Mahabharata - Aranyaka Parva (महाभारत - आरण्यकपर्वम्)
03.031
Core: Draupadi counters by telling Dharma is not protecting him, not the creator who writes everyone's destiny.
द्रौपद्युवाच॥
नमो धात्रे विधात्रे च यौ मोहं चक्रतुस्तव। पितृपैतामहे वृत्ते वोढव्ये तेऽन्यथा मतिः ॥३-३१-१॥
नेह धर्मानृशंस्याभ्यां न क्षान्त्या नार्जवेन च। पुरुषः श्रियमाप्नोति न घृणित्वेन कर्हिचित् ॥३-३१-२॥
त्वां चेद्व्यसनमभ्यागादिदं भारत दुःसहम्। यत्त्वं नार्हसि नापीमे भ्रातरस्ते महौजसः ॥३-३१-३॥
न हि तेऽध्यगमज्जातु तदानीं नाद्य भारत। धर्मात्प्रियतरं किञ्चिदपि चेज्जीवितादिह ॥३-३१-४॥
धर्मार्थमेव ते राज्यं धर्मार्थं जीवितं च ते। ब्राह्मणा गुरवश्चैव जानन्त्यपि च देवताः ॥३-३१-५॥
भीमसेनार्जुनौ चैव माद्रेयौ च मया सह। त्यजेस्त्वमिति मे बुद्धिर्न तु धर्मं परित्यजेः ॥३-३१-६॥
राजानं धर्मगोप्तारं धर्मो रक्षति रक्षितः। इति मे श्रुतमार्याणां त्वां तु मन्ये न रक्षति ॥३-३१-७॥
अनन्या हि नरव्याघ्र नित्यदा धर्ममेव ते। बुद्धिः सततमन्वेति छायेव पुरुषं निजा ॥३-३१-८॥
नावमंस्था हि सदृशान्नावराञ्श्रेयसः कुतः। अवाप्य पृथिवीं कृत्स्नां न ते शृङ्गमवर्धत ॥३-३१-९॥
स्वाहाकारैः स्वधाभिश्च पूजाभिरपि च द्विजान्। दैवतानि पितॄंश्चैव सततं पार्थ सेवसे ॥३-३१-१०॥
ब्राह्मणाः सर्वकामैस्ते सततं पार्थ तर्पिताः। यतयो मोक्षिणश्चैव गृहस्थाश्चैव भारत ॥३-३१-११॥
आरण्यकेभ्यो लौहानि भाजनानि प्रयच्छसि। नादेयं ब्राह्मणेभ्यस्ते गृहे किञ्चन विद्यते ॥३-३१-१२॥
यदिदं वैश्वदेवान्ते सायम्प्रातः प्रदीयते। तद्दत्त्वातिथिभृत्येभ्यो राजञ्शेषेण जीवसि ॥३-३१-१३॥
इष्टयः पशुबन्धाश्च काम्यनैमित्तिकाश्च ये। वर्तन्ते पाकयज्ञाश्च यज्ञकर्म च नित्यदा ॥३-३१-१४॥
अस्मिन्नपि महारण्ये विजने दस्युसेविते। राष्ट्रादपेत्य वसतो धार्मस्ते नावसीदति ॥३-३१-१५॥
अश्वमेधो राजसूयः पुण्डरीकोऽथ गोसवः। एतैरपि महायज्ञैरिष्टं ते भूरिदक्षिणैः ॥३-३१-१६॥
राजन्परीतया बुद्ध्या विषमेऽक्षपराजये। राज्यं वसून्यायुधानि भ्रातॄन्मां चासि निर्जितः ॥३-३१-१७॥
ऋजोर्मृदोर्वदान्यस्य ह्रीमतः सत्यवादिनः। कथमक्षव्यसनजा बुद्धिरापतिता तव ॥३-३१-१८॥
अतीव मोहमायाति मनश्च परिदूयते। निशाम्य ते दुःखमिदमिमां चापदमीदृशीम् ॥३-३१-१९॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम्। ईश्वरस्य वशे लोकस्तिष्ठते नात्मनो यथा ॥३-३१-२०॥
