Mahabharata - Sabha Parva (महाभारत - सभापर्वम्)
02.051
Pancharatra: Conversation between Shakuni, Dritarastra and Vidura repeats.
शकुनिरुवाच॥
यां त्वमेतां श्रियं दृष्ट्वा पाण्डुपुत्रे युधिष्ठिरे। तप्यसे तां हरिष्यामि द्यूतेनाहूयतां परः ॥२-५१-१॥
अगत्वा संशयमहमयुद्ध्वा च चमूमुखे। अक्षान्क्षिपन्नक्षतः सन्विद्वानविदुषो जये ॥२-५१-२॥
ग्लहान्धनूंषि मे विद्धि शरानक्षांश्च भारत। अक्षाणां हृदयं मे ज्यां रथं विद्धि ममास्तरम् ॥२-५१-३॥
दुर्योधन उवाच॥
अयमुत्सहते राजञ्श्रियमाहर्तुमक्षवित्। द्यूतेन पाण्डुपुत्रेभ्यस्तत्तुभ्यं तात रोचताम् ॥२-५१-४॥
धृतराष्ट्र उवाच॥
स्थितोऽस्मि शासने भ्रातुर्विदुरस्य महात्मनः। तेन सङ्गम्य वेत्स्यामि कार्यस्यास्य विनिश्चयम् ॥२-५१-५॥
दुर्योधन उवाच॥
विहनिष्यति ते बुद्धिं विदुरो मुक्तसंशयः। पाण्डवानां हिते युक्तो न तथा मम कौरव ॥२-५१-६॥
नारभेत्परसामर्थ्यात्पुरुषः कार्यमात्मनः। मतिसाम्यं द्वयोर्नास्ति कार्येषु कुरुनन्दन ॥२-५१-७॥
भयं परिहरन्मन्द आत्मानं परिपालयन्। वर्षासु क्लिन्नकटवत्तिष्ठन्नेवावसीदति ॥२-५१-८॥
न व्याधयो नापि यमः श्रेयःप्राप्तिं प्रतीक्षते। यावदेव भवेत्कल्पस्तावच्छ्रेयः समाचरेत् ॥२-५१-९॥
धृतराष्ट्र उवाच॥
सर्वथा पुत्र बलिभिर्विग्रहं ते न रोचये। वैरं विकारं सृजति तद्वै शस्त्रमनायसम् ॥२-५१-१०॥
अनर्थमर्थं मन्यसे राजपुत्र; सङ्ग्रन्थनं कलहस्यातिघोरम्। तद्वै प्रवृत्तं तु यथा कथं चि; द्विमोक्षयेच्चाप्यसिसायकांश्च ॥२-५१-११॥
दुर्योधन उवाच॥
द्यूते पुराणैर्व्यवहारः प्रणीत; स्तत्रात्ययो नास्ति न सम्प्रहारः। तद्रोचतां शकुनेर्वाक्यमद्य; सभां क्षिप्रं त्वमिहाज्ञापयस्व ॥२-५१-१२॥
स्वर्गद्वारं दीव्यतां नो विशिष्टं; तद्वर्तिनां चापि तथैव युक्तम्। भवेदेवं ह्यात्मना तुल्यमेव; दुरोदरं पाण्डवैस्त्वं कुरुष्व ॥२-५१-१३॥
धृतराष्ट्र उवाच॥
वाक्यं न मे रोचते यत्त्वयोक्तं; यत्ते प्रियं तत्क्रियतां नरेन्द्र। पश्चात्तप्स्यसे तदुपाक्रम्य वाक्यं; न हीदृशं भावि वचो हि धर्म्यम् ॥२-५१-१४॥
दृष्टं ह्येतद्विदुरेणैवमेव; सर्वं पूर्वं बुद्धिविद्यानुगेन। तदेवैतदवशस्याभ्युपैति; महद्भयं क्षत्रियबीजघाति ॥२-५१-१५॥
वैशम्पायन उवाच॥
एवमुक्त्वा धृतराष्ट्रो मनीषी; दैवं मत्वा परमं दुस्तरं च। शशासोच्चैः पुरुषान्पुत्रवाक्ये; स्थितो राजा दैवसंमूढचेताः ॥२-५१-१६॥
सहस्रस्तम्भां हेमवैडूर्यचित्रां; शतद्वारां तोरणस्फाटिशृङ्गाम्। सभामग्र्यां क्रोशमात्रायतां मे; तद्विस्तारामाशु कुर्वन्तु युक्ताः ॥२-५१-१७॥
श्रुत्वा तस्य त्वरिता निर्विशङ्काः; प्राज्ञा दक्षास्तां तथा चक्रुराशु। सर्वद्रव्याण्युपजह्रुः सभायां; सहस्रशः शिल्पिनश्चापि युक्ताः ॥२-५१-१८॥
कालेनाल्पेनाथ निष्ठां गतां तां; सभां रम्यां बहुरत्नां विचित्राम्। चित्रैर्हैमैरासनैरभ्युपेता; माचख्युस्ते तस्य राज्ञः प्रतीताः ॥२-५१-१९॥
ततो विद्वान्विदुरं मन्त्रिमुख्य; मुवाचेदं धृतराष्ट्रो नरेन्द्रः। युधिष्ठिरं राजपुत्रं हि गत्वा; मद्वाक्येन क्षिप्रमिहानयस्व ॥२-५१-२०॥
सभेयं मे बहुरत्ना विचित्रा; शय्यासनैरुपपन्ना महार्हैः। सा दृश्यतां भ्रातृभिः सार्धमेत्य; सुहृद्द्यूतं वर्ततामत्र चेति ॥२-५१-२१॥
मतमाज्ञाय पुत्रस्य धृतराष्ट्रो नराधिपः। मत्वा च दुस्तरं दैवमेतद्राजा चकार ह ॥२-५१-२२॥
अन्यायेन तथोक्तस्तु विदुरो विदुषां वरः। नाभ्यनन्दद्वचो भ्रातुर्वचनं चेदमब्रवीत् ॥२-५१-२३॥
नाभिनन्दामि नृपते प्रैषमेतं; मैवं कृथाः कुलनाशाद्बिभेमि। पुत्रैर्भिन्नैः कलहस्ते ध्रुवं स्या; देतच्छङ्के द्यूतकृते नरेन्द्र ॥२-५१-२४॥
धृतराष्ट्र उवाच॥
नेह क्षत्तः कलहस्तप्स्यते मां; न चेद्दैवं प्रतिलोमं भविष्यत्। धात्रा तु दिष्टस्य वशे किलेदं; सर्वं जगच्चेष्टति न स्वतन्त्रम् ॥२-५१-२५॥
तदद्य विदुर प्राप्य राजानं मम शासनात्। क्षिप्रमानय दुर्धर्षं कुन्तीपुत्रं युधिष्ठिरम् ॥२-५१-२६॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.