02.061
Core-Pancharatra: Bhimas owe and Vidura on Sabha dharma.
भीम उवाच॥
भवन्ति देशे बन्धक्यः कितवानां युधिष्ठिर। न ताभिरुत दीव्यन्ति दया चैवास्ति तास्वपि ॥२-६१-१॥
काश्यो यद्बलिमाहार्षीद्द्रव्यं यच्चान्यदुत्तमम्। तथान्ये पृथिवीपाला यानि रत्नान्युपाहरन् ॥२-६१-२॥
वाहनानि धनं चैव कवचान्यायुधानि च। राज्यमात्मा वयं चैव कैतवेन हृतं परैः ॥२-६१-३॥
न च मे तत्र कोपोऽभूत्सर्वस्येशो हि नो भवान्। इदं त्वतिकृतं मन्ये द्रौपदी यत्र पण्यते ॥२-६१-४॥
एषा ह्यनर्हती बाला पाण्डवान्प्राप्य कौरवैः। त्वत्कृते क्लिश्यते क्षुद्रैर्नृशंसैर्निकृतिप्रियैः ॥२-६१-५॥
अस्याः कृते मन्युरयं त्वयि राजन्निपात्यते। बाहू ते सम्प्रधक्ष्यामि सहदेवाग्निमानय ॥२-६१-६॥
अर्जुन उवाच॥
न पुरा भीमसेन त्वमीदृशीर्वदिता गिरः। परैस्ते नाशितं नूनं नृशंसैर्धर्मगौरवम् ॥२-६१-७॥
न सकामाः परे कार्या धर्ममेवाचरोत्तमम्। भ्रातरं धार्मिकं ज्येष्ठं नातिक्रमितुमर्हति ॥२-६१-८॥
आहूतो हि परै राजा क्षात्रधर्ममनुस्मरन्। दीव्यते परकामेन तन्नः कीर्तिकरं महत् ॥२-६१-९॥
भीमसेन उवाच॥
एवमस्मिकृतं विद्यां यद्यस्याहं धनञ्जय। दीप्तेऽग्नौ सहितौ बाहू निर्दहेयं बलादिव ॥२-६१-१०॥
वैशम्पायन उवाच॥
तथा तान्दुःखितान्दृष्ट्वा पाण्डवान्धृतराष्ट्रजः। क्लिश्यमानां च पाञ्चालीं विकर्ण इदमब्रवीत् ॥२-६१-११॥
याज्ञसेन्या यदुक्तं तद्वाक्यं विब्रूत पार्थिवाः। अविवेकेन वाक्यस्य नरकः सद्य एव नः ॥२-६१-१२॥
भीष्मश्च धृतराष्ट्रश्च कुरुवृद्धतमावुभौ। समेत्य नाहतुः किञ्चिद्विदुरश्च महामतिः ॥२-६१-१३॥
भारद्वाजोऽपि सर्वेषामाचार्यः कृप एव च। अत एतावपि प्रश्नं नाहतुर्द्विजसत्तमौ ॥२-६१-१४॥
ये त्वन्ये पृथिवीपालाः समेताः सर्वतो दिशः। कामक्रोधौ समुत्सृज्य ते ब्रुवन्तु यथामति ॥२-६१-१५॥
यदिदं द्रौपदी वाक्यमुक्तवत्यसकृच्छुभा। विमृश्य कस्य कः पक्षः पार्थिवा वदतोत्तरम् ॥२-६१-१६॥
एवं स बहुशः सर्वानुक्तवांस्तान्सभासदः। न च ते पृथिवीपालास्तमूचुः साध्वसाधु वा ॥२-६१-१७॥
उक्त्वा तथासकृत्सर्वान्विकर्णः पृथिवीपतीन्। पाणिं पाणौ विनिष्पिष्य निःश्वसन्निदमब्रवीत् ॥२-६१-१८॥
विब्रूत पृथिवीपाला वाक्यं मा वा कथञ्चन। मन्ये न्याय्यं यदत्राहं तद्धि वक्ष्यामि कौरवाः ॥२-६१-१९॥
चत्वार्याहुर्नरश्रेष्ठा व्यसनानि महीक्षिताम्। मृगयां पानमक्षांश्च ग्राम्ये चैवातिसक्तताम् ॥२-६१-२०॥
