Mahabharata - Aranyaka Parva (महाभारत - आरण्यकपर्वम्)
03.148
वैशम्पायन उवाच॥
एवमुक्तो महाबाहुर्भीमसेनः प्रतापवान्। प्रणिपत्य ततः प्रीत्या भ्रातरं हृष्टमानसः ॥ उवाच श्लक्ष्णया वाचा हनूमन्तं कपीश्वरम् ॥०३-१४८-१॥
मया धन्यतरो नास्ति यदार्यं दृष्टवानहम्। अनुग्रहो मे सुमहांस्तृप्तिश्च तव दर्शनात् ॥०३-१४८-२॥
एवं तु कृतमिच्छामि त्वयार्याद्य प्रियं मम। यत्ते तदासीत्प्लवतः सागरं मकरालयम् ॥ रूपमप्रतिमं वीर तदिच्छामि निरीक्षितुम् ॥०३-१४८-३॥
एवं तुष्टो भविष्यामि श्रद्धास्यामि च ते वचः। एवमुक्तः स तेजस्वी प्रहस्य हरिरब्रवीत् ॥०३-१४८-४॥
न तच्छक्यं त्वया द्रष्टुं रूपं नान्येन केनचित्। कालावस्था तदा ह्यन्या वर्तते सा न साम्प्रतम् ॥०३-१४८-५॥
अन्यः कृतयुगे कालस्त्रेतायां द्वापरेऽपरः। अयं प्रध्वंसनः कालो नाद्य तद्रूपमस्ति मे ॥०३-१४८-६॥
भूमिर्नद्यो नगाः शैलाः सिद्धा देवा महर्षयः। कालं समनुवर्तन्ते यथा भावा युगे युगे ॥ बलवर्ष्मप्रभावा हि प्रहीयन्त्युद्भवन्ति च ॥०३-१४८-७॥
तदलं तव तद्रूपं द्रष्टुं कुरुकुलोद्वह। युगं समनुवर्तामि कालो हि दुरतिक्रमः ॥०३-१४८-८॥
भीम उवाच॥
युगसङ्ख्यां समाचक्ष्व आचारं च युगे युगे। धर्मकामार्थभावांश्च वर्ष्म वीर्यं भवाभवौ ॥०३-१४८-९॥
हनूमानुवाच॥
कृतं नाम युगं तात यत्र धर्मः सनातनः। कृतमेव न कर्तव्यं तस्मिन्काले युगोत्तमे ॥०३-१४८-१०॥
न तत्र धर्माः सीदन्ति न क्षीयन्ते च वै प्रजाः। ततः कृतयुगं नाम कालेन गुणतां गतम् ॥०३-१४८-११॥
देवदानवगन्धर्वयक्षराक्षसपन्नगाः। नासन्कृतयुगे तात तदा न क्रयविक्रयाः ॥०३-१४८-१२॥
न सामयजुऋग्वर्णाः क्रिया नासीच्च मानवी। अभिध्याय फलं तत्र धर्मः संन्यास एव च ॥०३-१४८-१३॥
न तस्मिन्युगसंसर्गे व्याधयो नेन्द्रियक्षयः। नासूया नापि रुदितं न दर्पो नापि पैशुनम् ॥०३-१४८-१४॥
न विग्रहः कुतस्तन्द्री न द्वेषो नापि वैकृतम्। न भयं न च सन्तापो न चेर्ष्या न च मत्सरः ॥०३-१४८-१५॥
ततः परमकं ब्रह्म या गतिर्योगिनां परा। आत्मा च सर्वभूतानां शुक्लो नारायणस्तदा ॥०३-१४८-१६॥
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्च कृतलक्षणाः। कृते युगे समभवन्स्वकर्मनिरताः प्रजाः ॥०३-१४८-१७॥
समाश्रमं समाचारं समज्ञानमतीबलम्। तदा हि समकर्माणो वर्णा धर्मानवाप्नुवन् ॥०३-१४८-१८॥
एकवेदसमायुक्ता एकमन्त्रविधिक्रियाः। पृथग्धर्मास्त्वेकवेदा धर्ममेकमनुव्रताः ॥०३-१४८-१९॥
