Mahabharata - Aranyaka Parva (महाभारत - आरण्यकपर्वम्)
03.149
भीम उवाच॥
पूर्वरूपमदृष्ट्वा ते न यास्यामि कथञ्चन। यदि तेऽहमनुग्राह्यो दर्शयात्मानमात्मना ॥०३-१४९-१॥
वैशम्पायन उवाच॥
एवमुक्तस्तु भीमेन स्मितं कृत्वा प्लवङ्गमः। तद्रूपं दर्शयामास यद्वै सागरलङ्घने ॥०३-१४९-२॥
भ्रातुः प्रियमभीप्सन्वै चकार सुमहद्वपुः। देहस्तस्य ततोऽतीव वर्धत्यायामविस्तरैः ॥०३-१४९-३॥
तद्रूपं कदलीषण्डं छादयन्नमितद्युतिः। गिरेश्चोच्छ्रयमागम्य तस्थौ तत्र स वानरः ॥०३-१४९-४॥
समुच्छ्रितमहाकायो द्वितीय इव पर्वतः। ताम्रेक्षणस्तीक्ष्णदंष्ट्रो भृकुटीकृतलोचनः ॥ दीर्घलाङ्गूलमाविध्य दिशो व्याप्य स्थितः कपिः ॥०३-१४९-५॥
तद्रूपं महदालक्ष्य भ्रातुः कौरवनन्दनः। विसिस्मिये तदा भीमो जहृषे च पुनः पुनः ॥०३-१४९-६॥
तमर्कमिव तेजोभिः सौवर्णमिव पर्वतम्। प्रदीप्तमिव चाकाशं दृष्ट्वा भीमो न्यमीलयत् ॥०३-१४९-७॥
आबभाषे च हनुमान्भीमसेनं स्मयन्निव। एतावदिह शक्तस्त्वं रूपं द्रष्टुं ममानघ ॥०३-१४९-८॥
वर्धेऽहं चाप्यतो भूयो यावन्मे मनसेप्सितम्। भीम शत्रुषु चात्यर्थं वर्धते मूर्तिरोजसा ॥०३-१४९-९॥
तदद्भुतं महारौद्रं विन्ध्यमन्दरसंनिभम्। दृष्ट्वा हनूमतो वर्ष्म सम्भ्रान्तः पवनात्मजः ॥०३-१४९-१०॥
प्रत्युवाच ततो भीमः सम्प्रहृष्टतनूरुहः। कृताञ्जलिरदीनात्मा हनूमन्तमवस्थितम् ॥०३-१४९-११॥
दृष्टं प्रमाणं विपुलं शरीरस्यास्य ते विभो। संहरस्व महावीर्य स्वयमात्मानमात्मना ॥०३-१४९-१२॥
न हि शक्नोमि त्वां द्रष्टुं दिवाकरमिवोदितम्। अप्रमेयमनाधृष्यं मैनाकमिव पर्वतम् ॥०३-१४९-१३॥
विस्मयश्चैव मे वीर सुमहान्मनसोऽद्य वै। यद्रामस्त्वयि पार्श्वस्थे स्वयं रावणमभ्यगात् ॥०३-१४९-१४॥
त्वमेव शक्तस्तां लङ्कां सयोधां सहवाहनाम्। स्वबाहुबलमाश्रित्य विनाशयितुमोजसा ॥०३-१४९-१५॥
न हि ते किञ्चिदप्राप्यं मारुतात्मज विद्यते। तव नैकस्य पर्याप्तो रावणः सगणो युधि ॥०३-१४९-१६॥
एवमुक्तस्तु भीमेन हनूमान्प्लवगर्षभः। प्रत्युवाच ततो वाक्यं स्निग्धगम्भीरया गिरा ॥०३-१४९-१७॥
एवमेतन्महाबाहो यथा वदसि भारत। भीमसेन न पर्याप्तो ममासौ राक्षसाधमः ॥०३-१४९-१८॥
मया तु तस्मिन्निहते रावणे लोककण्टके। कीर्तिर्नश्येद्राघवस्य तत एतदुपेक्षितम् ॥०३-१४९-१९॥
तेन वीरेण हत्वा तु सगणं राक्षसाधिपम्। आनीता स्वपुरं सीता लोके कीर्तिश्च स्थापिता ॥०३-१४९-२०॥
तद्गच्छ विपुलप्रज्ञ भ्रातुः प्रियहिते रतः। अरिष्टं क्षेममध्वानं वायुना परिरक्षितः ॥०३-१४९-२१॥
एष पन्थाः कुरुश्रेष्ठ सौगन्धिकवनाय ते। द्रक्ष्यसे धनदोद्यानं रक्षितं यक्षराक्षसैः ॥०३-१४९-२२॥
न च ते तरसा कार्यः कुसुमावचयः स्वयम्। दैवतानि हि मान्यानि पुरुषेण विशेषतः ॥०३-१४९-२३॥
बलिहोमनमस्कारैर्मन्त्रैश्च भरतर्षभ। दैवतानि प्रसादं हि भक्त्या कुर्वन्ति भारत ॥०३-१४९-२४॥
मा तात साहसं कार्षीः स्वधर्ममनुपालय। स्वधर्मस्थः परं धर्मं बुध्यस्वागमयस्व च ॥०३-१४९-२५॥
न हि धर्ममविज्ञाय वृद्धाननुपसेव्य च। धर्मो वै वेदितुं शक्यो बृहस्पतिसमैरपि ॥०३-१४९-२६॥
अधर्मो यत्र धर्माख्यो धर्मश्चाधर्मसञ्ज्ञितः। विज्ञातव्यो विभागेन यत्र मुह्यन्त्यबुद्धयः ॥०३-१४९-२७॥
