03.084
वैशम्पायन उवाच॥
भ्रातॄणां मतमाज्ञाय नारदस्य च धीमतः। पितामहसमं धौम्यं प्राह राजा युधिष्ठिरः ॥०३-८४-१॥
मया स पुरुषव्याघ्रो जिष्णुः सत्यपराक्रमः। अस्त्रहेतोर्महाबाहुरमितात्मा विवासितः ॥०३-८४-२॥
स हि वीरोऽनुरक्तश्च समर्थश्च तपोधन। कृती च भृशमप्यस्त्रे वासुदेव इव प्रभुः ॥०३-८४-३॥
अहं ह्येतावुभौ ब्रह्मन्कृष्णावरिनिघातिनौ। अभिजानामि विक्रान्तौ तथा व्यासः प्रतापवान् ॥ त्रियुगौ पुण्डरीकाक्षौ वासुदेवधनञ्जयौ ॥०३-८४-४॥
नारदोऽपि तथा वेद सोऽप्यशंसत्सदा मम। तथाहमपि जानामि नरनारायणावृषी ॥०३-८४-५॥
शक्तोऽयमित्यतो मत्वा मया सम्प्रेषितोऽर्जुनः। इन्द्रादनवरः शक्तः सुरसूनुः सुराधिपम् ॥ द्रष्टुमस्त्राणि चादातुमिन्द्रादिति विवासितः ॥०३-८४-६॥
भीष्मद्रोणावतिरथौ कृपो द्रौणिश्च दुर्जयः। धृतराष्ट्रस्य पुत्रेण वृता युधि महाबलाः ॥ सर्वे वेदविदः शूराः सर्वेऽस्त्रकुशलास्तथा ॥०३-८४-७॥
योद्धुकामश्च पार्थेन सततं यो महाबलः। स च दिव्यास्त्रवित्कर्णः सूतपुत्रो महारथः ॥०३-८४-८॥
सोऽश्ववेगानिलबलः शरार्चिस्तलनिस्वनः। रजोधूमोऽस्त्रसन्तापो धार्तराष्ट्रानिलोद्धतः ॥०३-८४-९॥
निसृष्ट इव कालेन युगान्तज्वलनो यथा। मम सैन्यमयं कक्षं प्रधक्ष्यति न संशयः ॥०३-८४-१०॥
तं स कृष्णानिलोद्धूतो दिव्यास्त्रजलदो महान्। श्वेतवाजिबलाकाभृद्गाण्डीवेन्द्रायुधोज्ज्वलः ॥०३-८४-११॥
सततं शरधाराभिः प्रदीप्तं कर्णपावकम्। उदीर्णोऽर्जुनमेघोऽयं शमयिष्यति संयुगे ॥०३-८४-१२॥
स साक्षादेव सर्वाणि शक्रात्परपुरञ्जयः। दिव्यान्यस्त्राणि बीभत्सुस्तत्त्वतः प्रतिपत्स्यते ॥०३-८४-१३॥
अलं स तेषां सर्वेषामिति मे धीयते मतिः। नास्ति त्वतिक्रिया तस्य रणेऽरीणां प्रतिक्रिया ॥०३-८४-१४॥
तं वयं पाण्डवं सर्वे गृहीतास्त्रं धनञ्जयम्। द्रष्टारो न हि बीभत्सुर्भारमुद्यम्य सीदति ॥०३-८४-१५॥
वयं तु तमृते वीरं वनेऽस्मिन्द्विपदां वर। अवधानं न गच्छामः काम्यके सह कृष्णया ॥०३-८४-१६॥
भवानन्यद्वनं साधु बह्वन्नं फलवच्छुचि। आख्यातु रमणीयं च सेवितं पुण्यकर्मभिः ॥०३-८४-१७॥
यत्र कञ्चिद्वयं कालं वसन्तः सत्यविक्रमम्। प्रतीक्षामोऽर्जुनं वीरं वर्षकामा इवाम्बुदम् ॥०३-८४-१८॥
विविधानाश्रमान्कांश्चिद्द्विजातिभ्यः परिश्रुतान्। सरांसि सरितश्चैव रमणीयांश्च पर्वतान् ॥०३-८४-१९॥
आचक्ष्व न हि नो ब्रह्मन्रोचते तमृतेऽर्जुनम्। वनेऽस्मिन्काम्यके वासो गच्छामोऽन्यां दिशं प्रति ॥०३-८४-२०॥