एतेषु हि नरः सक्तो धर्ममुत्सृज्य वर्तते। तथायुक्तेन च कृतां क्रियां लोको न मन्यते ॥२-६१-२१॥
तदयं पाण्डुपुत्रेण व्यसने वर्तता भृशम्। समाहूतेन कितवैरास्थितो द्रौपदीपणः ॥२-६१-२२॥
साधारणी च सर्वेषां पाण्डवानामनिन्दिता। जितेन पूर्वं चानेन पाण्डवेन कृतः पणः ॥२-६१-२३॥
इयं च कीर्तिता कृष्णा सौबलेन पणार्थिना। एतत्सर्वं विचार्याहं मन्ये न विजितामिमाम् ॥२-६१-२४॥
एतच्छ्रुत्वा महान्नादः सभ्यानामुदतिष्ठत। विकर्णं शंसमानानां सौबलं च विनिन्दताम् ॥२-६१-२५॥
तस्मिन्नुपरते शब्दे राधेयः क्रोधमूर्छितः। प्रगृह्य रुचिरं बाहुमिदं वचनमब्रवीत् ॥२-६१-२६॥
दृश्यन्ते वै विकर्णे हि वैकृतानि बहून्यपि। तज्जस्तस्य विनाशाय यथाग्निररणिप्रजः ॥२-६१-२७॥
एते न किञ्चिदप्याहुश्चोद्यमानापि कृष्णया। धर्मेण विजितां मन्ये मन्यन्ते द्रुपदात्मजाम् ॥२-६१-२८॥
त्वं तु केवलबाल्येन धार्तराष्ट्र विदीर्यसे। यद्ब्रवीषि सभामध्ये बालः स्थविरभाषितम् ॥२-६१-२९॥
न च धर्मं यथातत्त्वं वेत्सि दुर्योधनावर। यद्ब्रवीषि जितां कृष्णामजितेति सुमन्दधीः ॥२-६१-३०॥
कथं ह्यविजितां कृष्णां मन्यसे धृतराष्ट्रज। यदा सभायां सर्वस्वं न्यस्तवान्पाण्डवाग्रजः ॥२-६१-३१॥
अभ्यन्तरा च सर्वस्वे द्रौपदी भरतर्षभ। एवं धर्मजितां कृष्णां मन्यसे न जितां कथम् ॥२-६१-३२॥
कीर्तिता द्रौपदी वाचा अनुज्ञाता च पाण्डवैः। भवत्यविजिता केन हेतुनैषा मता तव ॥२-६१-३३॥
मन्यसे वा सभामेतामानीतामेकवाससम्। अधर्मेणेति तत्रापि शृणु मे वाक्यमुत्तरम् ॥२-६१-३४॥
एको भर्ता स्त्रिया देवैर्विहितः कुरुनन्दन। इयं त्वनेकवशगा बन्धकीति विनिश्चिता ॥२-६१-३५॥
अस्याः सभामानयनं न चित्रमिति मे मतिः। एकाम्बरधरत्वं वाप्यथ वापि विवस्त्रता ॥२-६१-३६॥
यच्चैषां द्रविणं किञ्चिद्या चैषा ये च पाण्डवाः। सौबलेनेह तत्सर्वं धर्मेण विजितं वसु ॥२-६१-३७॥
दुःशासन सुबालोऽयं विकर्णः प्राज्ञवादिकः। पाण्डवानां च वासांसि द्रौपद्याश्चाप्युपाहर ॥२-६१-३८॥
तच्छ्रुत्वा पाण्डवाः सर्वे स्वानि वासांसि भारत। अवकीर्योत्तरीयाणि सभायां समुपाविशन् ॥२-६१-३९॥
ततो दुःशासनो राजन्द्रौपद्या वसनं बलात्। सभामध्ये समाक्षिप्य व्यपक्रष्टुं प्रचक्रमे ॥२-६१-४०॥
आकृष्यमाणे वसने द्रौपद्यास्तु विशां पते। तद्रूपमपरं वस्त्रं प्रादुरासीदनेकशः ॥२-६१-४१॥
ततो हलहलाशब्दस्तत्रासीद्घोरनिस्वनः। तदद्भुततमं लोके वीक्ष्य सर्वमहीक्षिताम् ॥२-६१-४२॥
