Mahabharata - Sabha Parva (महाभारत - सभापर्वम्)
02.060
Core-Pancharatra: After Yudhisthira’s silence, Draupadi comes to the Sabha and stands in front of Dritarashtra.
वैशम्पायन उवाच॥
धिगस्तु क्षत्तारमिति ब्रुवाणो; दर्पेण मत्तो धृतराष्ट्रस्य पुत्रः। अवैक्षत प्रातिकामीं सभाया; मुवाच चैनं परमार्यमध्ये ॥२-६०-१॥
त्वं प्रातिकामिन्द्रौपदीमानयस्व; न ते भयं विद्यते पाण्डवेभ्यः। क्षत्ता ह्ययं विवदत्येव भीरु; र्न चास्माकं वृद्धिकामः सदैव ॥२-६०-२॥
एवमुक्तः प्रातिकामी स सूतः; प्रायाच्छीघ्रं राजवचो निशम्य। प्रविश्य च श्वेव स सिंहगोष्ठं; समासदन्महिषीं पाण्डवानाम् ॥२-६०-३॥
प्रातिकाम्युवाच॥
युधिष्ठिरे द्यूतमदेन मत्ते; दुर्योधनो द्रौपदि त्वामजैषीत्। सा प्रपद्य त्वं धृतराष्ट्रस्य वेश्म; नयामि त्वां कर्मणे याज्ञसेनि ॥२-६०-४॥
द्रौपद्युवाच॥
कथं त्वेवं वदसि प्रातिकामि; न्को वै दीव्येद्भार्यया राजपुत्रः। मूढो राजा द्यूतमदेन मत्त; आहो नान्यत्कैतवमस्य किञ्चित् ॥२-६०-५॥
प्रातिकाम्युवाच॥
यदा नाभूत्कैतवमन्यदस्य; तदादेवीत्पाण्डवोऽजातशत्रुः। न्यस्ताः पूर्वं भ्रातरस्तेन राज्ञा; स्वयं चात्मा त्वमथो राजपुत्रि ॥२-६०-६॥
द्रौपद्युवाच॥
गच्छ त्वं कितवं गत्वा सभायां पृच्छ सूतज। किं नु पूर्वं पराजैषीरात्मानं मां नु भारत ॥ एतज्ज्ञात्वा त्वमागच्छ ततो मां नय सूतज ॥२-६०-७॥
वैशम्पायन उवाच॥
सभां गत्वा स चोवाच द्रौपद्यास्तद्वचस्तदा। कस्येशो नः पराजैषीरिति त्वामाह द्रौपदी ॥ किं नु पूर्वं पराजैषीरात्मानमथ वापि माम् ॥२-६०-८॥
युधिष्ठिरस्तु निश्चेष्टो गतसत्त्व इवाभवत्। न तं सूतं प्रत्युवाच वचनं साध्वसाधु वा ॥२-६०-९॥
दुर्योधन उवाच॥
इहैत्य कृष्णा पाञ्चाली प्रश्नमेतं प्रभाषताम्। इहैव सर्वे शृण्वन्तु तस्या अस्य च यद्वचः ॥२-६०-१०॥
वैशम्पायन उवाच॥
स गत्वा राजभवनं दुर्योधनवशानुगः। उवाच द्रौपदीं सूतः प्रातिकामी व्यथन्निव ॥२-६०-११॥
सभ्यास्त्वमी राजपुत्र्याह्वयन्ति; मन्ये प्राप्तः सङ्क्षयः कौरवाणाम्। न वै समृद्धिं पालयते लघीया; न्यत्त्वं सभामेष्यसि राजपुत्रि ॥२-६०-१२॥
द्रौपद्युवाच॥
एवं नूनं व्यदधात्संविधाता; स्पर्शावुभौ स्पृशतो धीरबालौ। धर्मं त्वेकं परमं प्राह लोके; स नः शमं धास्यति गोप्यमानः ॥२-६०-१३॥
वैशम्पायन उवाच॥
युधिष्ठिरस्तु तच्छ्रुत्वा दुर्योधनचिकीर्षितम्। द्रौपद्याः संमतं दूतं प्राहिणोद्भरतर्षभ ॥२-६०-१४॥
एकवस्त्रा अधोनीवी रोदमाना रजस्वला। सभामागम्य पाञ्चाली श्वशुरस्याग्रतोऽभवत् ॥२-६०-१५॥
