Mahabharata - Sabha Parva (महाभारत - सभापर्वम्)
02.066
Core-Pancharatra: Succumbing to Duryodhana, Dhritarastra sends messengers to bring back Pandavas for a game of dice.
जनमेजय उवाच॥
अनुज्ञातांस्तान्विदित्वा सरत्नधनसञ्चयान्। पाण्डवान्धार्तराष्ट्राणां कथमासीन्मनस्तदा ॥२-६६-१॥
वैशम्पायन उवाच॥
अनुज्ञातांस्तान्विदित्वा धृतराष्ट्रेण धीमता। राजन्दुःशासनः क्षिप्रं जगाम भ्रातरं प्रति ॥२-६६-२॥
दुर्योधनं समासाद्य सामात्यं भरतर्षभ। दुःखार्तो भरतश्रेष्ठ इदं वचनमब्रवीत् ॥२-६६-३॥
दुःखेनैतत्समानीतं स्थविरो नाशयत्यसौ। शत्रुसाद्गमयद्द्रव्यं तद्बुध्यध्वं महारथाः ॥२-६६-४॥
अथ दुर्योधनः कर्णः शकुनिश्चापि सौबलः। मिथः सङ्गम्य सहिताः पाण्डवान्प्रति मानिनः ॥२-६६-५॥
वैचित्रवीर्यं राजानं धृतराष्ट्रं मनीषिणम्। अभिगम्य त्वरायुक्ताः श्लक्ष्णं वचनमब्रुवन् ॥२-६६-६॥
दुर्योधन उवाच॥
न त्वयेदं श्रुतं राजन्यज्जगाद बृहस्पतिः। शक्रस्य नीतिं प्रवदन्विद्वान्देवपुरोहितः ॥२-६६-७॥
सर्वोपायैर्निहन्तव्याः शत्रवः शत्रुकर्षण। पुरा युद्धाद्बलाद्वापि प्रकुर्वन्ति तवाहितम् ॥२-६६-८॥
ते वयं पाण्डवधनैः सर्वान्सम्पूज्य पार्थिवान्। यदि तान्योधयिष्यामः किं वा नः परिहास्यति ॥२-६६-९॥
अहीनाशीविषान्क्रुद्धान्दंशाय समुपस्थितान्। कृत्वा कण्ठे च पृष्ठे च कः समुत्स्रष्टुमर्हति ॥२-६६-१०॥
आत्तशस्त्रा रथगताः कुपितास्तात पाण्डवाः। निःशेषं नः करिष्यन्ति क्रुद्धा ह्याशीविषा यथा ॥२-६६-११॥
संनद्धो ह्यर्जुनो याति विवृत्य परमेषुधी। गाण्डीवं मुहुरादत्ते निःश्वसंश्च निरीक्षते ॥२-६६-१२॥
गदां गुर्वीं समुद्यम्य त्वरितश्च वृकोदरः। स्वरथं योजयित्वाशु निर्यात इति नः श्रुतम् ॥२-६६-१३॥
नकुलः खड्गमादाय चर्म चाप्यष्टचन्द्रकम्। सहदेवश्च राजा च चक्रुराकारमिङ्गितैः ॥२-६६-१४॥
ते त्वास्थाय रथान्सर्वे बहुशस्त्रपरिच्छदान्। अभिघ्नन्तो रथव्रातान्सेनायोगाय निर्ययुः ॥२-६६-१५॥
न क्षंस्यन्ते तथास्माभिर्जातु विप्रकृता हि ते। द्रौपद्याश्च परिक्लेशं कस्तेषां क्षन्तुमर्हति ॥२-६६-१६॥
पुनर्दीव्याम भद्रं ते वनवासाय पाण्डवैः। एवमेतान्वशे कर्तुं शक्ष्यामो भरतर्षभ ॥२-६६-१७॥
ते वा द्वादश वर्षाणि वयं वा द्यूतनिर्जिताः। प्रविशेम महारण्यमजिनैः प्रतिवासिताः ॥२-६६-१८॥
