03.055
बृहदश्व उवाच॥
वृते तु नैषधे भैम्या लोकपाला महौजसः। यान्तो ददृशुरायान्तं द्वापरं कलिना सह ॥०३-५५-१॥
अथाब्रवीत्कलिं शक्रः सम्प्रेक्ष्य बलवृत्रहा। द्वापरेण सहायेन कले ब्रूहि क्व यास्यसि ॥०३-५५-२॥
ततोऽब्रवीत्कलिः शक्रं दमयन्त्याः स्वयंवरम्। गत्वाहं वरयिष्ये तां मनो हि मम तद्गतम् ॥०३-५५-३॥
तमब्रवीत्प्रहस्येन्द्रो निर्वृत्तः स स्वयंवरः। वृतस्तया नलो राजा पतिरस्मत्समीपतः ॥०३-५५-४॥
एवमुक्तस्तु शक्रेण कलिः कोपसमन्वितः। देवानामन्त्र्य तान्सर्वानुवाचेदं वचस्तदा ॥०३-५५-५॥
देवानां मानुषं मध्ये यत्सा पतिमविन्दत। ननु तस्या भवेन्न्याय्यं विपुलं दण्डधारणम् ॥०३-५५-६॥
एवमुक्ते तु कलिना प्रत्यूचुस्ते दिवौकसः। अस्माभिः समनुज्ञातो दमयन्त्या नलो वृतः ॥०३-५५-७॥
कश्च सर्वगुणोपेतं नाश्रयेत नलं नृपम्। यो वेद धर्मानखिलान्यथावच्चरितव्रतः ॥०३-५५-८॥
यस्मिन्सत्यं धृतिर्दानं तपः शौचं दमः शमः। ध्रुवाणि पुरुषव्याघ्रे लोकपालसमे नृपे ॥०३-५५-९॥
आत्मानं स शपेन्मूढो हन्याच्चात्मानमात्मना। एवङ्गुणं नलं यो वै कामयेच्छपितुं कले ॥०३-५५-१०॥
कृच्छ्रे स नरके मज्जेदगाधे विपुलेऽप्लवे। एवमुक्त्वा कलिं देवा द्वापरं च дивं ययुः ॥०३-५५-११॥
ततो गतेषु देवेषु कलिर्द्वापरमब्रवीत्। संहर्तुं नोत्सहे कोपं नले वत्स्यामि द्वापर ॥०३-५५-१२॥
भ्रंशयिष्यामि तं राज्यान्न भैम्या सह रंस्यते। त्वमप्यक्षान्समाविश्य कर्तुं साहाय्यमर्हसि ॥०३-५५-१३॥