Mahabharata - Aranyaka Parva (महाभारत - आरण्यकपर्वम्)
03.085
वैशम्पायन उवाच॥
तान्सर्वानुत्सुकान्दृष्ट्वा पाण्डवान्दीनचेतसः। आश्वासयंस्तदा धौम्यो बृहस्पतिसमोऽब्रवीत् ॥०३-८५-१॥
ब्राह्मणानुमतान्पुण्यानाश्रमान्भरतर्षभ। दिशस्तीर्थानि शैलांश्च शृणु मे गदतो नृप ॥०३-८५-२॥
पूर्वं प्राचीं दिशं राजन्राजर्षिगणसेविताम्। रम्यां ते कीर्तयिष्यामि युधिष्ठिर यथास्मृति ॥०३-८५-३॥
तस्यां देवर्षिजुष्टायां नैमिषं नाम भारत। यत्र तीर्थानि देवानां सुपुण्यानि पृथक्पृथक् ॥०३-८५-४॥
यत्र सा गोमती पुण्या रम्या देवर्षिसेविता। यज्ञभूमिश्च देवानां शामित्रं च विवस्वतः ॥०३-८५-५॥
तस्यां गिरिवरः पुण्यो गयो राजर्षिसत्कृतः। शिवं ब्रह्मसरो यत्र सेवितं त्रिदशर्षिभिः ॥०३-८५-६॥
यदर्थं पुरुषव्याघ्र कीर्तयन्ति पुरातनाः। एष्टव्या बहवः पुत्रा यद्येकोऽपि गयां व्रजेत् ॥०३-८५-७॥
महानदी च तत्रैव तथा गयशिरोऽनघ। यत्रासौ कीर्त्यते विप्रैरक्षय्यकरणो वटः ॥ यत्र दत्तं पितृभ्योऽन्नमक्षय्यं भवति प्रभो ॥०३-८५-८॥
सा च पुण्यजला यत्र फल्गुनामा महानदी। बहुमूलफला चापि कौशिकी भरतर्षभ ॥ विश्वामित्रोऽभ्यगाद्यत्र ब्राह्मणत्वं तपोधनः ॥०३-८५-९॥
गङ्गा यत्र नदी पुण्या यस्यास्तीरे भगीरथः। अयजत्तात बहुभिः क्रतुभिर्भूरिदक्षिणैः ॥०३-८५-१०॥
पाञ्चालेषु च कौरव्य कथयन्त्युत्पलावतम्। विश्वामित्रोऽयजद्यत्र शक्रेण सह कौशिकः ॥ यत्रानुवंशं भगवाञ्जामदग्न्यस्तथा जगौ ॥०३-८५-११॥
विश्वामित्रस्य तां दृष्ट्वा विभूतिमतिमानुषीम्। कन्यकुब्जेऽपिबत्सोममिन्द्रेण सह कौशिकः ॥ ततः क्षत्रादपाक्रामद्ब्राह्मणोऽस्मीति चाब्रवीत् ॥०३-८५-१२॥
पवित्रमृषिभिर्जुष्टं पुण्यं पावनमुत्तमम्। गङ्गायमुनयोर्वीर सङ्गमं लोकविश्रुतम् ॥०३-८५-१३॥
यत्रायजत भूतात्मा पूर्वमेव पितामहः। प्रयागमिति विख्यातं तस्माद्भरतसत्तम ॥०३-८५-१४॥
अगस्त्यस्य च राजेन्द्र तत्राश्रमवरो महान्। हिरण्यबिन्दुः कथितो गिरौ कालञ्जरे नृप ॥०३-८५-१५॥
अत्यन्यान्पर्वतान्राजन्पुण्यो गिरिवरः शिवः। महेन्द्रो नाम कौरव्य भार्गवस्य महात्मनः ॥०३-८५-१६॥
अयजद्यत्र कौन्तेय पूर्वमेव पितामहः। यत्र भागीरथी पुण्या सदस्यासीद्युधिष्ठिर ॥०३-८५-१७॥
यत्रासौ ब्रह्मशालेति पुण्या ख्याता विशां पते। धूतपाप्मभिराकीर्णा पुण्यं तस्याश्च दर्शनम् ॥०३-८५-१८॥
पवित्रो मङ्गलीयश्च ख्यातो लोके सनातनः। केदारश्च मतङ्गस्य महानाश्रम उत्तमः ॥०३-८५-१९॥
कुण्डोदः पर्वतो रम्यो बहुमूलफलोदकः। नैषधस्तृषितो यत्र जलं शर्म च लब्धवान् ॥०३-८५-२०॥
यत्र देववनं रम्यं तापसैरुपशोभितम्। बाहुदा च नदी यत्र नन्दा च गिरिमूर्धनि ॥०३-८५-२१॥
तीर्थानि सरितः शैलाः पुण्यान्यायतनानि च। प्राच्यां दिशि महाराज कीर्तितानि मया तव ॥०३-८५-२२॥
तिसृष्वन्यासु पुण्यानि दिक्षु तीर्थानि मे शृणु। सरितः पर्वतांश्चैव पुण्यान्यायतनानि च ॥०३-८५-२३॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.