Mahabharata - Sabha Parva (महाभारत - सभापर्वम्)
02.044
Core-Pancharatra: Shakuni suggests inviting Yudhisthira for a game of dice
शकुनिरुवाच॥
दुर्योधन न तेऽमर्षः कार्यः प्रति युधिष्ठिरम्। भागधेयानि हि स्वानि पाण्डवा भुञ्जते सदा ॥२-४४-१॥
अनेकैरभ्युपायैश्च त्वयारब्धाः पुरासकृत्। विमुक्ताश्च नरव्याघ्रा भागधेयपुरस्कृताः ॥२-४४-२॥
तैर्लब्धा द्रौपदी भार्या द्रुपदश्च सुतैः सह। सहायः पृथिवीलाभे वासुदेवश्च वीर्यवान् ॥२-४४-३॥
लब्धश्च नाभिभूतोऽर्थः पित्र्योंऽशः पृथिवीपते। विवृद्धस्तेजसा तेषां तत्र का परिदेवना ॥२-४४-४॥
धनञ्जयेन गाण्डीवमक्षय्यौ च महेषुधी। लब्धान्यस्त्राणि दिव्यानि तर्पयित्वा हुताशनम् ॥२-४४-५॥
तेन कार्मुकमुख्येन बाहुवीर्येण चात्मनः। कृता वशे महीपालास्तत्र का परिदेवना ॥२-४४-६॥
अग्निदाहान्मयं चापि मोक्षयित्वा स दानवम्। सभां तां कारयामास सव्यसाची परन्तपः ॥२-४४-७॥
तेन चैव मयेनोक्ताः किङ्करा नाम राक्षसाः। वहन्ति तां सभां भीमास्तत्र का परिदेवना ॥२-४४-८॥
यच्चासहायतां राजन्नुक्तवानसि भारत। तन्मिथ्या भ्रातरो हीमे सहायास्ते महारथाः ॥२-४४-९॥
द्रोणस्तव महेष्वासः सह पुत्रेण धीमता। सूतपुत्रश्च राधेयो गौतमश्च महारथः ॥२-४४-१०॥
अहं च सह सोदर्यैः सौमदत्तिश्च वीर्यवान्। एतैस्त्वं सहितः सर्वैर्जय कृत्स्नां वसुन्धराम् ॥२-४४-११॥
दुर्योधन उवाच॥
त्वया च सहितो राजन्नेतैश्चान्यैर्महारथैः। एतानेव विजेष्यामि यदि त्वमनुमन्यसे ॥२-४४-१२॥
एतेषु विजितेष्वद्य भविष्यति मही मम। सर्वे च पृथिवीपालाः सभा सा च महाधना ॥२-४४-१३॥
शकुनिरुवाच॥
धनञ्जयो वासुदेवो भीमसेनो युधिष्ठिरः। नकुलः सहदेवश्च द्रुपदश्च सहात्मजैः ॥२-४४-१४॥
नैते युधि बलाज्जेतुं शक्याः सुरगणैरपि। महारथा महेष्वासाः कृतास्त्रा युद्धदुर्मदाः ॥२-४४-१५॥
अहं तु तद्विजानामि विजेतुं येन शक्यते। युधिष्ठिरं स्वयं राजंस्तन्निबोध जुषस्व च ॥२-४४-१६॥
दुर्योधन उवाच॥
अप्रमादेन सुहृदामन्येषां च महात्मनाम्। यदि शक्या विजेतुं ते तन्ममाचक्ष्व मातुल ॥२-४४-१७॥
शकुनिरुवाच॥
द्यूतप्रियश्च कौन्तेयो न च जानाति देवितुम्। समाहूतश्च राजेन्द्रो न शक्ष्यति निवर्तितुम् ॥२-४४-१८॥
देवने कुशलश्चाहं न मेऽस्ति सदृशो भुवि। त्रिषु लोकेषु कौन्तेयं तं त्वं द्यूते समाह्वय ॥२-४४-१९॥
तस्याक्षकुशलो राजन्नादास्येऽहमसंशयम्। राज्यं श्रियं च तां दीप्तां त्वदर्थं पुरुषर्षभ ॥२-४४-२०॥
इदं तु सर्वं त्वं राज्ञे दुर्योधन निवेदय। अनुज्ञातस्तु ते पित्रा विजेष्ये तं न संशयः ॥२-४४-२१॥
दुर्योधन उवाच॥
त्वमेव कुरुमुख्याय धृतराष्ट्राय सौबल। निवेदय यथान्यायं नाहं शक्ष्ये निशंसितुम् ॥२-४४-२२॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.