02.052
Core-Pancharatra: Yudhisthira along with his brothers and Draupadi come to Hastinapura to participate in the game of dice.
वैशम्पायन उवाच॥
ततः प्रायाद्विदुरोऽश्वैरुदारै; र्महाजवैर्बलिभिः साधुदान्तैः। बलान्नियुक्तो धृतराष्ट्रेण राज्ञा; मनीषिणां पाण्डवानां सकाशम् ॥२-५२-१॥
सोऽभिपत्य तदध्वानमासाद्य नृपतेः पुरम्। प्रविवेश महाबुद्धिः पूज्यमानो द्विजातिभिः ॥२-५२-२॥
स राजगृहमासाद्य कुबेरभवनोपमम्। अभ्यगच्छत धर्मात्मा धर्मपुत्रं युधिष्ठिरम् ॥२-५२-३॥
तं वै राजा सत्यधृतिर्महात्मा; अजातशत्रुर्विदुरं यथावत्। पूजापूर्वं प्रतिगृह्याजमीढ; स्ततोऽपृच्छद्धृतराष्ट्रं सपुत्रम् ॥२-५२-४॥
युधिष्ठिर उवाच॥
विज्ञायते ते मनसो न प्रहर्षः; कच्चित्क्षत्तः कुशलेनागतोऽसि। कच्चित्पुत्राः स्थविरस्यानुलोमा; वशानुगाश्चापि विशोऽपि कच्चित् ॥२-५२-५॥
विदुर उवाच॥
राजा महात्मा कुशली सपुत्र; आस्ते वृतो ज्ञातिभिरिन्द्रकल्पैः। प्रीतो राजन्पुत्रगणैर्विनीतै; र्विशोक एवात्मरतिर्दृढात्मा ॥२-५२-६॥
इदं तु त्वां कुरुराजोऽभ्युवाच; पूर्वं पृष्ट्वा कुशलं चाव्ययं च। इयं सभा त्वत्सभातुल्यरूपा; भ्रातॄणां ते पश्य तामेत्य पुत्र ॥२-५२-७॥
समागम्य भ्रातृभिः पार्थ तस्यां; सुहृद्द्यूतं क्रियतां रम्यतां च। प्रीयामहे भवतः सङ्गमेन; समागताः कुरवश्चैव सर्वे ॥२-५२-८॥
दुरोदरा विहिता ये तु तत्र; महात्मना धृतराष्ट्रेण राज्ञा। तान्द्रक्ष्यसे कितवान्संनिविष्टा; नित्यागतोऽहं नृपते तज्जुषस्व ॥२-५२-९॥
युधिष्ठिर उवाच॥
द्यूते क्षत्तः कलहो विद्यते नः; को वै द्यूतं रोचयेद्बुध्यमानः। किं वा भवान्मन्यते युक्तरूपं; भवद्वाक्ये सर्व एव स्थिताः स्म ॥२-५२-१०॥
विदुर उवाच॥
जानाम्यहं द्यूतमनर्थमूलं; कृतश्च यत्नोऽस्य मया निवारणे। राजा तु मां प्राहिणोत्त्वत्सकाशं; श्रुत्वा विद्वञ्श्रेय इहाचरस्व ॥२-५२-११॥
युधिष्ठिर उवाच॥
के तत्रान्ये कितवा दीव्यमाना; विना राज्ञो धृतराष्ट्रस्य पुत्रैः। पृच्छामि त्वां विदुर ब्रूहि नस्ता; न्यैर्दीव्यामः शतशः संनिपत्य ॥२-५२-१२॥
विदुर उवाच॥
गान्धारराजः शकुनिर्विशां पते; राजातिदेवी कृतहस्तो मताक्षः। विविंशतिश्चित्रसेनश्च राजा; सत्यव्रतः पुरुमित्रो जयश्च ॥२-५२-१३॥
युधिष्ठिर उवाच॥
महाभयाः कितवाः संनिविष्टा; मायोपधा देवितारोऽत्र सन्ति। धात्रा तु दिष्टस्य वशे किलेदं; नादेवनं कितवैरद्य तैर्मे ॥२-५२-१४॥
नाहं राज्ञो धृतराष्ट्रस्य शासना; न्न गन्तुमिच्छामि कवे दुरोदरम्। इष्टो हि पुत्रस्य पिता सदैव; तदस्मि कर्ता विदुरात्थ मां यथा ॥२-५२-१५॥
