Mahabharata - Aranyaka Parva (महाभारत - आरण्यकपर्वम्)
03.002
Library: Conversation between Yodhisthira and Shaunaka on Sankhya’s detachment, Householder duty, and eightfold path.
वैशम्पायन उवाच॥
प्रभातायां तु शर्वर्यां तेषामक्लिष्टकर्मणाम्। वनं यियासतां विप्रास्तस्थुर्भिक्षाभुजोऽग्रतः ॥ तानुवाच ततो राजा कुन्तीपुत्रो युधिष्ठिरः ॥३-२-१॥
वयं हि हृतसर्वस्वा हृतराज्या हृतश्रियः। फलमूलामिषाहारा वनं यास्याम दुःखिताः ॥३-२-२॥
वनं च दोषबहुलं बहुव्यालसरीसृपम्। परिक्लेशश्च वो मन्ये ध्रुवं तत्र भविष्यति ॥३-२-३॥
ब्राह्मणानां परिक्लेशो दैवतान्यपि सादयेत्। किं पुनर्मामितो विप्रा निवर्तध्वं यथेष्टतः ॥३-२-४॥
ब्राह्मणा ऊचुः॥
गतिर्या भवतां राजंस्तां वयं गन्तुमुद्यताः। नार्हथास्मान्परित्यक्तुं भक्तान्सद्धर्मदर्शिनः ॥३-२-५॥
अनुकम्पां हि भक्तेषु दैवतान्यपि कुर्वते। विशेषतो ब्राह्मणेषु सदाचारावलम्बिषु ॥३-२-६॥
युधिष्ठिर उवाच॥
ममापि परमा भक्तिर्ब्राह्मणेषु सदा द्विजाः। सहायविपरिभ्रंशस्त्वयं सादयतीव माम् ॥३-२-७॥
आहरेयुर्हि मे येऽपि फलमूलमृगांस्तथा। त इमे शोकजैर्दुःखैर्भ्रातरो मे विमोहिताः ॥३-२-८॥
द्रौपद्या विप्रकर्षेण राज्यापहरणेन च। दुःखान्वितानिमान्क्लेशैर्नाहं योक्तुमिहोत्सहे ॥३-२-९॥
ब्राह्मणा ऊचुः॥
अस्मत्पोषणजा चिन्ता मा भूत्ते हृदि पार्थिव। स्वयमाहृत्य वन्यानि अनुयास्यामहे वयम् ॥३-२-१०॥
अनुध्यानेन जप्येन विधास्यामः शिवं तव। कथाभिश्चानुकूलाभिः सह रंस्यामहे वने ॥३-२-११॥
युधिष्ठिर उवाच॥
एवमेतन्न संदेहो रमेयं ब्राह्मणैः सह। न्यूनभावात्तु पश्यामि प्रत्यादेशमिवात्मनः ॥३-२-१२॥
कथं द्रक्ष्यामि वः सर्वान्स्वयमाहृतभोजनान्। मद्भक्त्या क्लिश्यतोऽनर्हान्धिक्पापान्धृतराष्ट्रजान् ॥३-२-१३॥
वैशम्पायन उवाच॥
इत्युक्त्वा स नृपः शोचन्निषसाद महीतले। तमध्यात्मरतिर्विद्वाञ्शौनको नाम वै द्विजः ॥ योगे साङ्ख्ये च कुशलो राजानमिदमब्रवीत् ॥३-२-१४॥
शोकस्थानसहस्राणि भयस्थानशतानि च। दिवसे दिवसे मूढमाविशन्ति न पण्डितम् ॥३-२-१५॥
न हि ज्ञानविरुद्धेषु बहुदोषेषु कर्मसु। श्रेयोघातिषु सज्जन्ते बुद्धिमन्तो भवद्विधाः ॥३-२-१६॥
अष्टाङ्गां बुद्धिमाहुर्यां सर्वाश्रेयोविघातिनीम्। श्रुतिस्मृतिसमायुक्तां सा राजंस्त्वय्यवस्थिता ॥३-२-१७॥