चातुराश्रम्ययुक्तेन कर्मणा कालयोगिना। अकामफलसंयोगात्प्राप्नुवन्ति परां गतिम् ॥०३-१४८-२०॥
आत्मयोगसमायुक्तो धर्मोऽयं कृतलक्षणः। कृते युगे चतुष्पादश्चातुर्वर्ण्यस्य शाश्वतः ॥०३-१४८-२१॥
एतत्कृतयुगं नाम त्रैगुण्यपरिवर्जितम्। त्रेतामपि निबोध त्वं यस्मिन्सत्रं प्रवर्तते ॥०३-१४८-२२॥
पादेन ह्रसते धर्मो रक्ततां याति चाच्युतः। सत्यप्रवृत्ताश्च नराः क्रियाधर्मपरायणाः ॥०३-१४८-२३॥
ततो यज्ञाः प्रवर्तन्ते धर्माश्च विविधाः क्रियाः। त्रेतायां भावसङ्कल्पाः क्रियादानफलोदयाः ॥०३-१४८-२४॥
प्रचलन्ति न वै धर्मात्तपोदानपरायणाः। स्वधर्मस्थाः क्रियावन्तो जनास्त्रेतायुगेऽभवन् ॥०३-१४८-२५॥
द्वापरेऽपि युगे धर्मो द्विभागोनः प्रवर्तते। विष्णुर्वै पीततां याति चतुर्धा वेद एव च ॥०३-१४८-२६॥
ततोऽन्ये च चतुर्वेदास्त्रिवेदाश्च तथापरे। द्विवेदाश्चैकवेदाश्चाप्यनृचश्च तथापरे ॥०३-१४८-२७॥
एवं शास्त्रेषु भिन्नेषु बहुधा नीयते क्रिया। तपोदानप्रवृत्ता च राजसी भवति प्रजा ॥०३-१४८-२८॥
एकवेदस्य चाज्ञानाद्वेदास्ते बहवः कृताः। सत्यस्य चेह विभ्रंशात्सत्ये कश्चिदवस्थितः ॥०३-१४८-२९॥
सत्यात्प्रच्यवमानानां व्याधयो बहवोऽभवन्। कामाश्चोपद्रवाश्चैव तदा दैवतकारिताः ॥०३-१४८-३०॥
यैरर्द्यमानाः सुभृशं तपस्तप्यन्ति मानवाः। कामकामाः स्वर्गकामा यज्ञांस्तन्वन्ति चापरे ॥०३-१४८-३१॥
एवं द्वापरमासाद्य प्रजाः क्षीयन्त्यधर्मतः। पादेनैकेन कौन्तेय धर्मः कलियुगे स्थितः ॥०३-१४८-३२॥
तामसं युगमासाद्य कृष्णो भवति केशवः। वेदाचाराः प्रशाम्यन्ति धर्मयज्ञक्रियास्तथा ॥०३-१४८-३३॥
ईतयो व्याधयस्तन्द्री दोषाः क्रोधादयस्तथा। उपद्रवाश्च वर्तन्ते आधयो व्याधयस्तथा ॥०३-१४८-३४॥
युगेष्वावर्तमानेषु धर्मो व्यावर्तते पुनः। धर्मे व्यावर्तमाने तु लोको व्यावर्तते पुनः ॥०३-१४८-३५॥
लोके क्षीणे क्षयं यान्ति भावा लोकप्रवर्तकाः। युगक्षयकृता धर्माः प्रार्थनानि विकुर्वते ॥०३-१४८-३६॥
एतत्कलियुगं नाम अचिराद्यत्प्रवर्तते। युगानुवर्तनं त्वेतत्कुर्वन्ति चिरजीविनः ॥०३-१४८-३७॥
यच्च ते मत्परिज्ञाने कौतूहलमरिंदम। अनर्थकेषु को भावः पुरुषस्य विजानतः ॥०३-१४८-३८॥
एतत्ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि। युगसङ्ख्यां महाबाहो स्वस्ति प्राप्नुहि गम्यताम् ॥०३-१४८-३९॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.