Mahabharata - Aranyaka Parva (महाभारत - आरण्यकपर्वम्)
03.030
Core: Yudhisthira responds by censuring anger and praising forgiveness.
युधिष्ठिर उवाच॥
क्रोधो हन्ता मनुष्याणां क्रोधो भावयिता पुनः। इति विद्धि महाप्राज्ञे क्रोधमूलौ भवाभवौ ॥३-३०-१॥
यो हि संहरते क्रोधं भावस्तस्य सुशोभने। यः पुनः पुरुषः क्रोधं नित्यं न सहते शुभे ॥ तस्याभावाय भवति क्रोधः परमदारुणः ॥३-३०-२॥
क्रोधमूलो विनाशो हि प्रजानामिह दृश्यते। तत्कथं मादृशः क्रोधमुत्सृजेल्लोकनाशनम् ॥३-३०-३॥
क्रुद्धः पापं नरः कुर्यात्क्रुद्धो हन्याद्गुरूनपि। क्रुद्धः परुषया वाचा श्रेयसोऽप्यवमन्यते ॥३-३०-४॥
वाच्यावाच्ये हि कुपितो न प्रजानाति कर्हिचित्। नाकार्यमस्ति क्रुद्धस्य नावाच्यं विद्यते तथा ॥३-३०-५॥
हिंस्यात्क्रोधादवध्यांश्च वध्यान्सम्पूजयेदपि। आत्मानमपि च क्रुद्धः प्रेषयेद्यमसादनम् ॥३-३०-६॥
एतान्दोषान्प्रपश्यद्भिर्जितः क्रोधो मनीषिभिः। इच्छद्भिः परमं श्रेय इह चामुत्र चोत्तमम् ॥३-३०-७॥
तं क्रोधं वर्जितं धीरैः कथमस्मद्विधश्चरेत्। एतद्द्रौपदि सन्धाय न मे मन्युः प्रवर्धते ॥३-३०-८॥
आत्मानं च परं चैव त्रायते महतो भयात्। क्रुध्यन्तमप्रतिक्रुध्यन्द्वयोरेष चिकित्सकः ॥३-३०-९॥
मूढो यदि क्लिश्यमानः क्रुध्यतेऽशक्तिमान्नरः। बलीयसां मनुष्याणां त्यजत्यात्मानमन्ततः ॥३-३०-१०॥
तस्यात्मानं सन्त्यजतो लोका नश्यन्त्यनात्मनः। तस्माद्द्रौपद्यशक्तस्य मन्योर्नियमनं स्मृतम् ॥३-३०-११॥
विद्वांस्तथैव यः शक्तः क्लिश्यमानो न कुप्यति। स नाशयित्वा क्लेष्टारं परलोके च नन्दति ॥३-३०-१२॥
तस्माद्बलवता चैव दुर्बलेन च नित्यदा। क्षन्तव्यं पुरुषेणाहुरापत्स्वपि विजानता ॥३-३०-१३॥
मन्योर्हि विजयं कृष्णे प्रशंसन्तीह साधवः। क्षमावतो जयो नित्यं साधोरिह सतां मतम् ॥३-३०-१४॥
सत्यं चानृततः श्रेयो नृशंसाच्चानृशंसता। तमेवं बहुदोषं तु क्रोधं साधुविवर्जितम् ॥ मादृशः प्रसृजेत्कस्मात्सुयोधनवधादपि ॥३-३०-१५॥
तेजस्वीति यमाहुर्वै पण्डिता दीर्घदर्शिनः। न क्रोधोऽभ्यन्तरस्तस्य भवतीति विनिश्चितम् ॥३-३०-१६॥
यस्तु क्रोधं समुत्पन्नं प्रज्ञया प्रतिबाधते। तेजस्विनं तं विद्वांसो मन्यन्ते तत्त्वदर्शिनः ॥३-३०-१७॥
क्रुद्धो हि कार्यं सुश्रोणि न यथावत्प्रपश्यति। न कार्यं न च मर्यादां नरः क्रुद्धोऽनुपश्यति ॥३-३०-१८॥
हन्त्यवध्यानपि क्रुद्धो गुरून्रूक्षैस्तुदत्यपि। तस्मात्तेजसि कर्तव्ये क्रोधो दूरात्प्रतिष्ठितः ॥३-३०-१९॥
दाक्ष्यं ह्यमर्षः शौर्यं च शीघ्रत्वमिति तेजसः। गुणाः क्रोधाभिभूतेन न शक्याः प्राप्तुमञ्जसा ॥३-३०-२०॥
क्रोधं त्यक्त्वा तु पुरुषः सम्यक्तेजोऽभिपद्यते। कालयुक्तं महाप्राज्ञे क्रुद्धैस्तेजः सुदुःसहम् ॥३-३०-२१॥
क्रोधस्त्वपण्डितैः शश्वत्तेज इत्यभिधीयते। रजस्तल्लोकनाशाय विहितं मानुषान्प्रति ॥३-३०-२२॥
तस्माच्छश्वत्त्यजेत्क्रोधं पुरुषः सम्यगाचरन्। श्रेयान्स्वधर्मानपगो न क्रुद्ध इति निश्चितम् ॥३-३०-२३॥
यदि सर्वमबुद्धीनामतिक्रान्तममेधसाम्। अतिक्रमो मद्विधस्य कथं स्वित्स्यादनिन्दिते ॥३-३०-२४॥