अर्थकृच्छ्रेषु दुर्गेषु व्यापत्सु स्वजनस्य च। शारीरमानसैर्दुःखैर्न सीदन्ति भवद्विधाः ॥३-२-१८॥
श्रूयतां चाभिधास्यामि जनकेन यथा पुरा। आत्मव्यवस्थानकरा गीताः श्लोका महात्मना ॥३-२-१९॥
मनोदेहसमुत्थाभ्यां दुःखाभ्यामर्दितं जगत्। तयोर्व्याससमासाभ्यां शमोपायमिमं शृणु ॥३-२-२०॥
व्याधेरनिष्टसंस्पर्शाच्छ्रमादिष्टविवर्जनात्। दुःखं चतुर्भिः शारीरं कारणैः सम्प्रवर्तते ॥३-२-२१॥
तदाशुप्रतिकाराच्च सततं चाविचिन्तनात्। आधिव्याधिप्रशमनं क्रियायोगद्वयेन तु ॥३-२-२२॥
मतिमन्तो ह्यतो वैद्याः शमं प्रागेव कुर्वते। मानसस्य प्रियाख्यानैः सम्भोगोपनयैर्नृणाम् ॥३-२-२३॥
मानसेन हि दुःखेन शरीरमुपतप्यते। अयःपिण्डेन तप्तेन कुम्भसंस्थमिवोदकम् ॥३-२-२४॥
मानसं शमयेत्तस्माज्ज्ञानेनाग्निमिवाम्बुना। प्रशान्ते मानसे दुःखे शारीरमुपशाम्यति ॥३-२-२५॥
मनसो दुःखमूलं तु स्नेह इत्युपलभ्यते। स्नेहात्तु सज्जते जन्तुर्दुःखयोगमुपैति च ॥३-२-२६॥
स्नेहमूलानि दुःखानि स्नेहजानि भयानि च। शोकहर्षौ तथायासः सर्वं स्नेहात्प्रवर्तते ॥३-२-२७॥
स्नेहात्करणरागश्च प्रजज्ञे वैषयस्तथा। अश्रेयस्कावुभावेतौ पूर्वस्तत्र गुरुः स्मृतः ॥३-२-२८॥
कोटराग्निर्यथाशेषं समूलं पादपं दहेत्। धर्मार्थिनं तथाल्पोऽपि रागदोषो विनाशयेत् ॥३-२-२९॥
विप्रयोगे न तु त्यागी दोषदर्शी समागमात्। विरागं भजते जन्तुर्निर्वैरो निष्परिग्रहः ॥३-२-३०॥
तस्मात्स्नेहं स्वपक्षेभ्यो मित्रेभ्यो धनसञ्चयात्। स्वशरीरसमुत्थं तु ज्ञानेन विनिवर्तयेत् ॥३-२-३१॥
ज्ञानान्वितेषु मुख्येषु शास्त्रज्ञेषु कृतात्मसु। न तेषु सज्जते स्नेहः पद्मपत्रेष्विवोदकम् ॥३-२-३२॥
रागाभिभूतः पुरुषः कामेन परिकृष्यते। इच्छा सञ्जायते तस्य ततस्तृष्णा प्रवर्तते ॥३-२-३३॥
तृष्णा हि सर्वपापिष्ठा नित्योद्वेगकरी नृणाम्। अधर्मबहुला चैव घोरा पापानुबन्धिनी ॥३-२-३४॥
या दुस्त्यजा दुर्मतिभिर्या न जीर्यति जीर्यतः। योऽसौ प्राणान्तिको रोगस्तां तृष्णां त्यजतः सुखम् ॥३-२-३५॥
अनाद्यन्ता तु सा तृष्णा अन्तर्देहगता नृणाम्। विनाशयति सम्भूता अयोनिज इवानलः ॥३-२-३६॥
यथैधः स्वसमुत्थेन वह्निना नाशमृच्छति। तथाकृतात्मा लोभेन सहजेन विनश्यति ॥३-२-३७॥
राजतः सलिलादग्नेश्चोरतः स्वजनादपि। भयमर्थवतां नित्यं मृत्योः प्राणभृतामिव ॥३-२-३८॥
यथा ह्यामिषमाकाशे पक्षिभिः श्वापदैर्भुवि। भक्ष्यते सलिले मत्स्यैस्तथा सर्वेण वित्तवान् ॥३-२-३९॥
