02.050
Pancharatra: Inspite of Dritarastra’s advice Duryodhana is adamant.
धृतराष्ट्र उवाच॥
त्वं वै ज्येष्ठो ज्यैष्ठिनेयः पुत्र मा पाण्डवान्द्विषः। द्वेष्टा ह्यसुखमादत्ते यथैव निधनं तथा ॥२-५०-१॥
अव्युत्पन्नं समानार्थं तुल्यमित्रं युधिष्ठिरम्। अद्विषन्तं कथं द्विष्यात्त्वादृशो भरतर्षभ ॥२-५०-२॥
तुल्याभिजनवीर्यश्च कथं भ्रातुः श्रियं नृप। पुत्र कामयसे मोहान्मैवं भूः शाम्य साध्विह ॥२-५०-३॥
अथ यज्ञविभूतिं तां काङ्क्षसे भरतर्षभ। ऋत्विजस्तव तन्वन्तु सप्ततन्तुं महाध्वरम् ॥२-५०-४॥
आहरिष्यन्ति राजानस्तवापि विपुलं धनम्। प्रीत्या च बहुमानाच्च रत्नान्याभरणानि च ॥२-५०-५॥
अनर्थाचरितं तात परस्वस्पृहणं भृशम्। स्वसन्तुष्टः स्वधर्मस्थो यः स वै सुखमेधते ॥२-५०-६॥
अव्यापारः परार्थेषु नित्योद्योगः स्वकर्मसु। उद्यमो रक्षणे स्वेषामेतद्वैभवलक्षणम् ॥२-५०-७॥
विपत्तिष्वव्यथो दक्षो नित्यमुत्थानवान्नरः। अप्रमत्तो विनीतात्मा नित्यं भद्राणि पश्यति ॥२-५०-८॥
अन्तर्वेद्यां ददद्वित्तं कामाननुभवन्प्रियान्। क्रीडन्स्त्रीभिर्निरातङ्कः प्रशाम्य भरतर्षभ ॥२-५०-९॥
दुर्योधन उवाच॥
जानन्वै मोहयसि मां नावि नौरिव संयता। स्वार्थे किं नावधानं ते उताहो द्वेष्टि मां भवान् ॥२-५०-१०॥
न सन्तीमे धार्तराष्ट्रा येषां त्वमनुशासिता। भविष्यमर्थमाख्यासि सदा त्वं कृत्यमात्मनः ॥२-५०-११॥
परप्रणेयोऽग्रणीर्हि यश्च मार्गात्प्रमुह्यति। पन्थानमनुगच्छेयुः कथं तस्य पदानुगाः ॥२-५०-१२॥
राजन्परिगतप्रज्ञो वृद्धसेवी जितेन्द्रियः। प्रतिपन्नान्स्वकार्येषु संमोहयसि नो भृशम् ॥२-५०-१३॥
लोकवृत्ताद्राजवृत्तमन्यदाह बृहस्पतिः। तस्माद्राज्ञा प्रयत्नेन स्वार्थश्चिन्त्यः सदैव हि ॥२-५०-१४॥
क्षत्रियस्य महाराज जये वृत्तिः समाहिता। स वै धर्मोऽस्त्वधर्मो वा स्ववृत्तौ भरतर्षभ ॥२-५०-१५॥
प्रकालयेद्दिशः सर्वाः प्रतोदेनेव सारथिः। प्रत्यमित्रश्रियं दीप्तां बुभूषुर्भरतर्षभ ॥२-५०-१६॥
प्रच्छन्नो वा प्रकाशो वा यो योगो रिपुबान्धनः। तद्वै शस्त्रं शस्त्रविदां न शस्त्रं छेदनं स्मृतम् ॥२-५०-१७॥
असन्तोषः श्रियो मूलं तस्मात्तं कामयाम्यहम्। समुच्छ्रये यो यतते स राजन्परमो नयी ॥२-५०-१८॥
ममत्वं हि न कर्तव्यमैश्वर्ये वा धनेऽपि वा। पूर्वावाप्तं हरन्त्यन्ये राजधर्मं हि तं विदुः ॥२-५०-१९॥
अद्रोहे समयं कृत्वा चिच्छेद नमुचेः शिरः। शक्रः सा हि मता तस्य रिपौ वृत्तिः सनातनी ॥२-५०-२०॥
द्वावेतौ ग्रसते भूमिः सर्पो बिलशयानिव। राजानं चाविरोद्धारं ब्राह्मणं चाप्रवासिनम् ॥२-५०-२१॥
नास्ति वै जातितः शत्रुः पुरुषस्य विशां पते। येन साधारणी वृत्तिः स शत्रुर्नेतरो जनः ॥२-५०-२२॥
शत्रुपक्षं समृध्यन्तं यो मोहात्समुपेक्षते। व्याधिराप्यायित इव तस्य मूलं छिनत्ति सः ॥२-५०-२३॥
अल्पोऽपि ह्यरिरत्यन्तं वर्धमानपराक्रमः। वल्मीको मूलज इव ग्रसते वृक्षमन्तिकात् ॥२-५०-२४॥
आजमीढ रिपोर्लक्ष्मीर्मा ते रोचिष्ट भारत। एष भारः सत्त्ववतां नयः शिरसि धिष्ठितः ॥२-५०-२५॥
जन्मवृद्धिमिवार्थानां यो वृद्धिमभिकाङ्क्षते। एधते ज्ञातिषु स वै सद्योवृद्धिर्हि विक्रमः ॥२-५०-२६॥
नाप्राप्य पाण्डवैश्वर्यं संशयो मे भविष्यति। अवाप्स्ये वा श्रियं तां हि शेष्ये वा निहतो युधि ॥२-५०-२७॥
अतादृशस्य किं मेऽद्य जीवितेन विशां पते। वर्धन्ते पाण्डवा नित्यं वयं तु स्थिरवृद्धयः ॥२-५०-२८॥