Mahabharata - Aranyaka Parva (महाभारत - आरण्यकपर्वम्)
03.174
वैशम्पायन उवाच॥
नगोत्तमं प्रस्रवणैरुपेतं; दिशां गजैः किंनरपक्षिभिश्च। सुखं निवासं जहतां हि तेषां; न प्रीतिरासीद्भरतर्षभाणाम् ॥०३-१७४-१॥
ततस्तु तेषां पुनरेव हर्षः; कैलासमालोक्य महान्बभूव। कुबेरकान्तं भरतर्षभाणां; महीधरं वारिधरप्रकाशम् ॥०३-१७४-२॥
समुच्छ्रयान्पर्वतसंनिरोधा; न्गोष्ठान्गिरीणां गिरिसेतुमालाः। बहून्प्रपातांश्च समीक्ष्य वीराः; स्थलानि निम्नानि च तत्र तत्र ॥०३-१७४-३॥
तथैव चान्यानि महावनानि; मृगद्विजानेकपसेवितानि। आलोकयन्तोऽभिययुः प्रतीता; स्ते धन्विनः खड्गधरा नराग्र्याः ॥०३-१७४-४॥
वनानि रम्याणि सरांसि नद्यो; गुहा गिरीणां गिरिगह्वराणि। एते निवासाः सततं बभूवुः निशानिशं प्राप्य नरर्षभाणाम्॥०३-१७४-५॥
ते दुर्गवासं बहुधा निरुष्य; व्यतीत्य कैलासमचिन्त्यरूपम्। आसेदुरत्यर्थमनोरमं वै; तमाश्रमाग्र्यं वृषपर्वणस्ते ॥०३-१७४-६॥
समेत्य राज्ञा वृषपर्वणस्ते; प्रत्यर्चितास्तेन च वीतमोहाः। शशंसिरे विस्तरशः प्रवासं; शिवं यथावद्वृषपर्वणस्ते ॥०३-१७४-७॥
सुखोषितास्तत्र त एकरात्रं; पुण्याश्रमे देवमहर्षिजुष्टे। अभ्याययुस्ते बदरीं विशालां; सुखेन वीराः पुनरेव वासम् ॥०३-१७४-८॥
ऊषुस्ततस्तत्र महानुभावा; नारायणस्थानगता नराग्र्याः। कुबेरकान्तां नलिनीं विशोकाः; सम्पश्यमानाः सुरसिद्धजुष्टाम् ॥०३-१७४-९॥
तां चाथ दृष्ट्वा नलिनीं विशोकाः; पाण्डोः सुताः सर्वनरप्रवीराः। ते रेमिरे नन्दनवासमेत्य; द्विजर्षयो वीतभया यथैव ॥०३-१७४-१०॥
ततः क्रमेणोपययुर्नृवीरा; यथागतेनैव पथा समग्राः। विहृत्य मासं सुखिनो बदर्यां; किरातराज्ञो विषयं सुबाहोः ॥०३-१७४-११॥
चीनांस्तुखारान्दरदान्सदार्वा; न्देशान्कुणिन्दस्य च भूरिरत्नान्। अतीत्य दुर्गं हिमवत्प्रदेशं; पुरं सुबाहोर्ददृशुर्नृवीराः ॥०३-१७४-१२॥
श्रुत्वा च तान्पार्थिवपुत्रपौत्रा; न्प्राप्तान्सुबाहुर्विषये समग्रान्। प्रत्युद्ययौ प्रीतियुतः स राजा; तं चाभ्यनन्दन्वृषभाः कुरूणाम् ॥०३-१७४-१३॥
समेत्य राज्ञा तु सुबाहुना ते; सूतैर्विशोकप्रमुखैश्च सर्वैः। सहेन्द्रसेनैः परिचारकैश्च; पौरोगवैर्ये च महानसस्थाः ॥०३-१७४-१४॥
सुखोषितास्तत्र त एकरात्रं; सूतानुपादाय रथांश्च सर्वान्। घटोत्कचं सानुचरं विसृज्य; ततोऽभ्ययुर्यामुनमद्रिराजम् ॥०३-१७४-१५॥
तस्मिन्गिरौ प्रस्रवणोपपन्ने; हिमोत्तरीयारुणपाण्डुसानौ। विशाखयूपं समुपेत्य चक्रु; स्तदा निवासं पुरुषप्रवीराः ॥०३-१७४-१६॥
वराहनानामृगपक्षिजुष्टं; महद्वनं चैत्ररथप्रकाशम्। शिवेन यात्वा मृगयाप्रधानाः; संवत्सरं तत्र वने विजह्रुः ॥०३-१७४-१७॥
तत्राससादातिबलं भुजङ्गं; क्षुधार्दितं मृत्युमिवोग्ररूपम्। वृकोदरः पर्वतकन्दरायां; विषादमोहव्यथितान्तरात्मा ॥०३-१७४-१८॥
द्वीपोऽभवद्यत्र वृकोदरस्य; युधिष्ठिरो धर्मभृतां वरिष्ठः। अमोक्षयद्यस्तमनन्ततेजा; ग्राहेण संवेष्टितसर्वगात्रम् ॥०३-१७४-१९॥
ते द्वादशं वर्षमथोपयान्तं; वने विहर्तुं कुरवः प्रतीताः। तस्माद्वनाच्चैत्ररथप्रकाशा; च्छ्रिया ज्वलन्तस्तपसा च युक्ताः ॥०३-१७४-२०॥
ततश्च यात्वा मरुधन्वपार्श्वं; सदा धनुर्वेदरतिप्रधानाः। सरस्वतीमेत्य निवासकामाः; सरस्ततो द्वैतवनं प्रतीयुः ॥०३-१७४-२१॥
समीक्ष्य तान्द्वैतवने निविष्टा; न्निवासिनस्तत्र ततोऽभिजग्मुः। तपोदमाचारसमाधियुक्ता; स्तृणोदपात्राहरणाश्मकुट्टाः ॥०३-१७४-२२॥
प्लक्षाक्षरौहीतकवेतसाश्च; स्नुहा बदर्यः खदिराः शिरीषाः। बिल्वेङ्गुदाः पीलुशमीकरीराः; सरस्वतीतीररुहा बभूवुः ॥०३-१७४-२३॥
तां यक्षगन्धर्वमहर्षिकान्ता; मायागभूतामिव देवतानाम्। सरस्वतीं प्रीतियुताश्चरन्तः; सुखं विजह्रुर्नरदेवपुत्राः ॥०३-१७४-२४॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.