Mahabharata - Aranyaka Parva (महाभारत - आरण्यकपर्वम्)
03.003
Library: Instructed by Daumya Yudhisthira worships Sun for the sustenance of Brahmanas.
वैशम्पायन उवाच॥
शौनकेनैवमुक्तस्तु कुन्तीपुत्रो युधिष्ठिरः। पुरोहितमुपागम्य भ्रातृमध्येऽब्रवीदिदम् ॥३-३-१॥
प्रस्थितं मानुयान्तीमे ब्राह्मणा वेदपारगाः। न चास्मि पालने शक्तो बहुदुःखसमन्वितः ॥३-३-२॥
परित्यक्तुं न शक्नोमि दानशक्तिश्च नास्ति मे। कथमत्र मया कार्यं भगवांस्तद्ब्रवीतु मे ॥३-३-३॥
मुहूर्तमिव स ध्यात्वा धर्मेणान्विष्य तां गतिम्। युधिष्ठिरमुवाचेदं धौम्यो धर्मभृतां वरः ॥३-३-४॥
पुरा सृष्टानि भूतानि पीड्यन्ते क्षुधया भृशम्। ततोऽनुकम्पया तेषां सविता स्वपिता इव ॥३-३-५॥
गत्वोत्तरायणं तेजोरसानुद्धृत्य रश्मिभिः। दक्षिणायनमावृत्तो महीं निविशते रविः ॥३-३-६॥
क्षेत्रभूते ततस्तस्मिन्नोषधीरोषधीपतिः। दिवस्तेजः समुद्धृत्य जनयामास वारिणा ॥३-३-७॥
निषिक्तश्चन्द्रतेजोभिः सूयते भूगतो रविः। ओषध्यः षड्रसा मेध्यास्तदन्नं प्राणिनां भुवि ॥३-३-८॥
एवं भानुमयं ह्यन्नं भूतानां प्राणधारणम्। पितैष सर्वभूतानां तस्मात्तं शरणं व्रज ॥३-३-९॥
राजानो हि महात्मानो योनिकर्मविशोधिताः। उद्धरन्ति प्रजाः सर्वास्तप आस्थाय पुष्कलम् ॥३-३-१०॥
भीमेन कार्तवीर्येण वैन्येन नहुषेण च। तपोयोगसमाधिस्थैरुद्धृता ह्यापदः प्रजाः ॥३-३-११॥
तथा त्वमपि धर्मात्मन्कर्मणा च विशोधितः। तप आस्थाय धर्मेण द्विजातीन्भर भारत ॥३-३-१२॥
एवमुक्तस्तु धौम्येन तत्कालसदृशं वचः। धर्मराजो विशुद्धात्मा तप आतिष्ठदुत्तमम् ॥३-३-१३॥
पुष्पोपहारैर्बलिभिरर्चयित्वा दिवाकरम्। योगमास्थाय धर्मात्मा वायुभक्षो जितेन्द्रियः ॥ गाङ्गेयं वार्युपस्पृष्य प्राणायामेन तस्थिवान् ॥३-३-१४॥
जनमेजय उवाच॥
कथं कुरूणामृषभः स तु राजा युधिष्ठिरः। विप्रार्थमाराधितवान्सूर्यमद्भुतविक्रमम् ॥३-३-१५॥
वैशम्पायन उवाच॥
शृणुष्वावहितो राजञ्शुचिर्भूत्वा समाहितः। क्षणं च कुरु राजेन्द्र सर्वं वक्ष्याम्यशेषतः ॥३-३-१६॥
धौम्येन तु यथ प्रोक्तं पार्थाय सुमहात्मने। नाम्नामष्टशतं पुण्यं तच्छृणुष्व महामते ॥३-३-१७॥
सूर्योऽर्यमा भगस्त्वष्टा पूषार्कः सविता रविः। गभस्तिमानजः कालो मृत्युर्धाता प्रभाकरः ॥३-३-१८॥
पृथिव्यापश्च तेजश्च खं वायुश्च परायणम्। सोमो बृहस्पतिः शुक्रो बुधोऽङ्गारक एव च ॥३-३-१९॥
इन्द्रो विवस्वान्दीप्तांशुः शुचिः शौरिः शनैश्चरः। ब्रह्मा विष्णुश्च रुद्रश्च स्कन्दो वैश्रवणो यमः ॥३-३-२०॥
वैद्युतो जाठरश्चाग्निरैन्धनस्तेजसां पतिः। धर्मध्वजो वेदकर्ता वेदाङ्गो वेदवाहनः ॥३-३-२१॥
कृतं त्रेता द्वापरश्च कलिः सर्वामराश्रयः। कला काष्ठा मुहूर्ताश्च पक्षा मासा ऋतुस्तथा ॥३-३-२२॥
संवत्सरकरोऽश्वत्थः कालचक्रो विभावसुः। पुरुषः शाश्वतो योगी व्यक्ताव्यक्तः सनातनः ॥३-३-२३॥
लोकाध्यक्षः प्रजाध्यक्षो विश्वकर्मा तमोनुदः। वरुणः सागरोंऽशुश्च जीमूतो जीवनोऽरिहा ॥३-३-२४॥
भूताश्रयो भूतपतिः सर्वभूतनिषेवितः। मणिः सुवर्णो भूतादिः कामदः सर्वतोमुखः ॥३-३-२५॥
जयो विशालो वरदः शीघ्रगः प्राणधारणः। धन्वन्तरिर्धूमकेतुरादिदेवोऽदितेः सुतः ॥३-३-२६॥
द्वादशात्मारविन्दाक्षः पिता माता पितामहः। स्वर्गद्वारं प्रजाद्वारं मोक्षद्वारं त्रिविष्टपम् ॥३-३-२७॥
देहकर्ता प्रशान्तात्मा विश्वात्मा विश्वतोमुखः। चराचरात्मा सूक्ष्मात्मा मैत्रेण वपुषान्वितः ॥३-३-२८॥
एतद्वै कीर्तनीयस्य सूर्यस्यैव महात्मनः। नाम्नामष्टशतं पुण्यं शक्रेणोक्तं महात्मना ॥३-३-२९॥
शक्राच्च नारदः प्राप्तो धौम्यश्च तदनन्तरम्। धौम्याद्युधिष्ठिरः प्राप्य सर्वान्कामानवाप्तवान् ॥३-३-३०॥
सुरपितृगणयक्षसेवितं; ह्यसुरनिशाचरसिद्धवन्दितम्। वरकनकहुताशनप्रभं; त्वमपि मनस्यभिधेहि भास्करम् ॥३-३-३१॥
सूर्योदये यस्तु समाहितः पठे; त्स पुत्रलाभं धनरत्नसञ्चयान्। लभेत जातिस्मरतां सदा नरः; स्मृतिं च मेधां च स विन्दते पराम् ॥३-३-३२॥
इमं स्तवं देववरस्य यो नरः; प्रकीर्तयेच्छुचिसुमनाः समाहितः। स मुच्यते शोकदवाग्निसागरा; ल्लभेत कामान्मनसा यथेप्सितान् ॥३-३-३३॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.