Mahabharata - Aranyaka Parva (महाभारत - आरण्यकपर्वम्)
03.001
Core-Pancharatra: Citizens bid farewell to Pandavas.
जनमेजय उवाच॥
श्राविताः परुषा वाचः सृजद्भिर्वैरमुत्तमम्। किमकुर्वन्त कौरव्या मम पूर्वपितामहाः ॥३-१-२॥
कथं चैश्वर्यविभ्रष्टाः सहसा दुःखमेयुषः। वने विजह्रिरे पार्थाः शक्रप्रतिमतेजसः ॥३-१-३॥
के चैनानन्ववर्तन्त प्राप्तान्व्यसनमुत्तमम्। किमाहाराः किमाचाराः क्व च वासो महात्मनाम् ॥३-१-४॥
कथं द्वादश वर्षाणि वने तेषां महात्मनाम्। व्यतीयुर्ब्राह्मणश्रेष्ठ शूराणामरिघातिनाम् ॥३-१-५॥
कथं च राजपुत्री सा प्रवरा सर्वयोषिताम्। पतिव्रता महाभागा सततं सत्यवादिनी ॥ वनवासमदुःखार्हा दारुणं प्रत्यपद्यत ॥३-१-६॥
एतदाचक्ष्व मे सर्वं विस्तरेण तपोधन। श्रोतुमिच्छामि चरितं भूरिद्रविणतेजसाम् ॥ कथ्यमानं त्वया विप्र परं कौतूहलं हि मे ॥३-१-७॥
वैशम्पायन उवाच॥
एवं द्यूतजिताः पार्थाः कोपिताश्च दुरात्मभिः। धार्तराष्ट्रैः सहामात्यैर्निर्ययुर्गजसाह्वयात् ॥३-१-८॥
वर्धमानपुरद्वारेणाभिनिष्क्रम्य ते तदा। उदङ्मुखाः शस्त्रभृतः प्रययुः सह कृष्णया ॥३-१-९॥
इन्द्रसेनादयश्चैनान्भृत्याः परिचतुर्दश। रथैरनुययुः शीघ्रैः स्त्रिय आदाय सर्वशः ॥३-१-१०॥
व्रजतस्तान्विदित्वा तु पौराः शोकाभिपीडिताः। गर्हयन्तोऽसकृद्भीष्मविदुरद्रोणगौतमान् ॥ ऊचुर्विगतसन्त्रासाः समागम्य परस्परम् ॥३-१-११॥
नेदमस्ति कुलं सर्वं न वयं न च नो गृहाः। यत्र दुर्योधनः पापः सौबलेयेन पालितः ॥ कर्णदुःशासनाभ्यां च राज्यमेतच्चिकीर्षति ॥३-१-१२॥
नो चेत्कुलं न चाचारो न धर्मोऽर्थः कुतः सुखम्। यत्र पापसहायोऽयं पापो राज्यं बुभूषते ॥३-१-१३॥
दुर्योधनो गुरुद्वेषी त्यक्ताचारसुहृज्जनः। अर्थलुब्धोऽभिमानी च नीचः प्रकृतिनिर्घृणः ॥३-१-१४॥
नेयमस्ति मही कृत्स्ना यत्र दुर्योधनो नृपः। साधु गच्छामहे सर्वे यत्र गच्छन्ति पाण्डवाः ॥३-१-१५॥
सानुक्रोशा महात्मानो विजितेन्द्रियशत्रवः। ह्रीमन्तः कीर्तिमन्तश्च धर्माचारपरायणाः ॥३-१-१६॥
एवमुक्त्वानुजग्मुस्तान्पाण्डवांस्ते समेत्य च। ऊचुः प्राञ्जलयः सर्वे तान्कुन्तीमाद्रिनन्दनान् ॥३-१-१७॥
क्व गमिष्यथ भद्रं वस्त्यक्त्वास्मान्दुःखभागिनः। वयमप्यनुयास्यामो यत्र यूयं गमिष्यथ ॥३-१-१८॥
अधर्मेण जिताञ्श्रुत्वा युष्मांस्त्यक्तघृणैः परैः। उद्विग्नाः स्म भृशं सर्वे नास्मान्हातुमिहार्हथ ॥३-१-१९॥
भक्तानुरक्ताः सुहृदः सदा प्रियहिते रतान्। कुराजाधिष्ठिते राज्ये न विनश्येम सर्वशः ॥३-१-२०॥
श्रूयतां चाभिधास्यामो गुणदोषान्नरर्षभाः। शुभाशुभाधिवासेन संसर्गं कुरुते यथा ॥३-१-२१॥
