Mahabharata - Sabha Parva (महाभारत - सभापर्वम्)
02.067
Core-Pancharatra: Shakuni wins the game with twelve years of forest and one year of incognito at stake.
वैशम्पायन उवाच॥
ततो व्यध्वगतं पार्थं प्रातिकामी युधिष्ठिरम्। उवाच वचनाद्राज्ञो धृतराष्ट्रस्य धीमतः ॥२-६७-१॥
उपस्तीर्णा सभा राजन्नक्षानुप्त्वा युधिष्ठिर। एहि पाण्डव दीव्येति पिता त्वामाह भारत ॥२-६७-२॥
युधिष्ठिर उवाच॥
धातुर्नियोगाद्भूतानि प्राप्नुवन्ति शुभाशुभम्। न निवृत्तिस्तयोरस्ति देवितव्यं पुनर्यदि ॥२-६७-३॥
अक्षद्यूते समाह्वानं नियोगात्स्थविरस्य च। जानन्नपि क्षयकरं नातिक्रमितुमुत्सहे ॥२-६७-४॥
वैशम्पायन उवाच॥
इति ब्रुवन्निववृते भ्रातृभिः सह पाण्डवः। जानंश्च शकुनेर्मायां पार्थो द्यूतमियात्पुनः ॥२-६७-५॥
विविशुस्ते सभां तां तु पुनरेव महारथाः। व्यथयन्ति स्म चेतांसि सुहृदां भरतर्षभाः ॥२-६७-६॥
यथोपजोषमासीनाः पुनर्द्यूतप्रवृत्तये। सर्वलोकविनाशाय दैवेनोपनिपीडिताः ॥२-६७-७॥
शकुनिरुवाच॥
अमुञ्चत्स्थविरो यद्वो धनं पूजितमेव तत्। महाधनं ग्लहं त्वेकं शृणु मे भरतर्षभ ॥२-६७-८॥
वयं द्वादश वर्षाणि युष्माभिर्द्यूतनिर्जिताः। प्रविशेम महारण्यं रौरवाजिनवाससः ॥२-६७-९॥
त्रयोदशं च सजने अज्ञाताः परिवत्सरम्। ज्ञाताश्च पुनरन्यानि वने वर्षाणि द्वादश ॥२-६७-१०॥
अस्माभिर्वा जिता यूयं वने वर्षाणि द्वादश। वसध्वं कृष्णया सार्धमजिनैः प्रतिवासिताः ॥२-६७-११॥
त्रयोदशे च निर्वृत्ते पुनरेव यथोचितम्। स्वराज्यं प्रतिपत्तव्यमितरैरथ वेतरैः ॥२-६७-१२॥
अनेन व्यवसायेन सहास्माभिर्युधिष्ठिर। अक्षानुप्त्वा पुनर्द्यूतमेहि दीव्यस्व भारत ॥२-६७-१३॥
सभासद ऊचुः॥
अहो धिग्बान्धवा नैनं बोधयन्ति महद्भयम्। बुद्ध्या बोध्यं न बुध्यन्ते स्वयं च भरतर्षभाः ॥२-६७-१४॥
वैशम्पायन उवाच॥
जनप्रवादान्सुबहूनिति शृण्वन्नराधिपः। ह्रिया च धर्मसङ्गाच्च पार्थो द्यूतमियात्पुनः ॥२-६७-१५॥
जानन्नपि महाबुद्धिः पुनर्द्यूतमवर्तयत्। अप्ययं न विनाशः स्यात्कुरूणामिति चिन्तयन् ॥२-६७-१६॥
युधिष्ठिर उवाच॥
कथं वै मद्विधो राजा स्वधर्ममनुपालयन्। आहूतो विनिवर्तेत दीव्यामि शकुने त्वया ॥२-६७-१७॥
शकुनिरुवाच॥
गवाश्वं बहुधेनूकमपर्यन्तमजाविकम्। गजाः कोशो हिरण्यं च दासीदासं च सर्वशः ॥२-६७-१८॥
एष नो ग्लह एवैको वनवासाय पाण्डवाः। यूयं वयं वा विजिता वसेम वनमाश्रिताः ॥२-६७-१९॥
अनेन व्यवसायेन दीव्याम भरतर्षभ। समुत्क्षेपेण चैकेन वनवासाय भारत ॥२-६७-२०॥
वैशम्पायन उवाच॥
प्रतिजग्राह तं पार्थो ग्लहं जग्राह सौबलः। जितमित्येव शकुनिर्युधिष्ठिरमभाषत ॥२-६७-२१॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.