Mahabharata - Aranyaka Parva (महाभारत - आरण्यकपर्वम्)
03.150
वैशम्पायन उवाच॥
ततः संहृत्य विपुलं तद्वपुः कामवर्धितम्। भीमसेनं पुनर्दोर्भ्यां पर्यष्वजत वानरः ॥०३-१५०-१॥
परिष्वक्तस्य तस्याशु भ्रात्रा भीमस्य भारत। श्रमो नाशमुपागच्छत्सर्वं चासीत्प्रदक्षिणम् ॥०३-१५०-२॥
ततः पुनरथोवाच पर्यश्रुनयनो हरिः। भीममाभाष्य सौहार्दाद्बाष्पगद्गदया गिरा ॥०३-१५०-३॥
गच्छ वीर स्वमावासं स्मर्तव्योऽस्मि कथान्तरे। इहस्थश्च कुरुश्रेष्ठ न निवेद्योऽस्मि कस्यचित् ॥०३-१५०-४॥
धनदस्यालयाच्चापि विसृष्टानां महाबल। देशकाल इहायातुं देवगन्धर्वयोषिताम् ॥०३-१५०-५॥
ममापि सफलं चक्षुः स्मारितश्चास्मि राघवम्। मानुषं गात्रसंस्पर्शं गत्वा भीम त्वया सह ॥०३-१५०-६॥
तदस्मद्दर्शनं वीर कौन्तेयामोघमस्तु ते। भ्रातृत्वं त्वं पुरस्कृत्य वरं वरय भारत ॥०३-१५०-७॥
यदि तावन्मया क्षुद्रा गत्वा वारणसाह्वयम्। धार्तराष्ट्रा निहन्तव्या यावदेतत्करोम्यहम् ॥०३-१५०-८॥
शिलया नगरं वा तन्मर्दितव्यं मया यदि। यावदद्य करोम्येतत्कामं तव महाबल ॥०३-१५०-९॥
भीमसेनस्तु तद्वाक्यं श्रुत्वा तस्य महात्मनः। प्रत्युवाच हनूमन्तं प्रहृष्टेनान्तरात्मना ॥०३-१५०-१०॥
कृतमेव त्वया सर्वं मम वानरपुङ्गव। स्वस्ति तेऽस्तु महाबाहो क्षामये त्वां प्रसीद मे ॥०३-१५०-११॥
सनाथाः पाण्डवाः सर्वे त्वया नाथेन वीर्यवन्। तवैव तेजसा सर्वान्विजेष्यामो वयं रिपून् ॥०३-१५०-१२॥
एवमुक्तस्तु हनुमान्भीमसेनमभाषत। भ्रातृत्वात्सौहृदाच्चापि करिष्यामि तव प्रियम् ॥०३-१५०-१३॥
चमूं विगाह्य शत्रूणां शरशक्तिसमाकुलाम्। यदा सिंहरवं वीर करिष्यसि महाबल ॥ तदाहं बृंहयिष्यामि स्वरवेण रवं तव ॥०३-१५०-१४॥
विजयस्य ध्वजस्थश्च नादान्मोक्ष्यामि दारुणान्। शत्रूणां ते प्राणहरानित्युक्त्वान्तरधीयत ॥०३-१५०-१५॥
गते तस्मिन्हरिवरे भीमोऽपि बलिनां वरः। तेन मार्गेण विपुलं व्यचरद्गन्धमादनम् ॥०३-१५०-१६॥
अनुस्मरन्वपुस्तस्य श्रियं चाप्रतिमां भुवि। माहात्म्यमनुभावं च स्मरन्दाशरथेर्ययौ ॥०३-१५०-१७॥
स तानि रमणीयानि वनान्युपवनानि च। विलोडयामास तदा सौगन्धिकवनेप्सया ॥०३-१५०-१८॥
फुल्लपद्मविचित्राणि पुष्पितानि वनानि च। मत्तवारणयूथानि पङ्कक्लिन्नानि भारत ॥ वर्षतामिव मेघानां वृन्दानि ददृशे तदा ॥०३-१५०-१९॥
हरिणैश्चञ्चलापाङ्गैर्हरिणीसहितैर्वने। सशष्पकवलैः श्रीमान्पथि दृष्टो द्रुतं ययौ ॥०३-१५०-२०॥
महिषैश्च वराहैश्च शार्दूलैश्च निषेवितम्। व्यपेतभीर्गिरिं शौर्याद्भीमसेनो व्यगाहत ॥०३-१५०-२१॥
कुसुमानतशाखैश्च ताम्प्रपल्लवकोमलैः। याच्यमान इवारण्ये द्रुमैर्मारुतकम्पितैः ॥०३-१५०-२२॥
कृतपद्माञ्जलिपुटा मत्तषट्पदसेविताः। प्रियतीर्थवना मार्गे पद्मिनीः समतिक्रमन् ॥०३-१५०-२३॥
सज्जमानमनोदृष्टिः फुल्लेषु गिरिसानुषु। द्रौपदीवाक्यपाथेयो भीमः शीघ्रतरं ययौ ॥०३-१५०-२४॥
परिवृत्तेऽहनि ततः प्रकीर्णहरिणे वने। काञ्चनैर्विमलैः पद्मैर्ददर्श विपुलां नदीम् ॥०३-१५०-२५॥
मत्तकारण्डवयुतां चक्रवाकोपशोभिताम्। रचितामिव तस्याद्रेर्मालां विमलपङ्कजाम् ॥०३-१५०-२६॥
तस्यां नद्यां महासत्त्वः सौगन्धिकवनं महत्। अपश्यत्प्रीतिजननं बालार्कसदृशद्युति ॥०३-१५०-२७॥
तद्दृष्ट्वा लब्धकामः स मनसा पाण्डुनन्दनः। वनवासपरिक्लिष्टां जगाम मनसा प्रियाम् ॥०३-१५०-२८॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.