Mahabharata - Aranyaka Parva (महाभारत - आरण्यकपर्वम्)
03.175
जनमेजय उवाच॥
कथं नागायुतप्राणो भीमसेनो महाबलः। भयमाहारयत्तीव्रं तस्मादजगरान्मुने ॥०३-१७५-१॥
पौलस्त्यं योऽऽह्वयद्युद्धे धनदं बलदर्पितः। नलिन्यां कदनं कृत्वा वराणां यक्षरक्षसाम् ॥०३-१७५-२॥
तं शंससि भयाविष्टमापन्नमरिकर्षणम्। एतदिच्छाम्यहं श्रोतुं परं कौतूहलं हि मे ॥०३-१७५-३॥
वैशम्पायन उवाच॥
बह्वाश्चर्ये वने तेषां वसतामुग्रधन्विनाम्। प्राप्तानामाश्रमाद्राजन्राजर्षेर्वृषपर्वणः ॥०३-१७५-४॥
यदृच्छया धनुष्पाणिर्बद्धखड्गो वृकोदरः। ददर्श तद्वनं रम्यं देवगन्धर्वसेवितम् ॥०३-१७५-५॥
स ददर्श शुभान्देशान्गिरेर्हिमवतस्तदा। देवर्षिसिद्धचरितानप्सरोगणसेवितान् ॥०३-१७५-६॥
चकोरैश्चक्रवाकैश्च पक्षिभिर्जीवजीवकैः। कोकिलैर्भृङ्गराजैश्च तत्र तत्र विनादितान् ॥०३-१७५-७॥
नित्यपुष्पफलैर्वृक्षैर्हिमसंस्पर्शकोमलैः। उपेतान्बहुलच्छायैर्मनोनयननन्दनैः ॥०३-१७५-८॥
स सम्पश्यन्गिरिनदीर्वैडूर्यमणिसंनिभैः। सलिलैर्हिमसंस्पर्शैर्हंसकारण्डवायुतैः ॥०३-१७५-९॥
वनानि देवदारूणां मेघानामिव वागुराः। हरिचन्दनमिश्राणि तुङ्गकालीयकान्यपि ॥०३-१७५-१०॥
मृगयां परिधावन्स समेषु मरुधन्वसु। विध्यन्मृगाञ्शरैः शुद्धैश्चचार सुमहाबलः ॥०३-१७५-११॥
स ददर्श महाकायं भुजङ्गं लोमहर्षणम्। गिरिदुर्गे समापन्नं कायेनावृत्य कन्दरम् ॥०३-१७५-१२॥
पर्वताभोगवर्ष्माणं भोगैश्चन्द्रार्कमण्डलैः। चित्राङ्गमजिनैश्चित्रैर्हरिद्रासदृशच्छविम् ॥०३-१७५-१३॥
गुहाकारेण वक्त्रेण चतुर्दंष्ट्रेण राजता। दीप्ताक्षेणातिताम्रेण लिहन्तं सृक्किणी मुहुः ॥०३-१७५-१४॥
त्रासनं सर्वभूतानां कालान्तकयमोपमम्। निःश्वासक्ष्वेडनादेन भर्त्सयन्तमिव स्थितम् ॥०३-१७५-१५॥
स भीमं सहसाभ्येत्य पृदाकुः क्षुधितो भृशम्। जग्राहाजगरो ग्राहो भुजयोरुभयोर्बलात् ॥०३-१७५-१६॥
तेन संस्पृष्टमात्रस्य भिमसेनस्य वै तदा। सञ्ज्ञा मुमोह सहसा वरदानेन तस्य ह ॥०३-१७५-१७॥
दश नागसहस्राणि धारयन्ति हि यद्बलम्। तद्बलं भीमसेनस्य भुजयोरसमं परैः ॥०३-१७५-१८॥
स तेजस्वी तथा तेन भुजगेन वशीकृतः। विस्फुरञ्शनकैर्भीमो न शशाक विचेष्टितुम् ॥०३-१७५-१९॥
नागायुतसमप्राणः सिंहस्कन्धो महाभुजः। गृहीतो व्यजहात्सत्त्वं वरदानेन मोहितः ॥०३-१७५-२०॥
स हि प्रयत्नमकरोत्तीव्रमात्मविमोक्षणे। न चैनमशकद्वीरः कथञ्चित्प्रतिबाधितुम् ॥०३-१७५-२१॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.