आचारसम्भवो धर्मो धर्माद्वेदाः समुत्थिताः। वेदैर्यज्ञाः समुत्पन्ना यज्ञैर्देवाः प्रतिष्ठिताः ॥०३-१४९-२८॥
वेदाचारविधानोक्तैर्यज्ञैर्धार्यन्ति देवताः। बृहस्पत्युशनोक्तैश्च नयैर्धार्यन्ति मानवाः ॥०३-१४९-२९॥
पण्याकरवणिज्याभिः कृष्याथो योनिपोषणैः। वार्तया धार्यते सर्वं धर्मैरेतैर्द्विजातिभिः ॥०३-१४९-३०॥
त्रयी वार्ता दण्डनीतिस्तिस्रो विद्या विजानताम्। ताभिः सम्यक्प्रयुक्ताभिर्लोकयात्रा विधीयते ॥०३-१४९-३१॥
सा चेद्धर्मक्रिया न स्यात्त्रयीधर्ममृते भुवि। दण्डनीतिमृते चापि निर्मर्यादमिदं भवेत् ॥०३-१४९-३२॥
वार्ताधर्मे ह्यवर्तन्त्यो विनश्येयुरिमाः प्रजाः। सुप्रवृत्तैस्त्रिभिर्ह्येतैर्धर्मैः सूयन्ति वै प्रजाः ॥०३-१४९-३३॥
द्विजानाममृतं धर्मो ह्येकश्चैवैकवर्णिकः। यज्ञाध्ययनदानानि त्रयः साधारणाः स्मृताः ॥०३-१४९-३४॥
याजनाध्यापने चोभे ब्राह्मणानां प्रतिग्रहः। पालनं क्षत्रियाणां वै वैश्यधर्मश्च पोषणम् ॥०३-१४९-३५॥
शुश्रूषा तु द्विजातीनां शूद्राणां धर्म उच्यते। भैक्षहोमव्रतैर्हीनास्तथैव गुरुवासिनाम् ॥०३-१४९-३६॥
क्षत्रधर्मोऽत्र कौन्तेय तव धर्माभिरक्षणम्। स्वधर्मं प्रतिपद्यस्व विनीतो नियतेन्द्रियः ॥०३-१४९-३७॥
वृद्धैः संमन्त्र्य सद्भिश्च बुद्धिमद्भिः श्रुतान्वितैः। सुस्थितः शास्ति दण्डेन व्यसनी परिभूयते ॥०३-१४९-३८॥
निग्रहानुग्रहैः सम्यग्यदा राजा प्रवर्तते। तदा भवति लोकस्य मर्यादा सुव्यवस्थिता ॥०३-१४९-३९॥
तस्माद्देशे च दुर्गे च शत्रुमित्रबलेषु च। नित्यं चारेण बोद्धव्यं स्थानं वृद्धिः क्षयस्तथा ॥०३-१४९-४०॥
राज्ञामुपायाश्चत्वारो बुद्धिमन्त्रः पराक्रमः। निग्रहानुग्रहौ चैव दाक्ष्यं तत्कार्यसाधनम् ॥०३-१४९-४१॥
साम्ना दानेन भेदेन दण्डेनोपेक्षणेन च। साधनीयानि कार्याणि समासव्यासयोगतः ॥०३-१४९-४२॥
मन्त्रमूला नयाः सर्वे चाराश्च भरतर्षभ। सुमन्त्रितैर्नयैः सिद्धिस्तद्विदैः सह मन्त्रयेत् ॥०३-१४९-४३॥
स्त्रिया मूढेन लुब्धेन बालेन लघुना तथा। न मन्त्रयेत गुह्यानि येषु चोन्मादलक्षणम् ॥०३-१४९-४४॥
मन्त्रयेत्सह विद्वद्भिः शक्तैः कर्माणि कारयेत्। स्निग्धैश्च नीतिविन्यासान्मूर्खान्सर्वत्र वर्जयेत् ॥०३-१४९-४५॥
धार्मिकान्धर्मकार्येषु अर्थकार्येषु पण्डितान्। स्त्रीषु क्लीबान्नियुञ्जीत क्रूरान्क्रूरेषु कर्मसु ॥०३-१४९-४६॥
स्वेभ्यश्चैव परेभ्यश्च कार्याकार्यसमुद्भवा। बुद्धिः कर्मसु विज्ञेया रिपूणां च बलाबलम् ॥०३-१४९-४७॥
बुद्ध्या सुप्रतिपन्नेषु कुर्यात्साधुपरिग्रहम्। निग्रहं चाप्यशिष्टेषु निर्मर्यादेषु कारयेत् ॥०३-१४९-४८॥
निग्रहे प्रग्रहे सम्यग्यदा राजा प्रवर्तते। तदा भवति लोकस्य मर्यादा सुव्यवस्थिता ॥०३-१४९-४९॥
एष ते विहितः पार्थ घोरो धर्मो दुरन्वयः। तं स्वधर्मविभागेन विनयस्थोऽनुपालय ॥०३-१४९-५०॥
तपोधर्मदमेज्याभिर्विप्रा यान्ति यथा दिवम्। दानातिथ्यक्रियाधर्मैर्यान्ति वैश्याश्च सद्गतिम् ॥०३-१४९-५१॥
क्षत्रं याति तथा स्वर्गं भुवि निग्रहपालनैः। सम्यक्प्रणीय दण्डं हि कामद्वेषविवर्जिताः ॥ अलुब्धा विगतक्रोधाः सतां यान्ति सलोकताम् ॥०३-१४९-५२॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.