त्रयोदशं च सजने अज्ञाताः परिवत्सरम्। ज्ञाताश्च पुनरन्यानि वने वर्षाणि द्वादश ॥२-६६-१९॥
निवसेम वयं ते वा तथा द्यूतं प्रवर्तताम्। अक्षानुप्त्वा पुनर्द्यूतमिदं दीव्यन्तु पाण्डवाः ॥२-६६-२०॥
एतत्कृत्यतमं राजन्नस्माकं भरतर्षभ। अयं हि शकुनिर्वेद सविद्यामक्षसम्पदम् ॥२-६६-२१॥
दृढमूला वयं राज्ये मित्राणि परिगृह्य च। सारवद्विपुलं सैन्यं सत्कृत्य च दुरासदम् ॥२-६६-२२॥
ते च त्रयोदशे वर्षे पारयिष्यन्ति चेद्व्रतम्। जेष्यामस्तान्वयं राजन्रोचतां ते परन्तप ॥२-६६-२३॥
धृतराष्ट्र उवाच॥
तूर्णं प्रत्यानयस्वैतान्कामं व्यध्वगतानपि। आगच्छन्तु पुनर्द्यूतमिदं कुर्वन्तु पाण्डवाः ॥२-६६-२४॥
वैशम्पायन उवाच॥
ततो द्रोणः सोमदत्तो बाह्लीकश्च महारथः। विदुरो द्रोणपुत्रश्च वैश्यापुत्रश्च वीर्यवान् ॥२-६६-२५॥
भूरिश्रवाः शान्तनवो विकर्णश्च महारथः। मा द्यूतमित्यभाषन्त शमोऽस्त्विति च सर्वशः ॥२-६६-२६॥
अकामानां च सर्वेषां सुहृदामर्थदर्शिनाम्। अकरोत्पाण्डवाह्वानं धृतराष्ट्रः सुतप्रियः ॥२-६६-२७॥
अथाब्रवीन्महाराज धृतराष्ट्रं जनेश्वरम्। पुत्रहार्दाद्धर्मयुक्तं गान्धारी शोककर्शिता ॥२-६६-२८॥
जाते दुर्योधने क्षत्ता महामतिरभाषत। नीयतां परलोकाय साध्वयं कुलपांसनः ॥२-६६-२९॥
वयनदज्जातमात्रो हि गोमायुरिव भारत। अन्तो नूनं कुलस्यास्य कुरवस्तन्निबोधत ॥२-६६-३०॥
मा बालानामशिष्टानामभिमंस्था मतिं प्रभो। मा कुलस्य क्षये घोरे कारणं त्वं भविष्यसि ॥२-६६-३१॥
बद्धं सेतुं को नु भिन्द्याद्धमेच्छान्तं च पावकम्। शमे धृतान्पुनः पार्थान्कोपयेत्को नु भारत ॥२-६६-३२॥
स्मरन्तं त्वामाजमीढ स्मारयिष्याम्यहं पुनः। शास्त्रं न शास्ति दुर्बुद्धिं श्रेयसे वेतराय वा ॥२-६६-३३॥
न वै वृद्धो बालमतिर्भवेद्राजन्कथञ्चन। त्वन्नेत्राः सन्तु ते पुत्रा मा त्वां दीर्णाः प्रहासिषुः ॥२-६६-३४॥
शमेन धर्मेण परस्य बुद्ध्या; जाता बुद्धिः सास्तु ते मा प्रतीपा। प्रध्वंसिनी क्रूरसमाहिता श्री; र्मृदुप्रौढा गच्छति पुत्रपौत्रान् ॥२-६६-३५॥
अथाब्रवीन्महाराजो गान्धारीं धर्मदर्शिनीम्। अन्तः कामं कुलस्यास्तु न शक्ष्यामि निवारितुम् ॥२-६६-३६॥
यथेच्छन्ति तथैवास्तु प्रत्यागच्छन्तु पाण्डवाः। पुनर्द्यूतं प्रकुर्वन्तु मामकाः पाण्डवैः सह ॥२-६६-३७॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.