Mahabharata - Aranyaka Parva (महाभारत - आरण्यकपर्वम्)
03.054
बृहदश्व उवाच॥
अथ काले शुभे प्राप्ते तिथौ पुण्ये क्षणे तथा। आजुहाव महीपालान्भीमो राजा स्वयंवरे ॥०३-५४-१॥
तच्छ्रुत्वा पृथिवीपालाः सर्वे हृच्छयपीडिताः। त्वरिताः समुपाजग्मुर्दमयन्तीमभीप्सवः ॥०३-५४-२॥
कनकस्तम्भरुचिरं तोरणेन विराजितम्। विविशुस्ते महारङ्गं नृपाः सिंहा इवाचलम् ॥०३-५४-३॥
तत्रासनेषु विविधेष्वासीनाः पृथिवीक्षितः। सुरभिस्रग्धराः सर्वे सुमृष्टमणिकुण्डलाः ॥०३-५४-४॥
तां राजसमितिं पूर्णां नागैर्भोगवतीमिव। सम्पूर्णां पुरुषव्याघ्रैर्व्याघ्रैर्गिरिगुहामिव ॥०३-५४-५॥
तत्र स्म पीना दृश्यन्ते बाहवः परिघोपमाः। आकारवन्तः सुश्लक्ष्णाः पञ्चशीर्षा इवोरगाः ॥०३-५४-६॥
सुकेशान्तानि चारूणि सुनासानि शुभानि च। मुखानि राज्ञां शोभन्ते नक्षत्राणि यथा दिवि ॥०३-५४-७॥
दमयन्ती ततो रङ्गं प्रविवेश शुभानना। मुष्णन्ती प्रभया राज्ञां चक्षूंषि च मनांसि च ॥०३-५४-८॥
तस्या गात्रेषु पतिता तेषां दृष्टिर्महात्मनाम्। तत्र तत्रैव सक्ताभून्न चचाल च पश्यताम् ॥०३-५४-९॥
ततः सङ्कीर्त्यमानेषु राज्ञां नामसु भारत। ददर्श भैमी पुरुषान्पञ्च तुल्याकृतीनिव ॥०३-५४-१०॥
तान्समीक्ष्य ततः सर्वान्निर्विशेषाकृतीन्स्थितान्। संदेहादथ वैदर्भी नाभ्यजानान्नलं नृपम् ॥ यं यं हि ददृशे तेषां तं तं मेने नलं नृपम् ॥०३-५४-११॥
सा चिन्तयन्ती बुद्ध्याथ तर्कयामास भामिनी। कथं नु देवाञ्जानीयां कथं विद्यां नलं नृपम् ॥०३-५४-१२॥
एवं सञ्चिन्तयन्ती सा वैदर्भी भृशदुःखिता। श्रुतानि देवलिङ्गानि चिन्तयामास भारत ॥०३-५४-१३॥
देवानां यानि लिङ्गानि स्थविरेभ्यः श्रुतानि मे। तानीह तिष्ठतां भूमावेकस्यापि न लक्षये ॥०३-५४-१४॥
सा विनिश्चित्य बहुधा विचार्य च पुनः पुनः। शरणं प्रति देवानां प्राप्तकालममन्यत ॥०३-५४-१५॥
वाचा च मनसा चैव नमस्कारं प्रयुज्य सा। देवेभ्यः प्राञ्जलिर्भूत्वा वेपमानेदमब्रवीत् ॥०३-५४-१६॥
हंसानां वचनं श्रुत्वा यथा मे नैषधो वृतः। पतित्वे तेन सत्येन देवास्तं प्रदिशन्तु मे ॥०३-५४-१७॥
वाचा च मनसा चैव यथा नाभिचराम्यहम्। तेन सत्येन विबुधास्तमेव प्रदिशन्तु मे ॥०३-५४-१८॥
यथा देवैः स मे भर्ता विहितो निषधाधिपः। तेन सत्येन मे देवास्तमेव प्रदिशन्तु मे ॥०३-५४-१९॥
