Mahabharata - Sabha Parva (महाभारत - सभापर्वम्)
02.046
Core-Pancharatra: Further lamentation by Duryodhana in front of his father.
जनमेजय उवाच॥
कथं समभवद्द्यूतं भ्रातॄणां तन्महात्ययम्। यत्र तद्व्यसनं प्राप्तं पाण्डवैर्मे पितामहैः ॥२-४६-१॥
के च तत्र सभास्तारा राजानो ब्रह्मवित्तम। के चैनमन्वमोदन्त के चैनं प्रत्यषेधयन् ॥२-४६-२॥
विस्तरेणैतदिच्छामि कथ्यमानं त्वया द्विज। मूलं ह्येतद्विनाशस्य पृथिव्या द्विजसत्तम ॥२-४६-३॥
सूत उवाच॥
एवमुक्तस्तदा राज्ञा व्यासशिष्यः प्रतापवान्। आचचक्षे यथावृत्तं तत्सर्वं सर्ववेदवित् ॥२-४६-४॥
वैशम्पायन उवाच॥
शृणु मे विस्तरेणेमां कथां भरतसत्तम। भूय एव महाराज यदि ते श्रवणे मतिः ॥२-४६-५॥
विदुरस्य मतं ज्ञात्वा धृतराष्ट्रोऽम्बिकासुतः। दुर्योधनमिदं वाक्यमुवाच विजने पुनः ॥२-४६-६॥
अलं द्यूतेन गान्धारे विदुरो न प्रशंसति। न ह्यसौ सुमहाबुद्धिरहितं नो वदिष्यति ॥२-४६-७॥
हितं हि परमं मन्ये विदुरो यत्प्रभाषते। क्रियतां पुत्र तत्सर्वमेतन्मन्ये हितं तव ॥२-४६-८॥
देवर्षिर्वासवगुरुर्देवराजाय धीमते। यत्प्राह शास्त्रं भगवान्बृहस्पतिरुदारधीः ॥२-४६-९॥
तद्वेद विदुरः सर्वं सरहस्यं महाकविः। स्थितश्च वचने तस्य सदाहमपि पुत्रक ॥२-४६-१०॥
विदुरो वापि मेधावी कुरूणां प्रवरो मतः। उद्धवो वा महाबुद्धिर्वृष्णीनामर्चितो नृप ॥२-४६-११॥
द्यूतेन तदलं पुत्र द्यूते भेदो हि दृश्यते। भेदे विनाशो राज्यस्य तत्पुत्र परिवर्जय ॥२-४६-१२॥
पित्रा मात्रा च पुत्रस्य यद्वै कार्यं परं स्मृतम्। प्राप्तस्त्वमसि तत्तात पितृपैतामहं पदम् ॥२-४६-१३॥
अधीतवान्कृती शास्त्रे लालितः सततं गृहे। भ्रातृज्येष्ठः स्थितो राज्ये विन्दसे किं न शोभनम् ॥२-४६-१४॥
पृथग्जनैरलभ्यं यद्भोजनाच्छादनं परम्। तत्प्राप्तोऽसि महाबाहो कस्माच्छोचसि पुत्रक ॥२-४६-१५॥
स्फीतं राष्ट्रं महाबाहो पितृपैतामहं महत्। नित्यमाज्ञापयन्भासि दिवि देवेश्वरो यथा ॥२-४६-१६॥
तस्य ते विदितप्रज्ञ शोकमूलमिदं कथम्। समुत्थितं दुःखतरं तन्मे शंसितुमर्हसि ॥२-४६-१७॥
दुर्योधन उवाच॥
अश्नाम्याच्छादयामीति प्रपश्यन्पापपूरुषः। नामर्षं कुरुते यस्तु पुरुषः सोऽधमः स्मृतः ॥२-४६-१८॥
न मां प्रीणाति राजेन्द्र लक्ष्मीः साधारणा विभो। ज्वलितामिव कौन्तेये श्रियं दृष्ट्वा च विव्यथे ॥२-४६-१९॥
सर्वां हि पृथिवीं दृष्ट्वा युधिष्ठिरवशानुगाम्। स्थिरोऽस्मि योऽहं जीवामि दुःखादेतद्ब्रवीमि ते ॥२-४६-२०॥
आवर्जिता इवाभान्ति निघ्नाश्चैत्रकिकौकुराः। कारस्करा लोहजङ्घा युधिष्ठिरनिवेशने ॥२-४६-२१॥
हिमवत्सागरानूपाः सर्वरत्नाकरास्तथा। अन्त्याः सर्वे पर्युदस्ता युधिष्ठिरनिवेशने ॥२-४६-२२॥
ज्येष्ठोऽयमिति मां मत्वा श्रेष्ठश्चेति विशां पते। युधिष्ठिरेण सत्कृत्य युक्तो रत्नपरिग्रहे ॥२-४६-२३॥
उपस्थितानां रत्नानां श्रेष्ठानामर्घहारिणाम्। नादृश्यत परः प्रान्तो नापरस्तत्र भारत ॥२-४६-२४॥
न मे हस्तः समभवद्वसु तत्प्रतिगृह्णतः। प्रातिष्ठन्त मयि श्रान्ते गृह्य दूराहृतं वसु ॥२-४६-२५॥
कृतां बिन्दुसरोरत्नैर्मयेन स्फाटिकच्छदाम्। अपश्यं नलिनीं पूर्णामुदकस्येव भारत ॥२-४६-२६॥
वस्त्रमुत्कर्षति मयि प्राहसत्स वृकोदरः। शत्रोरृद्धिविशेषेण विमूढं रत्नवर्जितम् ॥२-४६-२७॥
तत्र स्म यदि शक्तः स्यां पातयेयं वृकोदरम्। सपत्नेनावहासो हि स मां दहति भारत ॥२-४६-२८॥
पुनश्च तादृशीमेव वापीं जलजशालिनीम्। मत्वा शिलासमां तोये पतितोऽस्मि नराधिप ॥२-४६-२९॥
तत्र मां प्राहसत्कृष्णः पार्थेन सह सस्वनम्। द्रौपदी च सह स्त्रीभिर्व्यथयन्ती मनो मम ॥२-४६-३०॥
क्लिन्नवस्त्रस्य च जले किङ्करा राजचोदिताः। ददुर्वासांसि मेऽन्यानि तच्च दुःखतरं मम ॥२-४६-३१॥
प्रलम्भं च शृणुष्वान्यं गदतो मे नराधिप। अद्वारेण विनिर्गच्छन्द्वारसंस्थानरूपिणा ॥ अभिहत्य शिलां भूयो ललाटेनास्मि विक्षतः ॥२-४६-३२॥
तत्र मां यमजौ दूरादालोक्य ललितौ किल। बाहुभिः परिगृह्णीतां शोचन्तौ सहितावुभौ ॥२-४६-३३॥
उवाच सहदेवस्तु तत्र मां विस्मयन्निव। इदं द्वारमितो गच्छ राजन्निति पुनः पुनः ॥२-४६-३४॥
नामधेयानि रत्नानां पुरस्तान्न श्रुतानि मे। यानि दृष्टानि मे तस्यां मनस्तपति तच्च मे ॥२-४६-३५॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.