शशाप तत्र भीमस्तु राजमध्ये महास्वनः। क्रोधाद्विस्फुरमाणोष्ठो विनिष्पिष्य करे करम् ॥२-६१-४३॥
इदं मे वाक्यमादद्ध्वं क्षत्रिया लोकवासिनः। नोक्तपूर्वं नरैरन्यैर्न चान्यो यद्वदिष्यति ॥२-६१-४४॥
यद्येतदेवमुक्त्वा तु न कुर्यां पृथिवीश्वराः। पितामहानां सर्वेषां नाहं गतिमवाप्नुयाम् ॥२-६१-४५॥
अस्य पापस्य दुर्जातेर्भारतापसदस्य च। न पिबेयं बलाद्वक्षो भित्त्वा चेद्रुधिरं युधि ॥२-६१-४६॥
तस्य ते वचनं श्रुत्वा सर्वलोकप्रहर्षणम्। प्रचक्रुर्बहुलां पूजां कुत्सन्तो धृतराष्ट्रजम् ॥२-६१-४७॥
यदा तु वाससां राशिः सभामध्ये समाचितः। ततो दुःशासनः श्रान्तो व्रीडितः समुपाविशत् ॥२-६१-४८॥
धिक्षब्दस्तु ततस्तत्र समभूल्लोमहर्षणः। सभ्यानां नरदेवानां दृष्ट्वा कुन्तीसुतांस्तदा ॥२-६१-४९॥
न विब्रुवन्ति कौरव्याः प्रश्नमेतमिति स्म ह। स जनः क्रोशति स्मात्र धृतराष्ट्रं विगर्हयन् ॥२-६१-५०॥
ततो बाहू समुच्छ्रित्य निवार्य च सभासदः। विदुरः सर्वधर्मज्ञ इदं वचनमब्रवीत् ॥२-६१-५१॥
विदुर उवाच॥
द्रौपदी प्रश्नमुक्त्वैवं रोरवीति ह्यनाथवत्। न च विब्रूत तं प्रश्नं सभ्या धर्मोऽत्र पीड्यते ॥२-६१-५२॥
सभां प्रपद्यते ह्यार्तः प्रज्वलन्निव हव्यवाट्। तं वै सत्येन धर्मेण सभ्याः प्रशमयन्त्युत ॥२-६१-५३॥
धर्मप्रश्नमथो ब्रूयादार्तः सभ्येषु मानवः। विब्रूयुस्तत्र ते प्रश्नं कामक्रोधवशातिगाः ॥२-६१-५४॥
विकर्णेन यथाप्रज्ञमुक्तः प्रश्नो नराधिपाः। भवन्तोऽपि हि तं प्रश्नं विब्रुवन्तु यथामति ॥२-६१-५५॥
यो हि प्रश्नं न विब्रूयाद्धर्मदर्शी सभां गतः। अनृते या फलावाप्तिस्तस्याः सोऽर्धं समश्नुते ॥२-६१-५६॥
यः पुनर्वितथं ब्रूयाद्धर्मदर्शी सभां गतः। अनृतस्य फलं कृत्स्नं सम्प्राप्नोतीति निश्चयः ॥२-६१-५७॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम्। प्रह्लादस्य च संवादं मुनेराङ्गिरसस्य च ॥२-६१-५८॥
प्रह्लादो नाम दैत्येन्द्रस्तस्य पुत्रो विरोचनः। कन्याहेतोराङ्गिरसं सुधन्वानमुपाद्रवत् ॥२-६१-५९॥
अहं ज्यायानहं ज्यायानिति कन्येप्सया तदा। तयोर्देवनमत्रासीत्प्राणयोरिति नः श्रुतम् ॥२-६१-६०॥
तयोः प्रश्नविवादोऽभूत्प्रह्लादं तावपृच्छताम्। ज्यायान्क आवयोरेकः प्रश्नं प्रब्रूहि मा मृषा ॥२-६१-६१॥
स वै विवदनाद्भीतः सुधन्वानं व्यलोकयत्। तं सुधन्वाब्रवीत्क्रुद्धो ब्रह्मदण्ड इव ज्वलन् ॥२-६१-६२॥
यदि वै वक्ष्यसि मृषा प्रह्लादाथ न वक्ष्यसि। शतधा ते शिरो वज्री वज्रेण प्रहरिष्यति ॥२-६१-६३॥
