Mahabharata - Sabha Parva (महाभारत - सभापर्वम्)
02.071
Pancharatra: Vidura’s description of Pandavas departure.
धृतराष्ट्र उवाच॥
कथं गच्छति कौन्तेयो धर्मराजो युधिष्ठिरः। भीमसेनः सव्यसाची माद्रीपुत्रौ च तावुभौ ॥२-७१-१॥
धौम्यश्चैव कथं क्षत्तर्द्रौपदी वा तपस्विनी। श्रोतुमिच्छाम्यहं सर्वं तेषामङ्गविचेष्टितम् ॥२-७१-२॥
विदुर उवाच॥
वस्त्रेण संवृत्य मुखं कुन्तीपुत्रो युधिष्ठिरः। बाहू विशालौ कृत्वा तु भीमो गच्छति पाण्डवः ॥२-७१-३॥
सिकता वपन्सव्यसाची राजानमनुगच्छति। माद्रीपुत्रः सहदेवो मुखमालिप्य गच्छति ॥२-७१-४॥
पांसूपलिप्तसर्वाङ्गो नकुलश्चित्तविह्वलः। दर्शनीयतमो लोके राजानमनुगच्छति ॥२-७१-५॥
कृष्णा केशैः प्रतिच्छाद्य मुखमायतलोचना। दर्शनीया प्ररुदती राजानमनुगच्छति ॥२-७१-६॥
धौम्यो याम्यानि सामानि रौद्राणि च विशां पते। गायन्गच्छति मार्गेषु कुशानादाय पाणिना ॥२-७१-७॥
धृतराष्ट्र उवाच॥
विविधानीह रूपाणि कृत्वा गच्छन्ति पाण्डवाः। तन्ममाचक्ष्व विदुर कस्मादेवं व्रजन्ति ते ॥२-७१-८॥
विदुर उवाच॥
निकृतस्यापि ते पुत्रैर्हृते राज्ये धनेषु च। न धर्माच्चलते बुद्धिर्धर्मराजस्य धीमतः ॥२-७१-९॥
योऽसौ राजा घृणी नित्यं धार्तराष्ट्रेषु भारत। निकृत्या क्रोधसन्तप्तो नोन्मीलयति लोचने ॥२-७१-१०॥
नाहं जनं निर्दहेयं दृष्ट्वा घोरेण चक्षुषा। स पिधाय मुखं राजा तस्माद्गच्छति पाण्डवः ॥२-७१-११॥
यथा च भीमो व्रजति तन्मे निगदतः शृणु। बाह्वोर्बले नास्ति समो ममेति भरतर्षभ ॥२-७१-१२॥
बाहू विशालौ कृत्वा तु तेन भीमोऽपि गच्छति। बाहू दर्शयमानो हि बाहुद्रविणदर्पितः ॥ चिकीर्षन्कर्म शत्रुभ्यो बाहुद्रव्यानुरूपतः ॥२-७१-१३॥
प्रदिशञ्शरसम्पातान्कुन्तीपुत्रोऽर्जुनस्तदा। सिकता वपन्सव्यसाची राजानमनुगच्छति ॥२-७१-१४॥
असक्ताः सिकतास्तस्य यथा सम्प्रति भारत। असक्तं शरवर्षाणि तथा मोक्ष्यति शत्रुषु ॥२-७१-१५॥
न मे कश्चिद्विजानीयान्मुखमद्येति भारत। मुखमालिप्य तेनासौ सहदेवोऽपि गच्छति ॥२-७१-१६॥
नाहं मनांस्याददेयं मार्गे स्त्रीणामिति प्रभो। पांसूपचितसर्वाङ्गो नकुलस्तेन गच्छति ॥२-७१-१७॥
एकवस्त्रा तु रुदती मुक्तकेशी रजस्वला। शोणिताक्तार्द्रवसना द्रौपदी वाक्यमब्रवीत् ॥२-७१-१८॥
यत्कृतेऽहमिमां प्राप्ता तेषां वर्षे चतुर्दशे। हतपत्यो हतसुता हतबन्धुजनप्रियाः ॥२-७१-१९॥
बन्धुशोणितदिग्धाङ्ग्यो मुक्तकेश्यो रजस्वलाः। एवं कृतोदका नार्यः प्रवेक्ष्यन्ति गजाह्वयम् ॥२-७१-२०॥
कृत्वा तु नैरृतान्दर्भान्धीरो धौम्यः पुरोहितः। सामानि गायन्याम्यानि पुरतो याति भारत ॥२-७१-२१॥
हतेषु भारतेष्वाजौ कुरूणां गुरवस्तदा। एवं सामानि गास्यन्तीत्युक्त्वा धौम्योऽपि गच्छति ॥२-७१-२२॥
हा हा गच्छन्ति नो नाथाः समवेक्षध्वमीदृशम्। इति पौराः सुदुःखार्ताः क्रोशन्ति स्म समन्ततः ॥२-७१-२३॥
