Mahabharata - Sabha Parva (महाभारत - सभापर्वम्)
02.062
Core-Pancharatra: Bhima says he is silent, because all of them consider Yudhisthira to be their lord.
द्रौपद्युवाच॥
पुरस्तात्करणीयं मे न कृतं कार्यमुत्तरम्। विह्वलास्मि कृतानेन कर्षता बलिना बलात् ॥२-६२-१॥
अभिवादं करोम्येषां गुरूणां कुरुसंसदि। न मे स्यादपराधोऽयं यदिदं न कृतं मया ॥२-६२-२॥
वैशम्पायन उवाच॥
सा तेन च समुद्धूता दुःखेन च तपस्विनी। पतिता विललापेदं सभायामतथोचिता ॥२-६२-३॥
द्रौपद्युवाच॥
स्वयंवरे यास्मि नृपैर्दृष्टा रङ्गे समागतैः। न दृष्टपूर्वा चान्यत्र साहमद्य सभां गता ॥२-६२-४॥
यां न वायुर्न चादित्यो दृष्टवन्तौ पुरा गृहे। साहमद्य सभामध्ये दृश्यामि कुरुसंसदि ॥२-६२-५॥
यां न मृष्यन्ति वातेन स्पृश्यमानां पुरा गृहे। स्पृश्यमानां सहन्तेऽद्य पाण्डवास्तां दुरात्मना ॥२-६२-६॥
मृष्यन्ते कुरवश्चेमे मन्ये कालस्य पर्ययम्। स्नुषां दुहितरं चैव क्लिश्यमानामनर्हतीम् ॥२-६२-७॥
किं त्वतः कृपणं भूयो यदहं स्त्री सती शुभा। सभामध्यं विगाहेऽद्य क्व नु धर्मो महीक्षिताम् ॥२-६२-८॥
धर्म्याः स्त्रियः सभां पूर्वं न नयन्तीति नः श्रुतम्। स नष्टः कौरवेयेषु पूर्वो धर्मः सनातनः ॥२-६२-९॥
कथं हि भार्या पाण्डूनां पार्षतस्य स्वसा सती। वासुदेवस्य च सखी पार्थिवानां सभामियाम् ॥२-६२-१०॥
तामिमां धर्मराजस्य भार्यां सदृशवर्णजाम्। ब्रूत दासीमदासीं वा तत्करिष्यामि कौरवाः ॥२-६२-११॥
अयं हि मां दृढं क्षुद्रः कौरवाणां यशोहरः। क्लिश्नाति नाहं तत्सोढुं चिरं शक्ष्यामि कौरवाः ॥२-६२-१२॥
जितां वाप्यजितां वापि मन्यध्वं वा यथा नृपाः। तथा प्रत्युक्तमिच्छामि तत्करिष्यामि कौरवाः ॥२-६२-१३॥
भीष्म उवाच॥
उक्तवानस्मि कल्याणि धर्मस्य तु परां गतिम्। लोके न शक्यते गन्तुमपि विप्रैर्महात्मभिः ॥२-६२-१४॥
बलवांस्तु यथा धर्मं लोके पश्यति पूरुषः। स धर्मो धर्मवेलायां भवत्यभिहितः परैः ॥२-६२-१५॥
न विवेक्तुं च ते प्रश्नमेतं शक्नोमि निश्चयात्। सूक्ष्मत्वाद्गहनत्वाच्च कार्यस्यास्य च गौरवात् ॥२-६२-१६॥
नूनमन्तः कुलस्यास्य भविता नचिरादिव। तथा हि कुरवः सर्वे लोभमोहपरायणाः ॥२-६२-१७॥
कुलेषु जाताः कल्याणि व्यसनाभ्याहता भृशम्। धर्म्यान्मार्गान्न च्यवन्ते यथा नस्त्वं वधूः स्थिता ॥२-६२-१८॥
उपपन्नं च पाञ्चालि तवेदं वृत्तमीदृशम्। यत्कृच्छ्रमपि सम्प्राप्ता धर्ममेवान्ववेक्षसे ॥२-६२-१९॥
एते द्रोणादयश्चैव वृद्धा धर्मविदो जनाः। शून्यैः शरीरैस्तिष्ठन्ति गतासव इवानताः ॥२-६२-२०॥
