02.070
Core-Pancharatra: Kunti’s lamentation seeing Draupadi and Pandavas.
वैशम्पायन उवाच॥
तस्मिन्सम्प्रस्थिते कृष्णा पृथां प्राप्य यशस्विनीम्। आपृच्छद्भृशदुःखार्ता याश्चान्यास्तत्र योषितः ॥२-७०-१॥
यथार्हं वन्दनाश्लेषान्कृत्वा गन्तुमियेष सा। ततो निनादः सुमहान्पाण्डवान्तःपुरेऽभवत् ॥२-७०-२॥
कुन्ती च भृशसन्तप्ता द्रौपदीं प्रेक्ष्य गच्छतीम्। शोकविह्वलया वाचा कृच्छ्राद्वचनमब्रवीत् ॥२-७०-३॥
वत्से शोको न ते कार्यः प्राप्येदं व्यसनं महत्। स्त्रीधर्माणामभिज्ञासि शीलाचारवती तथा ॥२-७०-४॥
न त्वां संदेष्टुमर्हामि भर्तॄन्प्रति शुचिस्मिते। साध्वीगुणसमाधानैर्भूषितं ते कुलद्वयम् ॥२-७०-५॥
सभाग्याः कुरवश्चेमे ये न दग्धास्त्वयानघे। अरिष्टं व्रज पन्थानं मदनुध्यानबृंहिता ॥२-७०-६॥
भाविन्यर्थे हि सत्स्त्रीणां वैक्लव्यं नोपजायते। गुरुधर्माभिगुप्ता च श्रेयः क्षिप्रमवाप्स्यसि ॥२-७०-७॥
सहदेवश्च मे पुत्रः सदावेक्ष्यो वने वसन्। यथेदं व्यसनं प्राप्य नास्य सीदेन्महन्मनः ॥२-७०-८॥
तथेत्युक्त्वा तु सा देवी स्रवन्नेत्रजलाविला। शोणिताक्तैकवसना मुक्तकेश्यभिनिर्ययौ ॥२-७०-९॥
तां क्रोशन्तीं पृथा दुःखादनुवव्राज गच्छतीम्। अथापश्यत्सुतान्सर्वान्हृताभरणवाससः ॥२-७०-१०॥
रुरुचर्मावृततनून्ह्रिया किञ्चिदवाङ्मुखान्। परैः परीतान्संहृष्टैः सुहृद्भिश्चानुशोचितान् ॥२-७०-११॥
तदवस्थान्सुतान्सर्वानुपसृत्यातिवत्सला। सस्वजानावदच्छोकात्तत्तद्विलपती बहु ॥२-७०-१२॥
कथं सद्धर्मचारित्रवृत्तस्थितिविभूषितान्। अक्षुद्रान्दृढभक्तांश्च दैवतेज्यापरान्सदा ॥२-७०-१३॥
व्यसनं वः समभ्यागात्कोऽयं विधिविपर्ययः। कस्यापध्यानजं चेदमागः पश्यामि वो धिया ॥२-७०-१४॥
स्यात्तु मद्भाग्यदोषोऽयं याहं युष्मानजीजनम्। दुःखायासभुजोऽत्यर्थं युक्तानप्युत्तमैर्गुणैः ॥२-७०-१५॥
कथं वत्स्यथ दुर्गेषु वनेष्वृद्धिविनाकृताः। वीर्यसत्त्वबलोत्साहतेजोभिरकृशाः कृशाः ॥२-७०-१६॥
यद्येतदहमज्ञास्यं वनवासो हि वो ध्रुवम्। शतशृङ्गान्मृते पाण्डौ नागमिष्यं गजाह्वयम् ॥२-७०-१७॥
धन्यं वः पितरं मन्ये तपोमेधान्वितं तथा। यः पुत्राधिमसम्प्राप्य स्वर्गेच्छामकरोत्प्रियाम् ॥२-७०-१८॥
धन्यां चातीन्द्रियज्ञानामिमां प्राप्तां परां गतिम्। मन्येऽद्य माद्रीं धर्मज्ञां कल्याणीं सर्वथैव हि ॥२-७०-१९॥
रत्या मत्या च गत्या च ययाहमभिसन्धिता। जीवितप्रियतां मह्यं धिगिमां क्लेशभागिनीम् ॥२-७०-२०॥
एवं विलपतीं कुन्तीमभिसान्त्व्य प्रणम्य च। पाण्डवा विगतानन्दा वनायैव प्रवव्रजुः ॥२-७०-२१॥
विदुरादयश्च तामार्तां कुन्तीमाश्वास्य हेतुभिः। प्रावेशयन्गृहं क्षत्तुः स्वयमार्ततराः शनैः ॥२-७०-२२॥
राजा च धृतराष्ट्रः स शोकाकुलितचेतनः। क्षत्तुः सम्प्रेषयामास शीघ्रमागम्यतामिति ॥२-७०-२३॥
ततो जगाम विदुरो धृतराष्ट्रनिवेशनम्। तं पर्यपृच्छत्संविग्नो धृतराष्ट्रो नराधिपः ॥२-७०-२४॥