Mahabharata - Aranyaka Parva (महाभारत - आरण्यकपर्वम्)
03.032
Core: Yudhisthira rebukes Draupadi for her atheist thoughts, and advises her to follow the Dharma without anticipating any reward.
युधिष्ठिर उवाच॥
वल्गु चित्रपदं श्लक्ष्णं याज्ञसेनि त्वया वचः। उक्तं तच्छ्रुतमस्माभिर्नास्तिक्यं तु प्रभाषसे ॥३-३२-१॥
नाहं धर्मफलान्वेषी राजपुत्रि चराम्युत। ददामि देयमित्येव यजे यष्टव्यमित्युत ॥३-३२-२॥
अस्तु वात्र फलं मा वा कर्तव्यं पुरुषेण यत्। गृहानावसता कृष्णे यथाशक्ति करोमि तत् ॥३-३२-३॥
धर्मं चरामि सुश्रोणि न धर्मफलकारणात्। आगमाननतिक्रम्य सतां वृत्तमवेक्ष्य च ॥ धर्म एव मनः कृष्णे स्वभावाच्चैव मे धृतम् ॥३-३२-४॥
न धर्मफलमाप्नोति यो धर्मं दोग्धुमिच्छति। यश्चैनं शङ्कते कृत्वा नास्तिक्यात्पापचेतनः ॥३-३२-५॥
अतिवादान्मदाच्चैव मा धर्ममतिशङ्किथाः। धर्मातिशङ्की पुरुषस्तिर्यग्गतिपरायणः ॥३-३२-६॥
धर्मो यस्यातिशङ्क्यः स्यादार्षं वा दुर्बलात्मनः। वेदाच्छूद्र इवापेयात्स लोकादजरामरात् ॥३-३२-७॥
वेदाध्यायी धर्मपरः कुले जातो यशस्विनि। स्थविरेषु स योक्तव्यो राजभिर्धर्मचारिभिः ॥३-३२-८॥
पापीयान्हि स शूद्रेभ्यस्तस्करेभ्यो विशेषतः। शास्त्रातिगो मन्दबुद्धिर्यो धर्ममतिशङ्कते ॥३-३२-९॥
प्रत्यक्षं हि त्वया दृष्ट ऋषिर्गच्छन्महातपाः। मार्कण्डेयोऽप्रमेयात्मा धर्मेण चिरजीविताम् ॥३-३२-१०॥
व्यासो वसिष्ठो मैत्रेयो नारदो लोमशः शुकः। अन्ये च ऋषयः सिद्धा धर्मेणैव सुचेतसः ॥३-३२-११॥
प्रत्यक्षं पश्यसि ह्येतान्दिव्ययोगसमन्वितान्। शापानुग्रहणे शक्तान्देवैरपि गरीयसः ॥३-३२-१२॥
एते हि धर्ममेवादौ वर्णयन्ति सदा मम। कर्तव्यममरप्रख्याः प्रत्यक्षागमबुद्धयः ॥३-३२-१३॥
अतो नार्हसि कल्याणि धातारं धर्ममेव च। रजोमूढेन मनसा क्षेप्तुं शङ्कितुमेव च ॥३-३२-१४॥
धर्मातिशङ्की नान्यस्मिन्प्रमाणमधिगच्छति। आत्मप्रमाण उन्नद्धः श्रेयसो ह्यवमन्यकः ॥३-३२-१५॥
इन्द्रियप्रीतिसम्बद्धं यदिदं लोकसाक्षिकम्। एतावान्मन्यते बालो मोहमन्यत्र गच्छति ॥३-३२-१६॥
प्रायश्चित्तं न तस्यास्ति यो धर्ममतिशङ्कते। ध्यायन्स कृपणः पापो न लोकान्प्रतिपद्यते ॥३-३२-१७॥
प्रमाणान्यतिवृत्तो हि वेदशास्त्रार्थनिन्दकः। कामलोभानुगो मूढो नरकं प्रतिपद्यते ॥३-३२-१८॥
यस्तु नित्यं कृतमतिर्धर्ममेवाभिपद्यते। अशङ्कमानः कल्याणि सोऽमुत्रानन्त्यमश्नुते ॥३-३२-१९॥
