02.072
Core-Pancharatra: Vidura’s description of Pandavas departure.
वैशम्पायन उवाच॥
वनं गतेषु पार्थेषु निर्जितेषु दुरोदरे। धृतराष्ट्रं महाराज तदा चिन्ता समाविशत् ॥२-७२-१॥
तं चिन्तयानमासीनं धृतराष्ट्रं जनेश्वरम्। निःश्वसन्तमनेकाग्रमिति होवाच सञ्जयः ॥२-७२-२॥
अवाप्य वसुसम्पूर्णां वसुधां वसुधाधिप। प्रव्राज्य पाण्डवान्राज्याद्राजन्किमनुशोचसि ॥२-७२-३॥
धृतराष्ट्र उवाच॥
अशोच्यं तु कुतस्तेषां येषां वैरं भविष्यति। पाण्डवैर्युद्धशौण्डैर्हि मित्रवद्भिर्महारथैः ॥२-७२-४॥
सञ्जय उवाच॥
तवेदं सुकृतं राजन्महद्वैरं भविष्यति। विनाशः सर्वलोकस्य सानुबन्धो भविष्यति ॥२-७२-५॥
वार्यमाणोऽपि भीष्मेण द्रोणेन विदुरेण च। पाण्डवानां प्रियां भार्यां द्रौपदीं धर्मचारिणीम् ॥२-७२-६॥
प्राहिणोदानयेहेति पुत्रो दुर्योधनस्तव। सूतपुत्रं सुमन्दात्मा निर्लज्जः प्रातिकामिनम् ॥२-७२-७॥
धृतराष्ट्र उवाच॥
यस्मै देवाः प्रयच्छन्ति पुरुषाय पराभवम्। बुद्धिं तस्यापकर्षन्ति सोऽपाचीनानि पश्यति ॥२-७२-८॥
बुद्धौ कलुषभूतायां विनाशे प्रत्युपस्थिते। अनयो नयसङ्काशो हृदयान्नापसर्पति ॥२-७२-९॥
अनर्थाश्चार्थरूपेण अर्थाश्चानर्थरूपिणः। उत्तिष्ठन्ति विनाशान्ते नरं तच्चास्य रोचते ॥२-७२-१०॥
न कालो दण्डमुद्यम्य शिरः कृन्तति कस्यचित्। कालस्य बलमेतावद्विपरीतार्थदर्शनम् ॥२-७२-११॥
आसादितमिदं घोरं तुमुलं लोमहर्षणम्। पाञ्चालीमपकर्षद्भिः सभामध्ये तपस्विनीम् ॥२-७२-१२॥
अयोनिजां रूपवतीं कुले जातां विभावरीम्। को नु तां सर्वधर्मज्ञां परिभूय यशस्विनीम् ॥२-७२-१३॥
पर्यानयेत्सभामध्यमृते दुर्द्यूतदेविनम्। स्त्रीधर्मिणीं वरारोहां शोणितेन समुक्षिताम् ॥२-७२-१४॥
एकवस्त्रां च पाञ्चालीं पाण्डवानभ्यवेक्षतीम्। हृतस्वान्भ्रष्टचित्तांस्तान्हृतदारान्हृतश्रियः ॥२-७२-१५॥
विहीनान्सर्वकामेभ्यो दासभाववशं गतान्। धर्मपाशपरिक्षिप्तानशक्तानिव विक्रमे ॥२-७२-१६॥
क्रुद्धाममर्षितां कृष्णां दुःखितां कुरुसंसदि। दुर्योधनश्च कर्णश्च कटुकान्यभ्यभाषताम् ॥२-७२-१७॥
तस्याः कृपणचक्षुर्भ्यां प्रदह्येतापि मेदिनी। अपि शेषं भवेदद्य पुत्राणां मम सञ्जय ॥२-७२-१८॥
भारतानां स्त्रियः सर्वा गान्धार्या सह सङ्गताः। प्राक्रोशन्भैरवं तत्र दृष्ट्वा कृष्णां सभागताम् ॥२-७२-१९॥
अग्निहोत्राणि सायाह्ने न चाहूयन्त सर्वशः। ब्राह्मणाः कुपिताश्चासन्द्रौपद्याः परिकर्षणे ॥२-७२-२०॥
आसीन्निष्टानको घोरो निर्घातश्च महानभूत्। दिवोल्काश्चापतन्घोरा राहुश्चार्कमुपाग्रसत् ॥ अपर्वणि महाघोरं प्रजानां जनयन्भयम् ॥२-७२-२१॥
तथैव रथशालासु प्रादुरासीद्धुताशनः। ध्वजाश्च व्यवशीर्यन्त भरतानामभूतये ॥२-७२-२२॥
दुर्योधनस्याग्निहोत्रे प्राक्रोशन्भैरवं शिवाः। तास्तदा प्रत्यभाषन्त रासभाः सर्वतोदिशम् ॥२-७२-२३॥
प्रातिष्ठत ततो भीष्मो द्रोणेन सह सञ्जय। कृपश्च सोमदत्तश्च बाह्लीकश्च महारथः ॥२-७२-२४॥
ततोऽहमब्रुवं तत्र विदुरेण प्रचोदितः। वरं ददानि कृष्णायै काङ्क्षितं यद्यदिच्छति ॥२-७२-२५॥
अवृणोत्तत्र पाञ्चाली पाण्डवानमितौजसः। सरथान्सधनुष्कांश्चाप्यनुज्ञासिषमप्यहम् ॥२-७२-२६॥
अथाब्रवीन्महाप्राज्ञो विदुरः सर्वधर्मवित्। एतदन्ताः स्थ भरता यद्वः कृष्णा सभां गता ॥२-७२-२७॥
एषा पाञ्चालराजस्य सुतैषा श्रीरनुत्तमा। पाञ्चाली पाण्डवानेतान्दैवसृष्टोपसर्पति ॥२-७२-२८॥
तस्याः पार्थाः परिक्लेशं न क्षंस्यन्तेऽत्यमर्षणाः। वृष्णयो वा महेष्वासाः पाञ्चाला वा महौजसः ॥२-७२-२९॥
तेन सत्याभिसन्धेन वासुदेवेन रक्षिताः। आगमिष्यति बीभत्सुः पाञ्चालैरभिरक्षितः ॥२-७२-३०॥
तेषां मध्ये महेष्वासो भीमसेनो महाबलः। आगमिष्यति धुन्वानो गदां दण्डमिवान्तकः ॥२-७२-३१॥
ततो गाण्डीवनिर्घोषं श्रुत्वा पार्थस्य धीमतः। गदावेगं च भीमस्य नालं सोढुं नराधिपाः ॥२-७२-३२॥
तत्र मे रोचते नित्यं पार्थैः सार्धं न विग्रहः। कुरुभ्यो हि सदा मन्ये पाण्डवाञ्शक्तिमत्तरान् ॥२-७२-३३॥
तथा हि बलवान्राजा जरासन्धो महाद्युतिः। बाहुप्रहरणेनैव भीमेन निहतो युधि ॥२-७२-३४॥
तस्य ते शम एवास्तु पाण्डवैर्भरतर्षभ। उभयोः पक्षयोर्युक्तं क्रियतामविशङ्कया ॥२-७२-३५॥
एवं गावल्गणे क्षत्ता धर्मार्थसहितं वचः। उक्तवान्न गृहीतं च मया पुत्रहितेप्सया ॥२-७२-३६॥