धातैव खलु भूतानां सुखदुःखे प्रियाप्रिये। दधाति सर्वमीशानः पुरस्ताच्छुक्रमुच्चरन् ॥३-३१-२१॥
यथा दारुमयी योषा नरवीर समाहिता। ईरयत्यङ्गमङ्गानि तथा राजन्निमाः प्रजाः ॥३-३१-२२॥
आकाश इव भूतानि व्याप्य सर्वाणि भारत। ईश्वरो विदधातीह कल्याणं यच्च पापकम् ॥३-३१-२३॥
शकुनिस्तन्तुबद्धो वा नियतोऽयमनीश्वरः। ईश्वरस्य वशे तिष्ठन्नान्येषां नात्मनः प्रभुः ॥३-३१-२४॥
मणिः सूत्र इव प्रोतो नस्योत इव गोवृषः। धातुरादेशमन्वेति तन्मयो हि तदर्पणः ॥३-३१-२५॥
नात्माधीनो मनुष्योऽयं कालं भवति कञ्चन। स्रोतसो मध्यमापन्नः कूलाद्वृक्ष इव च्युतः ॥३-३१-२६॥
अज्ञो जन्तुरनीशोऽयमात्मनः सुखदुःखयोः। ईश्वरप्रेरितो गच्छेत्स्वर्गं नरकमेव च ॥३-३१-२७॥
यथा वायोस्तृणाग्राणि वशं यान्ति बलीयसः। धातुरेवं वशं यान्ति सर्वभूतानि भारत ॥३-३१-२८॥
आर्यकर्मणि युञ्जानः पापे वा पुनरीश्वरः। व्याप्य भूतानि चरते न चायमिति लक्ष्यते ॥३-३१-२९॥
हेतुमात्रमिदं धातुः शरीरं क्षेत्रसञ्ज्ञितम्। येन कारयते कर्म शुभाशुभफलं विभुः ॥३-३१-३०॥
पश्य मायाप्रभावोऽयमीश्वरेण यथा कृतः। यो हन्ति भूतैर्भूतानि मोहयित्वात्ममायया ॥३-३१-३१॥
अन्यथा परिदृष्टानि मुनिभिर्वेददर्शिभिः। अन्यथा परिवर्तन्ते वेगा इव नभस्वतः ॥३-३१-३२॥
अन्यथैव हि मन्यन्ते पुरुषास्तानि तानि च। अन्यथैव प्रभुस्तानि करोति विकरोति च ॥३-३१-३३॥
यथा काष्ठेन वा काष्ठमश्मानं चाश्मना पुनः। अयसा चाप्ययश्छिन्द्यान्निर्विचेष्टमचेतनम् ॥३-३१-३४॥
एवं स भगवान्देवः स्वयम्भूः प्रपितामहः। हिनस्ति भूतैर्भूतानि छद्म कृत्वा युधिष्ठिर ॥३-३१-३५॥
सम्प्रयोज्य वियोज्यायं कामकारकरः प्रभुः। क्रीडते भगवन्भूतैर्बालः क्रीडनकैरिव ॥३-३१-३६॥
न मातृपितृवद्राजन्धाता भूतेषु वर्तते। रोषादिव प्रवृत्तोऽयं यथायमितरो जनः ॥३-३१-३७॥
आर्याञ्शीलवतो दृष्ट्वा ह्रीमतो वृत्तिकर्शितान्। अनार्यान्सुखिनश्चैव विह्वलामीव चिन्तया ॥३-३१-३८॥
तवेमामापदं दृष्ट्वा समृद्धिं च सुयोधने। धातारं गर्हये पार्थ विषमं योऽनुपश्यति ॥३-३१-३९॥
आर्यशास्त्रातिगे क्रूरे लुब्धे धर्मापचायिनि। धार्तराष्ट्रे श्रियं दत्त्वा धाता किं फलमश्नुते ॥३-३१-४०॥
कर्म चेत्कृतमन्वेति कर्तारं नान्यमृच्छति। कर्मणा तेन पापेन लिप्यते नूनमीश्वरः ॥३-३१-४१॥
अथ कर्म कृतं पापं न चेत्कर्तारमृच्छति। कारणं बलमेवेह जनाञ्शोचामि दुर्बलान् ॥३-३१-४२॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.