आर्षं प्रमाणमुत्क्रम्य धर्मानपरिपालयन्। सर्वशास्त्रातिगो मूढः शं जन्मसु न विन्दति ॥३-३२-२०॥
शिष्टैराचरितं धर्मं कृष्णे मा स्मातिशङ्किथाः। पुराणमृषिभिः प्रोक्तं सर्वज्ञैः सर्वदर्शिभिः ॥३-३२-२१॥
धर्म एव प्लवो नान्यः स्वर्गं द्रौपदि गच्छताम्। सैव नौः सागरस्येव वणिजः पारमृच्छतः ॥३-३२-२२॥
अफालो यदि धर्मः स्याच्चरितो धर्मचारिभिः। अप्रतिष्ठे तमस्येतज्जगन्मज्जेदनिन्दिते ॥३-३२-२३॥
निर्वाणं नाधिगच्छेयुर्जीवेयुः पशुजीविकाम्। विघातेनैव युज्येयुर्न चार्थं किञ्चिदाप्नुयुः ॥३-३२-२४॥
तपश्च ब्रह्मचर्यं च यज्ञः स्वाध्याय एव च। दानमार्जवमेतानि यदि स्युरफलानि वै ॥३-३२-२५॥
नाचरिष्यन्परे धर्मं परे परतरे च ये। विप्रलम्भोऽयमत्यन्तं यदि स्युरफलाः क्रियाः ॥३-३२-२६॥
ऋषयश्चैव देवाश्च गन्धर्वासुरराक्षसाः। ईश्वराः कस्य हेतोस्ते चरेयुर्धर्ममादृताः ॥३-३२-२७॥
फलदं त्विह विज्ञाय धातारं श्रेयसि ध्रुवे। धर्मं ते ह्याचरन्कृष्णे तद्धि धर्मसनातनम् ॥३-३२-२८॥
स चायं सफलो धर्मो न धर्मोऽफल उच्यते। दृश्यन्तेऽपि हि विद्यानां फलानि तपसां तथा ॥३-३२-२९॥
त्वय्येतद्वै विजानीहि जन्म कृष्णे यथा श्रुतम्। वेत्थ चापि यथा जातो धृष्टद्युम्नः प्रतापवान् ॥३-३२-३०॥
एतावदेव पर्याप्तमुपमानं शुचिस्मिते। कर्मणां फलमस्तीति धीरोऽल्पेनापि तुष्यति ॥३-३२-३१॥
बहुनापि ह्यविद्वांसो नैव तुष्यन्त्यबुद्धयः। तेषां न धर्मजं किञ्चित्प्रेत्य शर्मास्ति कर्म वा ॥३-३२-३२॥
कर्मणामुत पुण्यानां पापानां च फलोदयः। प्रभवश्चाप्ययश्चैव देवगुह्यानि भामिनि ॥३-३२-३३॥
नैतानि वेद यः कश्चिन्मुह्यन्त्यत्र प्रजा इमाः। रक्ष्याण्येतानि देवानां गूढमाया हि देवताः ॥३-३२-३४॥
कृशाङ्गाः सुव्रताश्चैव तपसा दग्धकिल्बिषाः। प्रसन्नैर्मानसैर्युक्ताः पश्यन्त्येतानि वै द्विजाः ॥३-३२-३५॥
न फलादर्शनाद्धर्मः शङ्कितव्यो न देवताः। यष्टव्यं चाप्रमत्तेन दातव्यं चानसूयता ॥३-३२-३६॥
कर्मणां फलमस्तीति तथैतद्धर्म शाश्वतम्। ब्रह्मा प्रोवाच पुत्राणां यदृषिर्वेद कश्यपः ॥३-३२-३७॥
तस्मात्ते संशयः कृष्णे नीहार इव नश्यतु। व्यवस्य सर्वमस्तीति नास्तिक्यं भावमुत्सृज ॥३-३२-३८॥
ईश्वरं चापि भूतानां धातारं मा विचिक्षिपः। शिक्षस्वैनं नमस्वैनं मा ते भूद्बुद्धिरीदृशी ॥३-३२-३९॥
यस्य प्रसादात्तद्भक्तो मर्त्यो गच्छत्यमर्त्यताम्। उत्तमं दैवतं कृष्णे मातिवोचः कथञ्चन ॥३-३२-४०॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.