एवमाकारलिङ्गैस्ते व्यवसायं मनोगतम्। कथयन्तः स्म कौन्तेया वनं जग्मुर्मनस्विनः ॥२-७१-२४॥
एवं तेषु नराग्र्येषु निर्यत्सु गजसाह्वयात्। अनभ्रे विद्युतश्चासन्भूमिश्च समकम्पत ॥२-७१-२५॥
राहुरग्रसदादित्यमपर्वणि विशां पते। उल्का चाप्यपसव्यं तु पुरं कृत्वा व्यशीर्यत ॥२-७१-२६॥
प्रव्याहरन्ति क्रव्यादा गृध्रगोमायुवायसाः। देवायतनचैत्येषु प्राकाराट्टालकेषु च ॥२-७१-२७॥
एवमेते महोत्पाता वनं गच्छति पाण्डवे। भारतानामभावाय राजन्दुर्मन्त्रिते तव ॥२-७१-२८॥
नारदश्च सभामध्ये कुरूणामग्रतः स्थितः। महर्षिभिः परिवृतो रौद्रं वाक्यमुवाच ह ॥२-७१-२९॥
इतश्चतुर्दशे वर्षे विनङ्क्ष्यन्तीह कौरवाः। दुर्योधनापराधेन भीमार्जुनबलेन च ॥२-७१-३०॥
इत्युक्त्वा दिवमाक्रम्य क्षिप्रमन्तरधीयत। ब्राह्मीं श्रियं सुविपुलां बिभ्रद्देवर्षिसत्तमः ॥२-७१-३१॥
ततो दुर्योधनः कर्णः शकुनिश्चापि सौबलः। द्रोणं द्वीपममन्यन्त राज्यं चास्मै न्यवेदयन् ॥२-७१-३२॥
अथाब्रवीत्ततो द्रोणो दुर्योधनममर्षणम्। दुःशासनं च कर्णं च सर्वानेव च भारतान् ॥२-७१-३३॥
अवध्यान्पाण्डवानाहुर्देवपुत्रान्द्विजातयः। अहं तु शरणं प्राप्तान्वर्तमानो यथाबलम् ॥२-७१-३४॥
गतान्सर्वात्मना भक्त्या धार्तराष्ट्रान्सराजकान्। नोत्सहे समभित्यक्तुं दैवमूलमतः परम् ॥२-७१-३५॥
धर्मतः पाण्डुपुत्रा वै वनं गच्छन्ति निर्जिताः। ते च द्वादश वर्षाणि वने वत्स्यन्ति कौरवाः ॥२-७१-३६॥
चरितब्रह्मचर्याश्च क्रोधामर्षवशानुगाः। वैरं प्रत्यानयिष्यन्ति मम दुःखाय पाण्डवाः ॥२-७१-३७॥
मया तु भ्रंशितो राज्याद्द्रुपदः सखिविग्रहे। पुत्रार्थमयजत्क्रोधाद्वधाय मम भारत ॥२-७१-३८॥
याजोपयाजतपसा पुत्रं लेभे स पावकात्। धृष्टद्युम्नं द्रौपदीं च वेदीमध्यात्सुमध्यमाम् ॥२-७१-३९॥
ज्वालावर्णो देवदत्तो धनुष्मान्कवची शरी। मर्त्यधर्मतया तस्मादिति मां भयमाविशत् ॥२-७१-४०॥
गतो हि पक्षतां तेषां पार्षतः पुरुषर्षभः। सृष्टप्राणो भृशतरं तस्माद्योत्स्ये तवारिभिः ॥२-७१-४१॥
मद्वधाय श्रुतो ह्येष लोके चाप्यतिविश्रुतः। नूनं सोऽयमनुप्राप्तस्त्वत्कृते कालपर्ययः ॥२-७१-४२॥
त्वरिताः कुरुत श्रेयो नैतदेतावता कृतम्। मुहूर्तं सुखमेवैतत्तालच्छायेव हैमनी ॥२-७१-४३॥
यजध्वं च महायज्ञैर्भोगानश्नीत दत्त च। इतश्चतुर्दशे वर्षे महत्प्राप्स्यथ वैशसम् ॥२-७१-४४॥
दुर्योधन निशम्यैतत्प्रतिपद्य यथेच्छसि। साम वा पाण्डवेयेषु प्रयुङ्क्ष्व यदि मन्यसे ॥२-७१-४५॥
वैशम्पायन उवाच॥
द्रोणस्य वचनं श्रुत्वा धृतराष्ट्रोऽब्रवीदिदम्। सम्यगाह गुरुः क्षत्तरुपावर्तय पाण्डवान् ॥२-७१-४६॥
यदि वा न निवर्तन्ते सत्कृता यान्तु पाण्डवाः। सशस्त्ररथपादाता भोगवन्तश्च पुत्रकाः ॥२-७१-४७॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.