स्वं चैव रूपं पुष्यन्तु लोकपालाः सहेश्वराः। यथाहमभिजानीयां पुण्यश्लोकं नराधिपम् ॥०३-५४-२०॥
निशम्य दमयन्त्यास्तत्करुणं परिदेवितम्। निश्चयं परमं तथ्यमनुरागं च नैषधे ॥०३-५४-२१॥
मनोविशुद्धिं बुद्धिं च भक्तिं रागं च भारत। यथोक्तं चक्रिरे देवाः सामर्थ्यं लिङ्गधारणे ॥०३-५४-२२॥
सापश्यद्विबुधान्सर्वानस्वेदान्स्तब्धलोचनान्। हृषितस्रग्रजोहीनान्स्थितानस्पृशतः क्षितिम् ॥०३-५४-२३॥
छायाद्वितीयो म्लानस्रग्रजःस्वेदसमन्वितः। भूमिष्ठो नैषधश्चैव निमेषेण च सूचितः ॥०३-५४-२४॥
सा समीक्ष्य ततो देवान्पुण्यश्लोकं च भारत। नैषधं वरयामास भैमी धर्मेण भारत ॥०३-५४-२५॥
विलज्जमाना वस्त्रान्ते जग्राहायतलोचना। स्कन्धदेशेऽसृजच्चास्य स्रजं परमशोभनाम् ॥ वरयामास चैवैनं पतित्वे वरवर्णिनी ॥०३-५४-२६॥
ततो हा हेति सहसा शब्दो मुक्तो नराधिपैः। देवैर्महर्षिभिश्चैव साधु साध्विति भारत ॥ विस्मितैरीरितः शब्दः प्रशंसद्भिर्नलं नृपम् ॥०३-५४-२७॥
वृते तु नैषधे भैम्या लोकपाला महौजसः। प्रहृष्टमनसः सर्वे नलायाष्टौ वरान्ददुः ॥०३-५४-२८॥
प्रत्यक्षदर्शनं यज्ञे गतिं चानुत्तमां शुभाम्। नैषधाय ददौ शक्रः प्रीयमाणः शचीपतिः ॥०३-५४-२९॥
अग्निरात्मभवं प्रादाद्यत्र वाञ्छति नैषधः। लोकानात्मप्रभांश्चैव ददौ तस्मै हुताशनः ॥०३-५४-३०॥
यमस्त्वन्नरसं प्रादाद्धर्मे च परमां स्थितिम्। अपाम्पतिरपां भावं यत्र वाञ्छति नैषधः ॥०३-५४-३१॥
स्रजं चोत्तमगन्धाढ्यां सर्वे च मिथुनं ददुः। वरानेवं प्रदायास्य देवास्ते त्रिदिवं गताः ॥०३-५४-३२॥
पार्थिवाश्चानुभूयास्या विवाहं विस्मयान्विताः। दमयन्त्याः प्रमुदिताः प्रतिजग्मुर्यथागतम् ॥०३-५४-३३॥
अवाप्य नारीरत्नं तत्पुण्यश्लोकोऽपि पार्थिवः। रेमे सह तया राजा शच्येव बलवृत्रहा॥०३-५४-३४॥
अतीव मुदितो राजा भ्राजमानोऽशुमानिव। अरञ्जयत्प्रजा वीरो धर्मेण परिपालयन् ॥०३-५४-३५॥
ईजे चाप्यश्वमेधेन ययातिरिव नाहुषः। अन्यैश्च क्रतुभिर्धीमान्बहुभिश्चाप्तदक्षिणैः ॥०३-५४-३६॥
पुनश्च रमणीयेषु वनेषूपवनेषु च। दमयन्त्या सह नलो विजहारामरोपमः ॥०३-५४-३७॥
एवं स यजमानश्च विहरंश्च नराधिपः। ररक्ष वसुसम्पूर्णां वसुधां वसुधाधिपः ॥०३-५४-३८॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.