02.054
Core-Pancharatra: Yudhisthira continues to lose his wealth.
युधिष्ठिर उवाच॥
मत्तः कैतवकेनैव यज्जितोऽस्मि दुरोदरम्। शकुने हन्त दीव्यामो ग्लहमानाः सहस्रशः ॥२-५४-१॥
इमे निष्कसहस्रस्य कुण्डिनो भरिताः शतम्। कोशो हिरण्यमक्षय्यं जातरूपमनेकशः ॥ एतद्राजन्धनं मह्यं तेन दीव्याम्यहं त्वया ॥२-५४-२॥
वैशम्पायन उवाच॥
इत्युक्तः शकुनिः प्राह जितमित्येव तं नृपम्। युधिष्ठिर उवाच॥
अयं सहस्रसमितो वैयाघ्रः सुप्रवर्तितः। सुचक्रोपस्करः श्रीमान्किङ्किणीजालमण्डितः ॥२-५४-४॥
संह्रादनो राजरथो य इहास्मानुपावहत्। जैत्रो रथवरः पुण्यो मेघसागरनिःस्वनः ॥२-५४-५॥
अष्टौ यं कुररच्छायाः सदश्वा राष्ट्रसंमताः। वहन्ति नैषामुच्येत पदा भूमिमुपस्पृशन् ॥ एतद्राजन्धनं मह्यं तेन दीव्याम्यहं त्वया ॥२-५४-६॥
वैशम्पायन उवाच॥
एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः। जितमित्येव शकुनिर्युधिष्ठिरमभाषत ॥२-५४-७॥
युधिष्ठिर उवाच॥
सहस्रसङ्ख्या नागा मे मत्तास्तिष्ठन्ति सौबल। हेमकक्षाः कृतापीडाः पद्मिनो हेममालिनः ॥२-५४-८॥
सुदान्ता राजवहनाः सर्वशब्दक्षमा युधि। ईषादन्ता महाकायाः सर्वे चाष्टकरेणवः ॥२-५४-९॥
सर्वे च पुरभेत्तारो नगमेघनिभा गजाः। एतद्राजन्धनं मह्यं तेन दीव्याम्यहं त्वया ॥२-५४-१०॥
वैशम्पायन उवाच॥
तमेवंवादिनं पार्थं प्रहसन्निव सौबलः। जितमित्येव शकुनिर्युधिष्ठिरमभाषत ॥२-५४-११॥
युधिष्ठिर उवाच॥
शतं दासीसहस्राणि तरुण्यो मे प्रभद्रिकाः। कम्बुकेयूरधारिण्यो निष्ककण्ठ्यः स्वलङ्कृताः ॥२-५४-१२॥
महार्हमाल्याभरणाः सुवस्त्राश्चन्दनोक्षिताः। मणीन्हेम च बिभ्रत्यः सर्वा वै सूक्ष्मवाससः ॥२-५४-१३॥
अनुसेवां चरन्तीमाः कुशला नृत्यसामसु। स्नातकानाममात्यानां राज्ञां च मम शासनात् ॥ एतद्राजन्धनं मह्यं तेन दीव्याम्यहं त्वया ॥२-५४-१४॥
वैशम्पायन उवाच॥
एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः। जितमित्येव शकुनिर्युधिष्ठिरमभाषत ॥२-५४-१५॥
युधिष्ठिर उवाच॥
एतावन्त्येव दासानां सहस्राण्युत सन्ति मे। प्रदक्षिणानुलोमाश्च प्रावारवसनाः सदा ॥२-५४-१६॥
प्राज्ञा मेधाविनो दक्षा युवानो मृष्टकुण्डलाः। पात्रीहस्ता दिवारात्रमतिथीन्भोजयन्त्युत ॥ एतद्राजन्धनं मह्यं तेन दीव्याम्यहं त्वया ॥२-५४-१७॥
वैशम्पायन उवाच॥
एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः। जितमित्येव शकुनिर्युधिष्ठिरमभाषत ॥२-५४-१८॥
युधिष्ठिर उवाच॥
रथास्तावन्त एवेमे हेमभाण्डाः पताकिनः। हयैर्विनीतैः सम्पन्ना रथिभिश्चित्रयोधिभिः ॥२-५४-१९॥
एकैको यत्र लभते सहस्रपरमां भृतिम्। युध्यतोऽयुध्यतो वापि वेतनं मासकालिकम् ॥ एतद्राजन्धनं मह्यं तेन दीव्याम्यहं त्वया ॥२-५४-२०॥
वैशम्पायन उवाच॥
इत्येवमुक्ते पार्थेन कृतवैरो दुरात्मवान्। जितमित्येव शकुनिर्युधिष्ठिरमभाषत ॥२-५४-२१॥
युधिष्ठिर उवाच॥
अश्वांस्तित्तिरिकल्माषान्गान्धर्वान्हेममालिनः। ददौ चित्ररथस्तुष्टो यांस्तान्गाण्डीवधन्वने ॥ एतद्राजन्धनं मह्यं तेन दीव्याम्यहं त्वया ॥२-५४-२२॥
वैशम्पायन उवाच॥
एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः। जितमित्येव शकुनिर्युधिष्ठिरमभाषत ॥२-५४-२३॥
युधिष्ठिर उवाच॥
रथानां शकटानां च हयानां चायुतानि मे। युक्तानामेव तिष्ठन्ति वाहैरुच्चावचैर्वृताः ॥२-५४-२४॥
एवं वर्णस्य वर्णस्य समुच्चीय सहस्रशः। क्षीरं पिबन्तस्तिष्ठन्ति भुञ्जानाः शालितण्डुलान् ॥२-५४-२५॥
षष्टिस्तानि सहस्राणि सर्वे पृथुलवक्षसः। एतद्राजन्धनं मह्यं तेन दीव्याम्यहं त्वया ॥२-५४-२६॥
वैशम्पायन उवाच॥
एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः। जितमित्येव शकुनिर्युधिष्ठिरमभाषत ॥२-५४-२७॥
युधिष्ठिर उवाच॥
ताम्रलोहैः परिवृता निधयो मे चतुःशताः। पञ्चद्रौणिक एकैकः सुवर्णस्याहतस्य वै ॥ एतद्राजन्धनं मह्यं तेन दीव्याम्यहं त्वया ॥२-५४-२८॥
वैशम्पायन उवाच॥
एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः। जितमित्येव शकुनिर्युधिष्ठिरमभाषत ॥२-५४-२९॥