Mahabharata - Aranyaka Parva (महाभारत - आरण्यकपर्वम्)
03.029
Core: Draupadi’s advice on how to balance forgiveness, and time has come not to forgive Kauravas.
द्रौपद्युवाच॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम्। प्रह्लादस्य च संवादं बलेर्वैरोचनस्य च ॥३-२९-१॥
असुरेन्द्रं महाप्राज्ञं धर्माणामागतागमम्। बलिः पप्रच्छ दैत्येन्द्रं प्रह्लादं पितरं पितुः ॥३-२९-२॥
क्षमा स्विच्छ्रेयसी तात उताहो तेज इत्युत। एतन्मे संशयं तात यथावद्ब्रूहि पृच्छते ॥३-२९-३॥
श्रेयो यदत्र धर्मज्ञ ब्रूहि मे तदसंशयम्। करिष्यामि हि तत्सर्वं यथावदनुशासनम् ॥३-२९-४॥
तस्मै प्रोवाच तत्सर्वमेवं पृष्टः पितामहः। सर्वनिश्चयवित्प्राज्ञः संशयं परिपृच्छते ॥३-२९-५॥
प्रह्लाद उवाच॥
न श्रेयः सततं तेजो न नित्यं श्रेयसी क्षमा। इति तात विजानीहि द्वयमेतदसंशयम् ॥३-२९-६॥
यो नित्यं क्षमते तात बहून्दोषान्स विन्दति। भृत्याः परिभवन्त्येनमुदासीनास्तथैव च ॥३-२९-७॥
सर्वभूतानि चाप्यस्य न नमन्ते कदाचन। तस्मान्नित्यं क्षमा तात पण्डितैरपवादिता ॥३-२९-८॥
अवज्ञाय हि तं भृत्या भजन्ते बहुदोषताम्। आदातुं चास्य वित्तानि प्रार्थयन्तेऽल्पचेतसः ॥३-२९-९॥
यानं वस्त्राण्यलङ्काराञ्शयनान्यासनानि च। भोजनान्यथ पानानि सर्वोपकरणानि च ॥३-२९-१०॥
आददीरन्नधिकृता यथाकाममचेतसः। प्रदिष्टानि च देयानि न दद्युर्भर्तृशासनात् ॥३-२९-११॥
न चैनं भर्तृपूजाभिः पूजयन्ति कदाचन। अवज्ञानं हि लोकेऽस्मिन्मरणादपि गर्हितम् ॥३-२९-१२॥
क्षमिणं तादृशं तात ब्रुवन्ति कटुकान्यपि। प्रेष्याः पुत्राश्च भृत्याश्च तथोदासीनवृत्तयः ॥३-२९-१३॥
अप्यस्य दारानिच्छन्ति परिभूय क्षमावतः। दाराश्चास्य प्रवर्तन्ते यथाकाममचेतसः ॥३-२९-१४॥
तथा च नित्यमुदिता यदि स्वल्पमपीश्वरात्। दण्डमर्हन्ति दुष्यन्ति दुष्टाश्चाप्यपकुर्वते ॥३-२९-१५॥
एते चान्ये च बहवो नित्यं दोषाः क्षमावताम्। अथ वैरोचने दोषानिमान्विद्ध्यक्षमावताम् ॥३-२९-१६॥
अस्थाने यदि वा स्थाने सततं रजसावृतः। क्रुद्धो दण्डान्प्रणयति विविधान्स्वेन तेजसा ॥३-२९-१७॥
मित्रैः सह विरोधं च प्राप्नुते तेजसावृतः। प्राप्नोति द्वेष्यतां चैव लोकात्स्वजनतस्तथा ॥३-२९-१८॥
सोऽवमानादर्थहानिमुपालम्भमनादरम्। सन्तापद्वेषलोभांश्च शत्रूंश्च लभते नरः ॥३-२९-१९॥
क्रोधाद्दण्डान्मनुष्येषु विविधान्पुरुषो नयन्। भ्रश्यते शीघ्रमैश्वर्यात्प्राणेभ्यः स्वजनादपि ॥३-२९-२०॥
योऽपकर्तॄंश्च कर्तॄंश्च तेजसैवोपगच्छति। तस्मादुद्विजते लोकः सर्पाद्वेश्मगतादिव ॥३-२९-२१॥
यस्मादुद्विजते लोकः कथं तस्य भवो भवेत्। अन्तरं ह्यस्य दृष्ट्वैव लोको विकुरुते ध्रुवम् ॥ तस्मान्नात्युत्सृजेत्तेजो न च नित्यं मृदुर्भवेत् ॥३-२९-२२॥
काले मृदुर्यो भवति काले भवति दारुणः। स वै सुखमवाप्नोति लोकेऽमुष्मिन्निहैव च ॥३-२९-२३॥
क्षमाकालांस्तु वक्ष्यामि शृणु मे विस्तरेण तान्। ये ते नित्यमसन्त्याज्या यथा प्राहुर्मनीषिणः ॥३-२९-२४॥
पूर्वोपकारी यस्तु स्यादपराधेऽगरीयसि। उपकारेण तत्तस्य क्षन्तव्यमपराधिनः ॥३-२९-२५॥
अबुद्धिमाश्रितानां च क्षन्तव्यमपराधिनाम्। न हि सर्वत्र पाण्डित्यं सुलभं पुरुषेण वै ॥३-२९-२६॥
अथ चेद्बुद्धिजं कृत्वा ब्रूयुस्ते तदबुद्धिजम्। पापान्स्वल्पेऽपि तान्हन्यादपराधे तथानृजून् ॥३-२९-२७॥
सर्वस्यैकोऽपराधस्ते क्षन्तव्यः प्राणिनो भवेत्। द्वितीये सति वध्यस्तु स्वल्पेऽप्यपकृते भवेत् ॥३-२९-२८॥
अजानता भवेत्कश्चिदपराधः कृतो यदि। क्षन्तव्यमेव तस्याहुः सुपरीक्ष्य परीक्षया ॥३-२९-२९॥
मृदुना मार्दवं हन्ति मृदुना हन्ति दारुणम्। नासाध्यं मृदुना किञ्चित्तस्मात्तीक्ष्णतरो मृदुः ॥३-२९-३०॥
देशकालौ तु सम्प्रेक्ष्य बलाबलमथात्मनः। नादेशकाले किञ्चित्स्याद्देशः कालः प्रतीक्ष्यते ॥३-२९-३१॥
तथा लोकभयाच्चैव क्षन्तव्यमपराधिनः ॥३-२९-३१॥
एत एवंविधाः कालाः क्षमायाः परिकीर्तिताः। अतोऽन्यथानुवर्तत्सु तेजसः काल उच्यते ॥३-२९-३२॥
द्रौपद्युवाच॥
तदहं तेजसः कालं तव मन्ये नराधिप। धार्तराष्ट्रेषु लुब्धेषु सततं चापकारिषु ॥३-२९-३३॥
न हि कश्चित्क्षमाकालो विद्यतेऽद्य कुरून्प्रति। तेजसश्चागते काले तेज उत्स्रष्टुमर्हसि ॥३-२९-३४॥
मृदुर्भवत्यवज्ञातस्तीक्ष्णादुद्विजते जनः। काले प्राप्ते द्वयं ह्येतद्यो वेद स महीपतिः ॥३-२९-३५॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.