युधिष्ठिरस्तु प्रश्नेऽस्मिन्प्रमाणमिति मे मतिः। अजितां वा जितां वापि स्वयं व्याहर्तुमर्हति ॥२-६२-२१॥
वैशम्पायन उवाच॥
तथा तु दृष्ट्वा बहु तत्तदेवं; रोरूयमाणां कुररीमिवार्ताम्। नोचुर्वचः साध्वथ वाप्यसाधु; महीक्षितो धार्तराष्ट्रस्य भीताः ॥२-६२-२२॥
दृष्ट्वा तु तान्पार्थिवपुत्रपौत्रां; स्तूष्णीम्भूतान्धृतराष्ट्रस्य पुत्रः। स्मयन्निवेदं वचनं बभाषे; पाञ्चालराजस्य सुतां तदानीम् ॥२-६२-२३॥
तिष्ठत्वयं प्रश्न उदारसत्त्वे; भीमेऽर्जुने सहदेवे तथैव। पत्यौ च ते नकुले याज्ञसेनि; वदन्त्वेते वचनं त्वत्प्रसूतम् ॥२-६२-२४॥
अनीश्वरं विब्रुवन्त्वार्यमध्ये; युधिष्ठिरं तव पाञ्चालि हेतोः। कुर्वन्तु सर्वे चानृतं धर्मराजं; पाञ्चालि त्वं मोक्ष्यसे दासभावात् ॥२-६२-२५॥
धर्मे स्थितो धर्मराजो महात्मा; स्वयं चेदं कथयत्विन्द्रकल्पः। ईशो वा ते यद्यनीशोऽथ वैष; वाक्यादस्य क्षिप्रमेकं भजस्व ॥२-६२-२६॥
सर्वे हीमे कौरवेयाः सभायां; दुःखान्तरे वर्तमानास्तवैव। न विब्रुवन्त्यार्यसत्त्वा यथाव; त्पतींश्च ते समवेक्ष्याल्पभाग्यान् ॥२-६२-२७॥
ततः सभ्याः कुरुराजस्य तत्र; वाक्यं सर्वे प्रशशंसुस्तदोच्चैः। चेलावेधांश्चापि चक्रुर्नदन्तो; हा हेत्यासीदपि चैवात्र नादः ॥ सर्वे चासन्पार्थिवाः प्रीतिमन्तः; कुरुश्रेष्ठं धार्मिकं पूजयन्तः ॥२-६२-२८॥
युधिष्ठिरं च ते सर्वे समुदैक्षन्त पार्थिवाः। किं नु वक्ष्यति धर्मज्ञ इति साचीकृताननाः ॥२-६२-२९॥
किं नु वक्ष्यति बीभत्सुरजितो युधि पाण्डवः। भीमसेनो यमौ चेति भृशं कौतूहलान्विताः ॥२-६२-३०॥
तस्मिन्नुपरते शब्दे भीमसेनोऽब्रवीदिदम्। प्रगृह्य विपुलं वृत्तं भुजं चन्दनरूषितम् ॥२-६२-३१॥
यद्येष गुरुरस्माकं धर्मराजो युधिष्ठिरः। न प्रभुः स्यात्कुलस्यास्य न वयं मर्षयेमहि ॥२-६२-३२॥
ईशो नः पुण्यतपसां प्राणानामपि चेश्वरः। मन्यते जितमात्मानं यद्येष विजिता वयम् ॥२-६२-३३॥
न हि मुच्येत जीवन्मे पदा भूमिमुपस्पृशन्। मर्त्यधर्मा परामृश्य पाञ्चाल्या मूर्धजानिमान् ॥२-६२-३४॥
पश्यध्वमायतौ वृत्तौ भुजौ मे परिघाविव। नैतयोरन्तरं प्राप्य मुच्येतापि शतक्रतुः ॥२-६२-३५॥
धर्मपाशसितस्त्वेवं नाधिगच्छामि सङ्कटम्। गौरवेण निरुद्धश्च निग्रहादर्जुनस्य च ॥२-६२-३६॥
धर्मराजनिसृष्टस्तु सिंहः क्षुद्रमृगानिव। धार्तराष्ट्रानिमान्पापान्निष्पिषेयं तलासिभिः ॥२-६२-३७॥
तमुवाच तदा भीष्मो द्रोणो विदुर एव च। क्षम्यतामेवमित्येवं सर्वं सम्भवति त्वयि ॥२-६२-३८॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.