02.053
Core-Pancharatra: Game of dice starts and Yudhisthira loses his first stake.
शकुनिरुवाच॥
उपस्तीर्णा सभा राजन्रन्तुं चैते कृतक्षणाः। अक्षानुप्त्वा देवनस्य समयोऽस्तु युधिष्ठिर ॥२-५३-१॥
युधिष्ठिर उवाच॥
निकृतिर्देवनं पापं न क्षात्रोऽत्र पराक्रमः। न च नीतिर्ध्रुवा राजन्किं त्वं द्यूतं प्रशंससि ॥२-५३-२॥
न हि मानं प्रशंसन्ति निकृतौ कितवस्य ह। शकुने मैव नो जैषीरमार्गेण नृशंसवत् ॥२-५३-३॥
शकुनिरुवाच॥
योऽन्वेति सङ्ख्यां निकृतौ विधिज्ञ; श्चेष्टास्वखिन्नः कितवोऽक्षजासु। महामतिर्यश्च जानाति द्यूतं; स वै सर्वं सहते प्रक्रियासु ॥२-५३-४॥
अक्षग्लहः सोऽभिभवेत्परं न; स्तेनैव कालो भवतीदमात्थ। दीव्यामहे पार्थिव मा विशङ्कां; कुरुष्व पाणं च चिरं च मा कृथाः ॥२-५३-५॥
युधिष्ठिर उवाच॥
एवमाहायमसितो देवलो मुनिसत्तमः। इमानि लोकद्वाराणि यो वै सञ्चरते सदा ॥२-५३-६॥
इदं वै देवनं पापं मायया कितवैः सह। धर्मेण तु जयो युद्धे तत्परं साधु देवनम् ॥२-५३-७॥
नार्या म्लेच्छन्ति भाषाभिर्मायया न चरन्त्युत। अजिह्ममशठं युद्धमेतत्सत्पुरुषव्रतम् ॥२-५३-८॥
शक्तितो ब्राह्मणान्वन्द्याञ्शिक्षितुं प्रयतामहे। तद्वै वित्तं मातिदेवीर्मा जैषीः शकुने परम् ॥२-५३-९॥
नाहं निकृत्या कामये सुखान्युत धनानि वा। कितवस्याप्यनिकृतेर्वृत्तमेतन्न पूज्यते ॥२-५३-१०॥
शकुनिरुवाच॥
श्रोत्रियोऽश्रोत्रियमुत निकृत्यैव युधिष्ठिर। विद्वानविदुषोऽभ्येति नाहुस्तां निकृतिं जनाः ॥२-५३-११॥
एवं त्वं मामिहाभ्येत्य निकृतिं यदि मन्यसे। देवनाद्विनिवर्तस्व यदि ते विद्यते भयम् ॥२-५३-१२॥
युधिष्ठिर उवाच॥
आहूतो न निवर्तेयमिति मे व्रतमाहितम्। विधिश्च बलवान्राजन्दिष्टस्यास्मि वशे स्थितः ॥२-५३-१३॥
अस्मिन्समागमे केन देवनं मे भविष्यति। प्रतिपाणश्च कोऽन्योऽस्ति ततो द्यूतं प्रवर्तताम् ॥२-५३-१४॥
दुर्योधन उवाच॥
अहं दातास्मि रत्नानां धनानां च विशां पते। मदर्थे देविता चायं शकुनिर्मातुलो मम ॥२-५३-१५॥
युधिष्ठिर उवाच॥
अन्येनान्यस्य विषमं देवनं प्रतिभाति मे। एतद्विद्वन्नुपादत्स्व काममेवं प्रवर्तताम् ॥२-५३-१६॥
वैशम्पायन उवाच॥
उपोह्यमाने द्यूते तु राजानः सर्व एव ते। धृतराष्ट्रं पुरस्कृत्य विविशुस्तां सभां ततः ॥२-५३-१७॥
भीष्मो द्रोणः कृपश्चैव विदुरश्च महामतिः। नातीवप्रीतमनसस्तेऽन्ववर्तन्त भारत ॥२-५३-१८॥
ते द्वंद्वशः पृथक्चैव सिंहग्रीवा महौजसः। सिंहासनानि भूरीणि विचित्राणि च भेजिरे ॥२-५३-१९॥
शुशुभे सा सभा राजन्राजभिस्तैः समागतैः। देवैरिव महाभागैः समवेतैस्त्रिविष्टपम् ॥२-५३-२०॥
सर्वे वेदविदः शूराः सर्वे भास्वरमूर्तयः। प्रावर्तत महाराज सुहृद्द्यूतमनन्तरम् ॥२-५३-२१॥
युधिष्ठिर उवाच॥
अयं बहुधनो राजन्सागरावर्तसम्भवः। मणिर्हारोत्तरः श्रीमान्कनकोत्तमभूषणः ॥२-५३-२२॥
एतद्राजन्धनं मह्यं प्रतिपाणस्तु कस्तव। भवत्वेष क्रमस्तात जयाम्येनं दुरोदरम् ॥२-५३-२३॥
दुर्योधन उवाच॥
सन्ति मे मणयश्चैव धनानि विविधानि च। मत्सरश्च न मेऽर्थेषु जयाम्येनं दुरोदरम् ॥२-५३-२४॥
वैशम्पायन उवाच॥
ततो जग्राह शकुनिस्तानक्षानक्षतत्त्ववित्। जितमित्येव शकुनिर्युधिष्ठिरमभाषत ॥२-५३-२५॥