देवराजस्य यमस्य वरुणस्य वा। गुह्यकाधिपतेर्वापि या श्री राजन्युधिष्ठिरे ॥२-४५-३४॥
तां दृष्ट्वा पाण्डुपुत्रस्य श्रियं परमिकामहम्। शान्तिं न परिगच्छामि दह्यमानेन चेतसा ॥२-४५-३५॥
शकुनिरुवाच॥
यामेतामुत्तमां लक्ष्मीं दृष्टवानसि पाण्डवे। तस्याः प्राप्तावुपायं मे शृणु सत्यपराक्रम ॥२-४५-३६॥
अहमक्षेष्वभिज्ञातः पृथिव्यामपि भारत। हृदयज्ञः पणज्ञश्च विशेषज्ञश्च देवने ॥२-४५-३७॥
द्यूतप्रियश्च कौन्तेयो न च जानाति देवितुम्। आहूतश्चैष्यति व्यक्तं दीव्यावेत्याह्वयस्व तम् ॥२-४५-३८॥
वैशम्पायन उवाच॥
एवमुक्तः शकुनिना राजा दुर्योधनस्तदा। धृतराष्ट्रमिदं वाक्यमपदान्तरमब्रवीत् ॥२-४५-३९॥
अयमुत्सहते राजञ्श्रियमाहर्तुमक्षवित्। द्यूतेन पाण्डुपुत्रस्य तदनुज्ञातुमर्हसि ॥२-४५-४०॥
धृतराष्ट्र उवाच॥
क्षत्ता मन्त्री महाप्राज्ञः स्थितो यस्यास्मि शासने। तेन सङ्गम्य वेत्स्यामि कार्यस्यास्य विनिश्चयम् ॥२-४५-४१॥
स हि धर्मं पुरस्कृत्य दीर्घदर्शी परं हितम्। उभयोः पक्षयोर्युक्तं वक्ष्यत्यर्थविनिश्चयम् ॥२-४५-४२॥
दुर्योधन उवाच॥
निवर्तयिष्यति त्वासौ यदि क्षत्ता समेष्यति। निवृत्ते त्वयि राजेन्द्र मरिष्येऽहमसंशयम् ॥२-४५-४३॥
स मयि त्वं मृते राजन्विदुरेण सुखी भव। भोक्ष्यसे पृथिवीं कृत्स्नां किं मया त्वं करिष्यसि ॥२-४५-४४॥
वैशम्पायन उवाच॥
आर्तवाक्यं तु तत्तस्य प्रणयोक्तं निशम्य सः। धृतराष्ट्रोऽब्रवीत्प्रेष्यान्दुर्योधनमते स्थितः ॥२-४५-४५॥
स्थूणासहस्रैर्बृहतीं शतद्वारां सभां मम। मनोरमां दर्शनीयामाशु कुर्वन्तु शिल्पिनः ॥२-४५-४६॥
ततः संस्तीर्य रत्नैस्तामक्षानावाप्य सर्वशः। सुकृतां सुप्रवेशां च निवेदयत मे शनैः ॥२-४५-४७॥
दुर्योधनस्य शान्त्यर्थमिति निश्चित्य भूमिपः। धृतराष्ट्रो महाराज प्राहिणोद्विदुराय वै ॥२-४५-४८॥
अपृष्ट्वा विदुरं ह्यस्य नासीत्कश्चिद्विनिश्चयः। द्यूतदोषांश्च जानन्स पुत्रस्नेहादकृष्यत ॥२-४५-४९॥
तच्छ्रुत्वा विदुरो धीमान्कलिद्वारमुपस्थितम्। विनाशमुखमुत्पन्नं धृतराष्ट्रमुपाद्रवत् ॥२-४५-५०॥
सोऽभिगम्य महात्मानं भ्राता भ्रातरमग्रजम्। मूर्ध्ना प्रणम्य चरणाविदं वचनमब्रवीत् ॥२-४५-५१॥
नाभिनन्दामि ते राजन्व्यवसायमिमं प्रभो। पुत्रैर्भेदो यथा न स्याद्द्यूतहेतोस्तथा कुरु ॥२-४५-५२॥
धृतराष्ट्र उवाच॥
क्षत्तः पुत्रेषु पुत्रैर्मे कलहो न भविष्यति। दिवि देवाः प्रसादं नः करिष्यन्ति न संशयः ॥२-४५-५३॥
अशुभं वा शुभं वापि हितं वा यदि वाहितम्। प्रवर्ततां सुहृद्द्यूतं दिष्टमेतन्न संशयः ॥२-४५-५४॥
मयि संनिहिते चैव भीष्मे च भरतर्षभे। अनयो दैवविहितो न कथञ्चिद्भविष्यति ॥२-४५-५५॥
गच्छ त्वं रथमास्थाय हयैर्वातसमैर्जवे। खाण्डवप्रस्थमद्यैव समानय युधिष्ठिरम् ॥२-४५-५६॥
न वार्यो व्यवसायो मे विदुरैतद्ब्रवीमि ते। दैवमेव परं मन्ये येनैतदुपपद्यते ॥२-४५-५७॥
इत्युक्तो विदुरो धीमान्नैतदस्तीति चिन्तयन्। आपगेयं महाप्राज्ञमभ्यगच्छत्सुदुःखितः ॥२-४५-५८॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.