अर्थ एव हि केषाञ्चिदनर्थो भविता नृणाम्। अर्थश्रेयसि चासक्तो न श्रेयो विन्दते नरः ॥ तस्मादर्थागमाः सर्वे मनोमोहविवर्धनाः ॥३-२-४०॥
कार्पण्यं दर्पमानौ च भयमुद्वेग एव च। अर्थजानि विदुः प्राज्ञा दुःखान्येतानि देहिनाम् ॥३-२-४१॥
अर्थस्योपार्जने दुःखं पालने च क्षये तथा। नाशे दुःखं व्यये दुःखं घ्नन्ति चैवार्थकारणात् ॥३-२-४२॥
अर्था दुःखं परित्यक्तुं पालिताश्चापि तेऽसुखाः। दुःखेन चाधिगम्यन्ते तेषां नाशं न चिन्तयेत् ॥३-२-४३॥
असन्तोषपरा मूढाः सन्तोषं यान्ति पण्डिताः। अन्तो नास्ति पिपासायाः सन्तोषः परमं सुखम् ॥३-२-४४॥
तस्मात्सन्तोषमेवेह धनं पश्यन्ति पण्डिताः। अनित्यं यौवनं रूपं जीवितं द्रव्यसञ्चयः ॥ ऐश्वर्यं प्रियसंवासो गृध्येदेषु न पण्डितः ॥३-२-४५॥
त्यजेत सञ्चयांस्तस्मात्तज्जं क्लेशं सहेत कः। न हि सञ्चयवान्कश्चिद्दृश्यते निरुपद्रवः ॥३-२-४६॥
अतश्च धर्मिभिः पुम्भिरनीहार्थः प्रशस्यते। प्रक्षालनाद्धि पङ्कस्य दूरादस्पर्शनं वरम् ॥३-२-४७॥
युधिष्ठिरैवमर्थेषु न स्पृहां कर्तुमर्हसि। धर्मेण यदि ते कार्यं विमुक्तेच्छो भवार्थतः ॥३-२-४८॥
युधिष्ठिर उवाच॥
नार्थोपभोगलिप्सार्थमियमर्थेप्सुता मम। भरणार्थं तु विप्राणां ब्रह्मन्काङ्क्षे न लोभतः ॥३-२-४९॥
कथं ह्यस्मद्विधो ब्रह्मन्वर्तमानो गृहाश्रमे। भरणं पालनं चापि न कुर्यादनुयायिनाम् ॥३-२-५०॥
संविभागो हि भूतानां सर्वेषामेव शिष्यते। तथैवापचमानेभ्यः प्रदेयं गृहमेधिना ॥३-२-५१॥
तृणानि भूमिरुदकं वाक्चतुर्थी च सूनृता। सतामेतानि गेहेषु नोच्छिद्यन्ते कदाचन ॥३-२-५२॥
देयमार्तस्य शयनं स्थितश्रान्तस्य चासनम्। तृषितस्य च पानीयं क्षुधितस्य च भोजनम् ॥३-२-५३॥
चक्षुर्दद्यान्मनो दद्याद्वाचं दद्याच्च सूनृताम्। प्रत्युद्गम्याभिगमनं कुर्यान्न्यायेन चार्चनम् ॥३-२-५४॥
अघिहोत्रमनड्वांश्च ज्ञातयोऽतिथिबान्धवाः। पुत्रदारभृताश्चैव निर्दहेयुरपूजिताः ॥३-२-५५॥
नात्मार्थं पाचयेदन्नं न वृथा घातयेत्पशून्। न च तत्स्वयमश्नीयाद्विधिवद्यन्न निर्वपेत् ॥३-२-५६॥
श्वभ्यश्च श्वपचेभ्यश्च वयोभ्यश्चावपेद्भुवि। वैश्वदेवं हि नामैतत्सायम्प्रातर्विधीयते ॥३-२-५७॥
विघसाशी भवेत्तस्मान्नित्यं चामृतभोजनः। विघसं भृत्यशेषं तु यज्ञशेषं तथामृतम् ॥३-२-५८॥
एतां यो वर्तते वृत्तिं वर्तमानो गृहाश्रमे। तस्य धर्मं परं प्राहुः कथं वा विप्र मन्यसे ॥३-२-५९॥