न चाकामः शकुनिना देविताहं; न चेन्मां धृष्णुराह्वयिता सभायाम्। आहूतोऽहं न निवर्ते कदा चि; त्तदाहितं शाश्वतं वै व्रतं मे ॥२-५२-१६॥
वैशम्पायन उवाच॥
एवमुक्त्वा विदुरं धर्मराजः; प्रायात्रिकं सर्वमाज्ञाप्य तूर्णम्। प्रायाच्छ्वोभूते सगणः सानुयात्रः; सह स्त्रीभिर्द्रौपदीमादिकृत्वा ॥२-५२-१७॥
दैवं प्रज्ञां तु मुष्णाति तेजश्चक्षुरिवापतत्। धातुश्च वशमन्वेति पाशैरिव नरः सितः ॥२-५२-१८॥
इत्युक्त्वा प्रययौ राजा सह क्षत्त्रा युधिष्ठिरः। अमृष्यमाणस्तत्पार्थः समाह्वानमरिंदमः ॥२-५२-१९॥
बाह्लिकेन रथं दत्तमास्थाय परवीरहा। परिच्छन्नो ययौ पार्थो भ्रातृभिः सह पाण्डवः ॥२-५२-२०॥
राजश्रिया दीप्यमानो ययौ ब्रह्मपुरःसरः। धृतराष्ट्रेण चाहूतः कालस्य समयेन च ॥२-५२-२१॥
स हास्तिनपुरं गत्वा धृतराष्ट्रगृहं ययौ। समियाय च धर्मात्मा धृतराष्ट्रेण पाण्डवः ॥२-५२-२२॥
तथा द्रोणेन भीष्मेण कर्णेन च कृपेण च। समियाय यथान्यायं द्रौणिना च विभुः सह ॥२-५२-२३॥
समेत्य च महाबाहुः सोमदत्तेन चैव ह। दुर्योधनेन शल्येन सौबलेन च वीर्यवान् ॥२-५२-२४॥
ये चान्ये तत्र राजानः पूर्वमेव समागताः। जयद्रथेन च तथा कुरुभिश्चापि सर्वशः ॥२-५२-२५॥
ततः सर्वैर्महाबाहुर्भ्रातृभिः परिवारितः। प्रविवेश गृहं राज्ञो धृतराष्ट्रस्य धीमतः ॥२-५२-२६॥
ददर्श तत्र गान्धारीं देवीं पतिमनुव्रताम्। स्नुषाभिः संवृतां शश्वत्ताराभिरिव रोहिणीम् ॥२-५२-२७॥
अभिवाद्य स गान्धारीं तया च प्रतिनन्दितः। ददर्श पितरं वृद्धं प्रज्ञाचक्षुषमीश्वरम् ॥२-५२-२८॥
राज्ञा मूर्धन्युपाघ्रातास्ते च कौरवनन्दनाः। चत्वारः पाण्डवा राजन्भीमसेनपुरोगमाः ॥२-५२-२९॥
ततो हर्षः समभवत्कौरवाणां विशां पते। तान्दृष्ट्वा पुरुषव्याघ्रान्पाण्डवान्प्रियदर्शनान् ॥२-५२-३०॥
विविशुस्तेऽभ्यनुज्ञाता रत्नवन्ति गृहाण्यथ। ददृशुश्चोपयातास्तान्द्रौपदीप्रमुखाः स्त्रियः ॥२-५२-३१॥
याज्ञसेन्याः परामृद्धिं दृष्ट्वा प्रज्वलितामिव। स्नुषास्ता धृतराष्ट्रस्य नातिप्रमनसोऽभवन् ॥२-५२-३२॥
ततस्ते पुरुषव्याघ्रा गत्वा स्त्रीभिस्तु संविदम्। कृत्वा व्यायामपूर्वाणि कृत्यानि प्रतिकर्म च ॥२-५२-३३॥
ततः कृताह्निकाः सर्वे दिव्यचन्दनरूषिताः। कल्याणमनसश्चैव ब्राह्मणान्स्वस्ति वाच्य च ॥२-५२-३४॥
मनोज्ञमशनं भुक्त्वा विविशुः शरणान्यथ। उपगीयमाना नारीभिरस्वपन्कुरुनन्दनाः ॥२-५२-३५॥
जगाम तेषां सा रात्रिः पुण्या रतिविहारिणाम्। स्तूयमानाश्च विश्रान्ताः काले निद्रामथात्यजन् ॥२-५२-३६॥
सुखोषितास्तां रजनीं प्रातः सर्वे कृताह्निकाः। सभां रम्यां प्रविविशुः कितवैरभिसंवृताम् ॥२-५२-३७॥