सुधन्वना तथोक्तः सन्व्यथितोऽश्वत्थपर्णवत्। जगाम कश्यपं दैत्यः परिप्रष्टुं महौजसम् ॥२-६१-६४॥
प्रह्लाद उवाच॥
त्वं वै धर्मस्य विज्ञाता दैवस्येहासुरस्य च। ब्राह्मणस्य महाप्राज्ञ धर्मकृच्छ्रमिदं शृणु ॥२-६१-६५॥
यो वै प्रश्नं न विब्रूयाद्वितथं वापि निर्दिशेत्। के वै तस्य परे लोकास्तन्ममाचक्ष्व पृच्छतः ॥२-६१-६६॥
कश्यप उवाच॥
जानन्न विब्रुवन्प्रश्नं कामात्क्रोधात्तथा भयात्। सहस्रं वारुणान्पाशानात्मनि प्रतिमुञ्चति ॥२-६१-६७॥
तस्य संवत्सरे पूर्णे पाश एकः प्रमुच्यते। तस्मात्सत्यं तु वक्तव्यं जानता सत्यमञ्जसा ॥२-६१-६८॥
विद्धो धर्मो ह्यधर्मेण सभां यत्र प्रपद्यते। न चास्य शल्यं कृन्तन्ति विद्धास्तत्र सभासदः ॥२-६१-६९॥
अर्धं हरति वै श्रेष्ठः पादो भवति कर्तृषु। पादश्चैव सभासत्सु ये न निन्दन्ति निन्दितम् ॥२-६१-७०॥
अनेना भवति श्रेष्ठो मुच्यन्ते च सभासदः। एनो गच्छति कर्तारं निन्दार्हो यत्र निन्द्यते ॥२-६१-७१॥
वितथं तु वदेयुर्ये धर्मं प्रह्लाद पृच्छते। इष्टापूर्तं च ते घ्नन्ति सप्त चैव परावरान् ॥२-६१-७२॥
हृतस्वस्य हि यद्दुःखं हतपुत्रस्य चापि यत्। ऋणिनं प्रति यच्चैव राज्ञा ग्रस्तस्य चापि यत् ॥२-६१-७३॥
स्त्रियाः पत्या विहीनायाः सार्थाद्भ्रष्टस्य चैव यत्। अध्यूढायाश्च यद्दुःखं साक्षिभिर्विहतस्य च ॥२-६१-७४॥
एतानि वै समान्याहुर्दुःखानि त्रिदशेश्वराः। तानि सर्वाणि दुःखानि प्राप्नोति वितथं ब्रुवन् ॥२-६१-७५॥
समक्षदर्शनात्साक्ष्यं श्रवणाच्चेति धारणात्। तस्मात्सत्यं ब्रुवन्साक्षी धर्मार्थाभ्यां न हीयते ॥२-६१-७६॥
विदुर उवाच॥
कश्यपस्य वचः श्रुत्वा प्रह्लादः पुत्रमब्रवीत्। श्रेयान्सुधन्वा त्वत्तो वै मत्तः श्रेयांस्तथाङ्गिराः ॥२-६१-७७॥
माता सुधन्वनश्चापि श्रेयसी मातृतस्तव। विरोचन सुधन्वायं प्राणानामीश्वरस्तव ॥२-६१-७८॥
सुधन्वोवाच॥
पुत्रस्नेहं परित्यज्य यस्त्वं धर्मे प्रतिष्ठितः। अनुजानामि ते पुत्रं जीवत्वेष शतं समाः ॥२-६१-७९॥
विदुर उवाच॥
एवं वै परमं धर्मं श्रुत्वा सर्वे सभासदः। यथाप्रश्नं तु कृष्णाया मन्यध्वं तत्र किं परम् ॥२-६१-८०॥
वैशम्पायन उवाच॥
विदुरस्य वचः श्रुत्वा नोचुः किञ्चन पार्थिवाः। कर्णो दुःशासनं त्वाह कृष्णां दासीं गृहान्नय ॥२-६१-८१॥
तां वेपमानां सव्रीडां प्रलपन्तीं स्म पाण्डवान्। दुःशासनः सभामध्ये विचकर्ष तपस्विनीम् ॥२-६१-८२॥