ततस्तेषां मुखमालोक्य राजा; दुर्योधनः सूतमुवाच हृष्टः। इहैवैतामानय प्रातिकामि; प्रत्यक्षमस्याः कुरवो ब्रुवन्तु ॥२-६०-१६॥
ततः सूतस्तस्य वशानुगामी; भीतश्च कोपाद्द्रुपदात्मजायाः। विहाय मानं पुनरेव सभ्या; नुवाच कृष्णां किमहं ब्रवीमि ॥२-६०-१७॥
दुर्योधन उवाच॥
दुःशासनैष मम सूतपुत्रो; वृकोदरादुद्विजतेऽल्पचेताः। स्वयं प्रगृह्यानय याज्ञसेनीं; किं ते करिष्यन्त्यवशाः सपत्नाः ॥२-६०-१८॥
ततः समुत्थाय स राजपुत्रः; श्रुत्वा भ्रातुः कोपविरक्तदृष्टिः। प्रविश्य तद्वेश्म महारथाना; मित्यब्रवीद्द्रौपदीं राजपुत्रीम् ॥२-६०-१९॥
एह्येहि पाञ्चालि जितासि कृष्णे; दुर्योधनं पश्य विमुक्तलज्जा। कुरून्भजस्वायतपद्मनेत्रे; धर्मेण लब्धासि सभां परैहि ॥२-६०-२०॥
ततः समुत्थाय सुदुर्मनाः सा; विवर्णमामृज्य मुखं करेण। आर्ता प्रदुद्राव यतः स्त्रियस्ता; वृद्धस्य राज्ञः कुरुपुङ्गवस्य ॥२-६०-२१॥
ततो जवेनाभिससार रोषा; द्दुःशासनस्तामभिगर्जमानः। दीर्घेषु नीलेष्वथ चोर्मिमत्सु; जग्राह केशेषु नरेन्द्रपत्नीम् ॥२-६०-२२॥
ये राजसूयावभृथे जलेन; महाक्रतौ मन्त्रपूतेन सिक्ताः। ते पाण्डवानां परिभूय वीर्यं; बलात्प्रमृष्टा धृतराष्ट्रजेन ॥२-६०-२३॥
स तां परामृश्य सभासमीप; मानीय कृष्णामतिकृष्णकेशीम्। दुःशासनो नाथवतीमनाथव; च्चकर्ष वायुः कदलीमिवार्ताम् ॥२-६०-२४॥
सा कृष्यमाणा नमिताङ्गयष्टिः; शनैरुवाचाद्य रजस्वलास्मि। एकं च वासो मम मन्दबुद्धे; सभां नेतुं नार्हसि मामनार्य ॥२-६०-२५॥
ततोऽब्रवीत्तां प्रसभं निगृह्य; केशेषु कृष्णेषु तदा स कृष्णाम्। कृष्णं च जिष्णुं च हरिं नरं च; त्राणाय विक्रोश नयामि हि त्वाम् ॥२-६०-२६॥
रजस्वला वा भव याज्ञसेनि; एकाम्बरा वाप्यथ वा विवस्त्रा। द्यूते जिता चासि कृतासि दासी; दासीषु कामश्च यथोपजोषम् ॥२-६०-२७॥
प्रकीर्णकेशी पतितार्धवस्त्रा; दुःशासनेन व्यवधूयमाना। ह्रीमत्यमर्षेण च दह्यमाना; शनैरिदं वाक्यमुवाच कृष्णा ॥२-६०-२८॥
इमे सभायामुपदिष्टशास्त्राः; क्रियावन्तः सर्व एवेन्द्रकल्पाः। गुरुस्थाना गुरवश्चैव सर्वे; तेषामग्रे नोत्सहे स्थातुमेवम् ॥२-६०-२९॥
नृशंसकर्मंस्त्वमनार्यवृत्त; मा मां विवस्त्रां कृधि मा विकार्षीः। न मर्षयेयुस्तव राजपुत्राः; सेन्द्रापि देवा यदि ते सहायाः ॥२-६०-३०॥
धर्मे स्थितो धर्मसुतश्च राजा; धर्मश्च सूक्ष्मो निपुणोपलभ्यः। वाचापि भर्तुः परमाणुमात्रं; नेच्छामि दोषं स्वगुणान्विसृज्य ॥२-६०-३१॥