वस्त्रमापस्तिलान्भूमिं गन्धो वासयते यथा। पुष्पाणामधिवासेन तथा संसर्गजा गुणाः ॥३-१-२२॥
मोहजालस्य योनिर्हि मूढैरेव समागमः। अहन्यहनि धर्मस्य योनिः साधुसमागमः ॥३-१-२३॥
तस्मात्प्राज्ञैश्च वृद्धैश्च सुस्वभावैस्तपस्विभिः। सद्भिश्च सह संसर्गः कार्यः शमपरायणैः ॥३-१-२४॥
येषां त्रीण्यवदातानि योनिर्विद्या च कर्म च। तान्सेवेत्तैः समास्या हि शास्त्रेभ्योऽपि गरीयसी ॥३-१-२५॥
निरारम्भा ह्यपि वयं पुण्यशीलेषु साधुषु। पुण्यमेवाप्नुयामेह पापं पापोपसेवनात् ॥३-१-२६॥
असतां दर्शनात्स्पर्शात्सञ्जल्पनसहासनात्। धर्माचाराः प्रहीयन्ते न च सिध्यन्ति मानवाः ॥३-१-२७॥
बुद्धिश्च हीयते पुंसां नीचैः सह समागमात्। मध्यमैर्मध्यतां याति श्रेष्ठतां याति चोत्तमैः ॥३-१-२८॥
ये गुणाः कीर्तिता लोके धर्मकामार्थसम्भवाः। लोकाचारात्मसम्भूता वेदोक्ताः शिष्टसंमताः ॥३-१-२९॥
ते युष्मासु समस्ताश्च व्यस्ताश्चैवेह सद्गुणाः। इच्छामो गुणवन्मध्ये वस्तुं श्रेयोऽभिकाङ्क्षिणः ॥३-१-३०॥
युधिष्ठिर उवाच॥
धन्या वयं यदस्माकं स्नेहकारुण्ययन्त्रिताः। असतोऽपि गुणानाहुर्ब्राह्मणप्रमुखाः प्रजाः ॥३-१-३१॥
तदहं भ्रातृसहितः सर्वान्विज्ञापयामि वः। नान्यथा तद्धि कर्तव्यमस्मत्स्नेहानुकम्पया ॥३-१-३२॥
भीष्मः पितामहो राजा विदुरो जननी च मे। सुहृज्जनश्च प्रायो मे नगरे नागसाह्वये ॥३-१-३३॥
ते त्वस्मद्धितकामार्थं पालनीयाः प्रयत्नतः। युष्माभिः सहितैः सर्वैः शोकसन्तापविह्वलाः ॥३-१-३४॥
निवर्ततागता दूरं समागमनशापिताः। स्वजने न्यासभूते मे कार्या स्नेहान्विता मतिः ॥३-१-३५॥
एतद्धि मम कार्याणां परमं हृदि संस्थितम्। सुकृतानेन मे तुष्टिः सत्कारश्च भविष्यति ॥३-१-३६॥
वैशम्पायन उवाच॥
तथानुमन्त्रितास्तेन धर्मराजेन ताः प्रजाः। चक्रुरार्तस्वरं घोरं हा राजन्निति दुःखिताः ॥३-१-३७॥
गुणान्पार्थस्य संस्मृत्य दुःखार्ताः परमातुराः। अकामाः संन्यवर्तन्त समागम्याथ पाण्डवान् ॥३-१-३८॥
निवृत्तेषु तु पौरेषु रथानास्थाय पाण्डवाः। प्रजग्मुर्जाह्नवीतीरे प्रमाणाख्यं महावटम् ॥३-१-३९॥
तं ते दिवसशेषेण वटं गत्वा तु पाण्डवाः। ऊषुस्तां रजनीं वीराः संस्पृश्य सलिलं शुचि ॥ उदकेनैव तां रात्रिमूषुस्ते दुःखकर्शिताः ॥३-१-४०॥
अनुजग्मुश्च तत्रैतान्स्नेहात्केचिद्द्विजातयः। साग्नयोऽनग्नयश्चैव सशिष्यगणबान्धवाः ॥ स तैः परिवृतो राजा शुशुभे ब्रह्मवादिभिः ॥३-१-४१॥
तेषां प्रादुष्कृताग्नीनां मुहूर्ते रम्यदारुणे। ब्रह्मघोषपुरस्कारः सञ्जल्पः समजायत ॥३-१-४२॥
राजानं तु कुरुश्रेष्ठं ते हंसमधुरस्वराः। आश्वासयन्तो विप्राग्र्याः क्षपां सर्वां व्यनोदयन् ॥३-१-४३॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.