शौनक उवाच॥
अहो बत महत्कष्टं विपरीतमिदं जगत्। येनापत्रपते साधुरसाधुस्तेन तुष्यति ॥३-२-६०॥
शिश्नोदरकृतेऽप्राज्ञः करोति विघसं बहु। मोहरागसमाक्रान्त इन्द्रियार्थवशानुगः ॥३-२-६१॥
ह्रियते बुध्यमानोऽपि नरो हारिभिरिन्द्रियैः। विमूढसञ्ज्ञो दुष्टाश्वैरुद्भ्रान्तैरिव सारथिः ॥३-२-६२॥
षडिन्द्रियाणि विषयं समागच्छन्ति वै यदा। तदा प्रादुर्भवत्येषां पूर्वसङ्कल्पजं मनः ॥३-२-६३॥
मनो यस्येन्द्रियग्रामविषयं प्रति चोदितम्। तस्यौत्सुक्यं सम्भवति प्रवृत्तिश्चोपजायते ॥३-२-६४॥
ततः सङ्कल्पवीर्येण कामेन विषयेषुभिः। विद्धः पतति लोभाग्नौ ज्योतिर्लोभात्पतङ्गवत् ॥३-२-६५॥
ततो विहारैराहारैर्मोहितश्च विशां पते। महामोहमुखे मग्नो नात्मानमवबुध्यते ॥३-२-६६॥
एवं पतति संसारे तासु तास्विह योनिषु। अविद्याकर्मतृष्णाभिर्भ्राम्यमाणोऽथ चक्रवत् ॥३-२-६७॥
ब्रह्मादिषु तृणान्तेषु हूतेषु परिवर्तते। जले भुवि तथाकाशे जायमानः पुनः पुनः ॥३-२-६८॥
अबुधानां गतिस्त्वेषा बुधानामपि मे शृणु। ये धर्मे श्रेयसि रता विमोक्षरतयो जनाः ॥३-२-६९॥
यदिदं वेदवचनं कुरु कर्म त्यजेति च। तस्माद्धर्मानिमान्सर्वान्नाभिमानात्समाचरेत् ॥३-२-७०॥
इज्याध्ययनदानानि तपः सत्यं क्षमा दमः। अलोभ इति मार्गोऽयं धर्मस्याष्टविधः स्मृतः ॥३-२-७१॥
तत्र पूर्वश्चतुर्वर्गः पितृयानपथे स्थितः। कर्तव्यमिति यत्कार्यं नाभिमानात्समाचरेत् ॥३-२-७२॥
उत्तरो देवयानस्तु सद्भिराचरितः सदा। अष्टाङ्गेनैव मार्गेण विशुद्धात्मा समाचरेत् ॥३-२-७३॥
सम्यक्सङ्कल्पसम्बन्धात्सम्यक्चेन्द्रियनिग्रहात्। सम्यग्व्रतविशेषाच्च सम्यक्च गुरुसेवनात् ॥३-२-७४॥
सम्यगाहारयोगाच्च सम्यक्चाध्ययनागमात्। सम्यक्कर्मोपसंन्यासात्सम्यक्चित्तनिरोधनात् ॥ एवं कर्माणि कुर्वन्ति संसारविजिगीषवः ॥३-२-७५॥
रागद्वेषविनिर्मुक्ता ऐश्वर्यं देवता गताः। रुद्राः साध्यास्तथादित्या वसवोऽथाश्विनावपि ॥ योगैश्वर्येण संयुक्ता धारयन्ति प्रजा इमाः ॥३-२-७६॥
तथा त्वमपि कौन्तेय शममास्थाय पुष्कलम्। तपसा सिद्धिमन्विच्छ योगसिद्धिं च भारत ॥३-२-७७॥
पितृमातृमयी सिद्धिः प्राप्ता कर्ममयी च ते। तपसा सिद्धिमन्विच्छ द्विजानां भरणाय वै ॥३-२-७८॥
सिद्धा हि यद्यदिच्छन्ति कुर्वते तदनुग्रहात्। तस्मात्तपः समास्थाय कुरुष्वात्ममनोरथम् ॥३-२-७९॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.