इदं त्वनार्यं कुरुवीरमध्ये; रजस्वलां यत्परिकर्षसे माम्। न चापि कश्चित्कुरुतेऽत्र पूजां; ध्रुवं तवेदं मतमन्वपद्यन् ॥२-६०-३२॥
धिगस्तु नष्टः खलु भारतानां; धर्मस्तथा क्षत्रविदां च वृत्तम्। यत्राभ्यतीतां कुरुधर्मवेलां; प्रेक्षन्ति सर्वे कुरवः सभायाम् ॥२-६०-३३॥
द्रोणस्य भीष्मस्य च नास्ति सत्त्वं; ध्रुवं तथैवास्य महात्मनोऽपि। राज्ञस्तथा हीममधर्ममुग्रं; न लक्षयन्ते कुरुवृद्धमुख्याः ॥२-६०-३४॥
तथा ब्रुवन्ती करुणं सुमध्यमा; काक्षेण भर्तॄन्कुपितानपश्यत्। सा पाण्डवान्कोपपरीतदेहा; न्संदीपयामास कटाक्षपातैः ॥२-६०-३५॥
हृतेन राज्येन तथा धनेन; रत्नैश्च मुख्यैर्न तथा बभूव। यथार्तया कोपसमीरितेन; कृष्णाकटाक्षेण बभूव दुःखम् ॥२-६०-३६॥
दुःशासनश्चापि समीक्ष्य कृष्णा; मवेक्षमाणां कृपणान्पतींस्तान्। आधूय वेगेन विसञ्ज्ञकल्पा; मुवाच दासीति हसन्निवोग्रः ॥२-६०-३७॥
कर्णस्तु तद्वाक्यमतीव हृष्टः; सम्पूजयामास हसन्सशब्दम्। गान्धारराजः सुबलस्य पुत्र; स्तथैव दुःशासनमभ्यनन्दत् ॥२-६०-३८॥
सभ्यास्तु ये तत्र बभूवुरन्ये; ताभ्यामृते धार्तराष्ट्रेण चैव। तेषामभूद्दुःखमतीव कृष्णां; दृष्ट्वा सभायां परिकृष्यमाणाम् ॥२-६०-३९॥
भीष्म उवाच॥
न धर्मसौक्ष्म्यात्सुभगे विवक्तुं; शक्नोमि ते प्रश्नमिमं यथावत्। अस्वो ह्यशक्तः पणितुं परस्वं; स्त्रियश्च भर्तुर्वशतां समीक्ष्य ॥२-६०-४०॥
त्यजेत सर्वां पृथिवीं समृद्धां; युधिष्ठिरः सत्यमथो न जह्यात्। उक्तं जितोऽस्मीति च पाण्डवेन; तस्मान्न शक्नोमि विवेक्तुमेतत् ॥२-६०-४१॥
द्यूतेऽद्वितीयः शकुनिर्नरेषु; कुन्तीसुतस्तेन निसृष्टकामः। न मन्यते तां निकृतिं महात्मा; तस्मान्न ते प्रश्नमिमं ब्रवीमि ॥२-६०-४२॥
द्रौपद्युवाच॥
आहूय राजा कुशलैः सभायां; दुष्टात्मभिर्नैकृतिकैरनार्यैः। द्यूतप्रियैर्नातिकृतप्रयत्नः; कस्मादयं नाम निसृष्टकामः ॥२-६०-४३॥
स शुद्धभावो निकृतिप्रवृत्ति; मबुध्यमानः कुरुपाण्डवाग्र्यः। सम्भूय सर्वैश्च जितोऽपि यस्मा; त्पश्चाच्च यत्कैतवमभ्युपेतः ॥२-६०-४४॥
तिष्ठन्ति चेमे कुरवः सभाया; मीशाः सुतानां च तथा स्नुषाणाम्। समीक्ष्य सर्वे मम चापि वाक्यं; विब्रूत मे प्रश्नमिमं यथावत् ॥२-६०-४५॥
वैशम्पायन उवाच॥
तथा ब्रुवन्तीं करुणं रुदन्ती; मवेक्षमाणामसकृत्पतींस्तान्। दुःशासनः परुषाण्यप्रियाणि; वाक्यान्युवाचामधुराणि चैव ॥२-६०-४६॥
तां कृष्यमाणां च रजस्वलां च; स्रस्तोत्तरीयामतदर्हमाणाम्। वृकोदरः प्रेक्ष्य युधिष्ठिरं च; चकार कोपं परमार्तरूपः ॥२-६०-४७॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.