03.053
बृहदश्व उवाच॥
सा नमस्कृत्य देवेभ्यः प्रहस्य नलमब्रवीत्। प्रणयस्व यथाश्रद्धं राजन्किं करवाणि ते ॥०३-५३-१॥
अहं चैव हि यच्चान्यन्ममास्ति वसु किञ्चन। सर्वं तत्तव विश्रब्धं कुरु प्रणयमीश्वर ॥०३-५३-२॥
हंसानां वचनं यत्तत्तन्मां दहति पार्थिव। त्वत्कृते हि मया वीर राजानः संनिपातिताः ॥०३-५३-३॥
यदि चेद्भजमानां मां प्रत्याख्यास्यसि मानद। विषमग्निं जलं रज्जुमास्थास्ये तव कारणात् ॥०३-५३-४॥
एवमुक्तस्तु वैदर्भ्या नलस्तां प्रत्युवाच ह। तिष्ठत्सु लोकपालेषु कथं मानुषमिच्छसि ॥०३-५३-५॥
येषामहं लोककृतामीश्वराणां महात्मनाम्। न पादरजसा तुल्यो मनस्ते तेषु वर्तताम् ॥०३-५३-६॥
विप्रियं ह्याचरन्मर्त्यो देवानां मृत्युमृच्छति। त्राहि मामनवद्याङ्गि वरयस्व सुरोत्तमान् ॥०३-५३-७॥
ततो बाष्पकलां वाचं दमयन्ती शुचिस्मिता। प्रव्याहरन्ती शनकैर्नलं राजानमब्रवीत् ॥०३-५३-८॥
अस्त्युपायो मया दृष्टो निरपायो नरेश्वर। येन दोषो न भविता तव राजन्कथञ्चन ॥०३-५३-९॥
त्वं चैव हि नरश्रेष्ठ देवाश्चाग्निपुरोगमाः। आयान्तु सहिताः सर्वे मम यत्र स्वयंवरः ॥०३-५३-१०॥
ततोऽहं लोकपालानां संनिधौ त्वां नरेश्वर। वरयिष्ये नरव्याघ्र नैवं दोषो भविष्यति ॥०३-५३-११॥
एवमुक्तस्तु वैदर्भ्या नलो राजा विशां पते। आजगाम पुनस्तत्र यत्र देवाः समागताः ॥०३-५३-१२॥
तमपश्यंस्तथायान्तं लोकपालाः सहेश्वराः। दृष्ट्वा चैनं ततोऽपृच्छन्वृत्तान्तं सर्वमेव तत् ॥०३-५३-१३॥
देवा ऊचुः॥
कच्चिद्दृष्टा त्वया राजन्दमयन्ती शुचिस्मिता। किमब्रवीच्च नः सर्वान्वद भूमिपतेऽनघ ॥०३-५३-१४॥
नल उवाच॥
भवद्भिरहमादिष्टो दमयन्त्या निवेशनम्। प्रविष्टः सुमहाकक्ष्यं दण्डिभिः स्थविरैर्वृतम् ॥०३-५३-१५॥
प्रविशन्तं च मां तत्र न कश्चिद्दृष्टवान्नरः। ऋते तां पार्थिवसुतां भवतामेव तेजसा ॥०३-५३-१६॥
सख्यश्चास्या मया दृष्टास्ताभिश्चाप्युपलक्षितः। विस्मिताश्चाभवन्दृष्ट्वा सर्वा मां विबुधेश्वराः ॥०३-५३-१७॥
वर्ण्यमानेषु च मया भवत्सु रुचिरानना। मामेव गतसङ्कल्पा वृणीते सुरसत्तमाः ॥०३-५३-१८॥
अब्रवीच्चैव मां बाला आयान्तु सहिताः सुराः। त्वया सह नरश्रेष्ठ मम यत्र स्वयंवरः ॥०३-५३-१९॥
तेषामहं संनिधौ त्वां वरयिष्ये नरोत्तम। एवं तव महाबाहो दोषो न भवितेति ह ॥०३-५३-२०॥
एतावदेव विबुधा यथावृत्तमुदाहृतम्। मयाशेषं प्रमाणं तु भवन्तस्त्रिदशेश्वराः ॥०३-५३-२१॥