03.086
धौम्य उवाच॥
दक्षिणस्यां तु पुण्यानि शृणु तीर्थानि भारत। विस्तरेण यथाबुद्धि कीर्त्यमानानि भारत ॥०३-८६-१॥
यस्यामाख्यायते पुण्या दिशि गोदावरी नदी। बह्वारामा बहुजला तापसाचरिता शुभा ॥०३-८६-२॥
वेण्णा भीमरथी चोभे नद्यौ पापभयापहे। मृगद्विजसमाकीर्णे तापसालयभूषिते ॥०३-८६-३॥
राजर्षेस्तत्र च सरिन्नृगस्य भरतर्षभ। रम्यतीर्था बहुजला पयोष्णी द्विजसेविता ॥०३-८६-४॥
अपि चात्र महायोगी मार्कण्डेयो महातपाः। अनुवंष्यां जगौ गाथां नृगस्य धरणीपतेः ॥०३-८६-५॥
नृगस्य यजमानस्य प्रत्यक्षमिति नः श्रुतम्। अमाद्यदिन्द्रः सोमेन दक्षिणाभिर्द्विजातयः ॥०३-८६-६॥
माठरस्य वनं पुण्यं बहुमूलफलं शिवम्। यूपश्च भरतश्रेष्ठ वरुणस्रोतसे गिरौ ॥०३-८६-७॥
प्रवेण्युत्तरपार्श्वे तु पुण्ये कण्वाश्रमे तथा। तापसानामरण्यानि कीर्तितानि यथाश्रुति ॥०३-८६-८॥
वेदी शूर्पारके तात जमदग्नेर्महात्मनः। रम्या पाषाणतीर्था च पुरश्चन्द्रा च भारत ॥०३-८६-९॥
अशोकतीर्थं मर्त्येषु कौन्तेय बहुलाश्रमम्। अगस्त्यतीर्थं पाण्ड्येषु वारुणं च युधिष्ठिर ॥०३-८६-१०॥
कुमार्यः कथिताः पुण्याः पाण्ड्येष्वेव नरर्षभ। ताम्रपर्णीं तु कौन्तेय कीर्तयिष्यामि तां शृणु ॥०३-८६-११॥
यत्र देवैस्तपस्तप्तं महदिच्छद्भिराश्रमे। गोकर्णमिति विख्यातं त्रिषु लोकेषु भारत ॥०३-८६-१२॥
शीततोयो बहुजलः पुण्यस्तात शिवश्च सः। ह्रदः परमदुष्प्रापो मानुषैरकृतात्मभिः ॥०३-८६-१३॥
तत्रैव तृणसोमाग्नेः सम्पन्नफलमूलवान्। आश्रमोऽगस्त्यशिष्यस्य पुण्यो देवसभे गिरौ ॥०३-८६-१४॥
वैडूर्यपर्वतस्तत्र श्रीमान्मणिमयः शिवः। अगस्त्यस्याश्रमश्चैव बहुमूलफलोदकः ॥०३-८६-१५॥
सुराष्ट्रेष्वपि वक्ष्यामि पुण्यान्यायतनानि च। आश्रमान्सरितः शैलान्सरांसि च नराधिप ॥०३-८६-१६॥
चमसोन्मज्जनं विप्रास्तत्रापि कथयन्त्युत। प्रभासं चोदधौ तीर्थं त्रिदशानां युधिष्ठिर ॥०३-८६-१७॥
तत्र पिण्डारकं नाम तापसाचरितं शुभम्। उज्जयन्तश्च शिखरी क्षिप्रं सिद्धिकरो महान् ॥०३-८६-१८॥
तत्र देवर्षिवर्येण नारदेनानुकीर्तितः। पुराणः श्रूयते श्लोकस्तं निबोध युधिष्ठिर ॥०३-८६-१९॥
पुण्ये गिरौ सुराष्ट्रेषु मृगपक्षिनिषेविते। उज्जयन्ते स्म तप्ताङ्गो नाकपृष्ठे महीयते ॥०३-८६-२०॥
पुण्या द्वारवती तत्र यत्रास्ते मधुसूदनः। साक्षाद्देवः पुराणोऽसौ स हि धर्मः सनातनः ॥०३-८६-२१॥
ये च वेदविदो विप्रा ये चाध्यात्मविदो जनाः। ते वदन्ति महात्मानं कृष्णं धर्मं सनातनम् ॥०३-८६-२२॥
पवित्राणां हि गोविन्दः पवित्रं परमुच्यते। पुण्यानामपि पुण्योऽसौ मङ्गलानां च मङ्गलम् ॥०३-८६-२३॥
त्रैलोक्यं पुण्डरीकाक्षो देवदेवः सनातनः। आस्ते हरिरचिन्त्यात्मा तत्रैव मधुसूदनः ॥०३-८६-२४॥