02.065
Core-Pancharatra: Pandavas return to Indraprastha asked by Dhritarastra to reconcile with Kurus.
युधिष्ठिर उवाच॥
राजन्किं करवामस्ते प्रशाध्यस्मांस्त्वमीश्वरः। नित्यं हि स्थातुमिच्छामस्तव भारत शासने ॥२-६५-१॥
धृतराष्ट्र उवाच॥
अजातशत्रो भद्रं ते अरिष्टं स्वस्ति गच्छत। अनुज्ञाताः सहधनाः स्वराज्यमनुशासत ॥२-६५-२॥
इदं त्वेवावबोद्धव्यं वृद्धस्य मम शासनम्। धिया निगदितं कृत्स्नं पथ्यं निःश्रेयसं परम् ॥२-६५-३॥
वेत्थ त्वं तात धर्माणां गतिं सूक्ष्मां युधिष्ठिर। विनीतोऽसि महाप्राज्ञ वृद्धानां पर्युपासिता ॥२-६५-४॥
यतो बुद्धिस्ततः शान्तिः प्रशमं गच्छ भारत। नादारौ क्रमते शस्त्रं दारौ शस्त्रं निपात्यते ॥२-६५-५॥
न वैराण्यभिजानन्ति गुणान्पश्यन्ति नागुणान्। विरोधं नाधिगच्छन्ति ये त उत्तमपूरुषाः ॥२-६५-६॥
संवादे परुषाण्याहुर्युधिष्ठिर नराधमाः। प्रत्याहुर्मध्यमास्त्वेतानुक्ताः परुषमुत्तरम् ॥२-६५-७॥
नैवोक्ता नैव चानुक्ता अहिताः परुषा गिरः। प्रतिजल्पन्ति वै धीराः सदा उत्तमपूरुषाः ॥२-६५-८॥
स्मरन्ति सुकृतान्येव न वैराणि कृतान्यपि। सन्तः प्रतिविजानन्तो लब्ध्वा प्रत्ययमात्मनः ॥२-६५-९॥
तथाचरितमार्येण त्वयास्मिन्सत्समागमे। दुर्योधनस्य पारुष्यं तत्तात हृदि मा कृथाः ॥२-६५-१०॥
मातरं चैव गान्धारीं मां च त्वद्गुणकाङ्क्षिणम्। उपस्थितं वृद्धमन्धं पितरं पश्य भारत ॥२-६५-११॥
प्रेक्षापूर्वं मया द्यूतमिदमासीदुपेक्षितम्। मित्राणि द्रष्टुकामेन पुत्राणां च बलाबलम् ॥२-६५-१२॥
अशोच्याः कुरवो राजन्येषां त्वमनुशासिता। मन्त्री च विदुरो धीमान्सर्वशास्त्रविशारदः ॥२-६५-१३॥
त्वयि धर्मोऽर्जुने वीर्यं भीमसेने पराक्रमः। श्रद्धा च गुरुशुश्रूषा यमयोः पुरुषाग्र्ययोः ॥२-६५-१४॥
अजातशत्रो भद्रं ते खाण्डवप्रस्थमाविश। भ्रातृभिस्तेऽस्तु सौभ्रात्रं धर्मे ते धीयतां मनः ॥२-६५-१५॥
वैशम्पायन उवाच॥
इत्युक्तो भरतश्रेष्ठो धर्मराजो युधिष्ठिरः। कृत्वार्यसमयं सर्वं प्रतस्थे भ्रातृभिः सह ॥२-६५-१६॥
ते रथान्मेघसङ्काशानास्थाय सह कृष्णया। प्रययुर्हृष्टमनस इन्द्रप्रस्थं पुरोत्तमम् ॥२-६५-१७॥