यदि न स्युर्मनुष्येषु क्षमिणः पृथिवीसमाः। न स्यात्सन्धिर्मनुष्याणां क्रोधमूलो हि विग्रहः ॥३-३०-२५॥
अभिषक्तो ह्यभिषजेदाहन्याद्गुरुणा हतः। एवं विनाशो भूतानामधर्मः प्रथितो भवेत् ॥३-३०-२६॥
आक्रुष्टः पुरुषः सर्वः प्रत्याक्रोशेदनन्तरम्। प्रतिहन्याद्धतश्चैव तथा हिंस्याच्च हिंसितः ॥३-३०-२७॥
हन्युर्हि पितरः पुत्रान्पुत्राश्चापि तथा पितॄन्। हन्युश्च पतयो भार्याः पतीन्भार्यास्तथैव च ॥३-३०-२८॥
एवं सङ्कुपिते लोके जन्म कृष्णे न विद्यते। प्रजानां सन्धिमूलं हि जन्म विद्धि शुभानने ॥३-३०-२९॥
ताः क्षीयेरन्प्रजाः सर्वाः क्षिप्रं द्रौपदि तादृशे। तस्मान्मन्युर्विनाशाय प्रजानामभवाय च ॥३-३०-३०॥
यस्मात्तु लोके दृश्यन्ते क्षमिणः पृथिवीसमाः। तस्माज्जन्म च भूतानां भवश्च प्रतिपद्यते ॥३-३०-३१॥
क्षन्तव्यं पुरुषेणेह सर्वास्वापत्सु शोभने। क्षमा भवो हि भूतानां जन्म चैव प्रकीर्तितम् ॥३-३०-३२॥
आक्रुष्टस्ताडितः क्रुद्धः क्षमते यो बलीयसा। यश्च नित्यं जितक्रोधो विद्वानुत्तमपूरुषः ॥३-३०-३३॥
प्रभाववानपि नरस्तस्य लोकाः सनातनाः। क्रोधनस्त्वल्पविज्ञानः प्रेत्य चेह च नश्यति ॥३-३०-३४॥
अत्राप्युदाहरन्तीमा गाथा नित्यं क्षमावताम्। गीताः क्षमावता कृष्णे काश्यपेन महात्मना ॥३-३०-३५॥
क्षमा धर्मः क्षमा यज्ञः क्षमा वेदाः क्षमा श्रुतम्। यस्तामेवं विजानाति स सर्वं क्षन्तुमर्हति ॥३-३०-३६॥
क्षमा ब्रह्म क्षमा सत्यं क्षमा भूतं च भावि च। क्षमा तपः क्षमा शौचं क्षमया चोद्धृतं जगत् ॥३-३०-३७॥
अति ब्रह्मविदां लोकानति चापि तपस्विनाम्। अति यज्ञविदां चैव क्षमिणः प्राप्नुवन्ति तान् ॥३-३०-३८॥
क्षमा तेजस्विनां तेजः क्षमा ब्रह्म तपस्विनाम्। क्षमा सत्यं सत्यवतां क्षमा दानं क्षमा यशः ॥३-३०-३९॥
तां क्षमामीदृशीं कृष्णे कथमस्मद्विधस्त्यजेत्। यस्यां ब्रह्म च सत्यं च यज्ञा लोकाश्च विष्ठिताः ॥ भुज्यन्ते यज्वनां लोकाः क्षमिणामपरे तथा ॥३-३०-४०॥
क्षन्तव्यमेव सततं पुरुषेण विजानता। यदा हि क्षमते सर्वं ब्रह्म सम्पद्यते तदा ॥३-३०-४१॥
क्षमावतामयं लोकः परश्चैव क्षमावताम्। इह संमानमृच्छन्ति परत्र च शुभां गतिम् ॥३-३०-४२॥
येषां मन्युर्मनुष्याणां क्षमया निहतः सदा। तेषां परतरे लोकास्तस्मात्क्षान्तिः परा मता ॥३-३०-४३॥
इति गीताः काश्यपेन गाथा नित्यं क्षमावताम्। श्रुत्वा गाथाः क्षमायास्त्वं तुष्य द्रौपदि मा क्रुधः ॥३-३०-४४॥
पितामहः शान्तनवः शमं सम्पूजयिष्यति। आचार्यो विदुरः क्षत्ता शममेव वदिष्यतः ॥ कृपश्च सञ्जयश्चैव शममेव वदिष्यतः ॥३-३०-४५॥
सोमदत्तो युयुत्सुश्च द्रोणपुत्रस्तथैव च। पितामहश्च नो व्यासः शमं वदति नित्यशः ॥३-३०-४६॥
एतैर्हि राजा नियतं चोद्यमानः शमं प्रति। राज्यं दातेति मे बुद्धिर्न चेल्लोभान्नशिष्यति ॥३-३०-४७॥
कालोऽयं दारुणः प्राप्तो भरतानामभूतये। निश्चितं मे सदैवैतत्पुरस्तादपि भामिनि ॥३-३०-४८॥
सुयोधनो नार्हतीति क्षमामेवं न विन्दति। अर्हस्तस्याहमित्येव तस्मान्मां विन्दते क्षमा ॥३-३०-४९॥
एतदात्मवतां वृत्तमेष धर्मः सनातनः। क्षमा चैवानृशंस्यं च तत्कर्तास्म्यहमञ्जसा ॥३-३०-५०॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.