03.177
वैशम्पायन उवाच॥
युधिष्ठिरस्तमासाद्य सर्पभोगाभिवेष्टितम्। दयितं भ्रातरं वीरमिदं वचनमब्रवीत् ॥०३-१७७-१॥
कुन्तीमातः कथमिमामापदं त्वमवाप्तवान्। कश्चायं पर्वताभोगप्रतिमः पन्नगोत्तमः ॥०३-१७७-२॥
स धर्मराजमालक्ष्य भ्राता भ्रातरमग्रजम्। कथयामास तत्सर्वं ग्रहणादि विचेष्टितम् ॥०३-१७७-३॥
युधिष्ठिर उवाच॥
देवो वा यदि वा दैत्य उरगो वा भवान्यदि। सत्यं सर्प वचो ब्रूहि पृच्छति त्वां युधिष्ठिरः ॥०३-१७७-४॥
किमाहृत्य विदित्वा वा प्रीतिस्ते स्याद्भुजङ्गम। किमाहारं प्रयच्छामि कथं मुञ्चेद्भवानिमम् ॥०३-१७७-५॥
सर्प उवाच॥
नहुषो नाम राजाहमासं पूर्वस्तवानघ। प्रथितः पञ्चमः सोमादायोः पुत्रो नराधिप ॥०३-१७७-६॥
क्रतुभिस्तपसा चैव स्वाध्यायेन दमेन च। त्रैलोक्यैश्वर्यमव्यग्रं प्राप्तो विक्रमणेन च ॥०३-१७७-७॥
तदैश्वर्यं समासाद्य दर्पो मामगमत्तदा। सहस्रं हि द्विजातीनामुवाह शिबिकां मम ॥०३-१७७-८॥
ऐश्वर्यमदमत्तोऽहमवमन्य ततो द्विजान्। इमामगस्त्येन दशामानीतः पृथिवीपते ॥०३-१७७-९॥
न तु मामजहात्प्रज्ञा यावदद्येति पाण्डव। तस्यैवानुग्रहाद्राजन्नगस्त्यस्य महात्मनः ॥०३-१७७-१०॥
षष्ठे काले ममाहारः प्राप्तोऽयमनुजस्तव। नाहमेनं विमोक्ष्यामि न चान्यमभिकामये ॥०३-१७७-११॥
प्रश्नानुच्चारितांस्तु त्वं व्याहरिष्यसि चेन्मम। अथ पश्चाद्विमोक्ष्यामि भ्रातरं ते वृकोदरम् ॥०३-१७७-१२॥
युधिष्ठिर उवाच॥
ब्रूहि सर्प यथाकामं प्रतिवक्ष्यामि ते वचः। अपि चेच्छक्नुयां प्रीतिमाहर्तुं ते भुजङ्गम ॥०३-१७७-१३॥
वेद्यं यद्ब्राह्मणेनेह तद्भवान्वेत्ति केवलम्। सर्पराज ततः श्रुत्वा प्रतिवक्ष्यामि ते वचः ॥०३-१७७-१४॥
सर्प उवाच॥
ब्राह्मणः को भवेद्राजन्वेद्यं किं च युधिष्ठिर। ब्रवीह्यतिमतिं त्वां हि वाक्यैरनुमिमीमहे ॥०३-१७७-१५॥
युधिष्ठिर उवाच॥
सत्यं दानं क्षमा शीलमानृशंस्यं दमो घृणा। दृश्यन्ते यत्र नागेन्द्र स ब्राह्मण इति स्मृतः ॥०३-१७७-१६॥
वेद्यं सर्प परं ब्रह्म निर्दुःखमसुखं च यत्। यत्र गत्वा न शोचन्ति भवतः किं विवक्षितम् ॥०३-१७७-१७॥
सर्प उवाच॥
चातुर्वर्ण्यं प्रमाणं च सत्यं च ब्रह्म चैव ह। शूद्रेष्वपि च सत्यं च दानमक्रोध एव च ॥ आनृशंस्यमहिंसा च घृणा चैव युधिष्ठिर ॥०३-१७७-१८॥
वेद्यं यच्चात्थ निर्दुःखमसुखं च नराधिप। ताभ्यां हीनं पदं चान्यन्न तदस्तीति लक्षये ॥०३-१७७-१९॥
युधिष्ठिर उवाच॥
शूद्रे चैतद्भवेल्लक्ष्यं द्विजे तच्च न विद्यते। न वै शूद्रो भवेच्छूद्रो ब्राह्मणो न च ब्राह्मणः ॥०३-१७७-२०॥
यत्रैतल्लक्ष्यते सर्प वृत्तं स ब्राह्मणः स्मृतः। यत्रैतन्न भवेत्सर्प तं शूद्रमिति निर्दिशेत् ॥०३-१७७-२१॥
यत्पुनर्भवता प्रोक्तं न वेद्यं विद्यतेति ह। ताभ्यां हीनमतीत्यात्र पदं नास्तीति चेदपि ॥०३-१७७-२२॥
एवमेतन्मतं सर्प ताभ्यां हीनं न विद्यते। यथा शीतोष्णयोर्मध्ये भवेन्नोष्णं न शीतता ॥०३-१७७-२३॥
एवं वै सुखदुःखाभ्यां हीनमस्ति पदं क्वचित्। एषा मम मतिः सर्प यथा वा मन्यते भवान् ॥०३-१७७-२४॥
सर्प उवाच॥
यदि ते वृत्ततो राजन्ब्राह्मणः प्रसमीक्षितः। व्यर्था जातिस्तदायुष्मन्कृतिर्यावन्न दृश्यते ॥०३-१७७-२५॥
युधिष्ठिर उवाच॥
जातिरत्र महासर्प मनुष्यत्वे महामते। सङ्करात्सर्ववर्णानां दुष्परीक्ष्येति मे मतिः ॥०३-१७७-२६॥
सर्वे सर्वास्वपत्यानि जनयन्ति यदा नराः। वाङ्मैथुनमथो जन्म मरणं च समं नृणाम् ॥०३-१७७-२७॥
इदमार्षं प्रमाणं च ये यजामह इत्यपि। तस्माच्छीलं प्रधानेष्टं विदुर्ये तत्त्वदर्शिनः ॥०३-१७७-२८॥
प्राङ्नाभिवर्धनात्पुंसो जातकर्म विधीयते। तत्रास्य माता सावित्री पिता त्वाचार्य उच्यते ॥०३-१७७-२९॥
वृत्त्या शूद्रसमो ह्येष यावद्वेदे न जायते। अस्मिन्नेवं मतिद्वैधे मनुः स्वायम्भुवोऽब्रवीत् ॥०३-१७७-३०॥
कृतकृत्याः पुनर्वर्णा यदि वृत्तं न विद्यते। सङ्करस्तत्र नागेन्द्र बलवान्प्रसमीक्षितः ॥०३-१७७-३१॥
यत्रेदानीं महासर्प संस्कृतं वृत्तमिष्यते। तं ब्राह्मणमहं पूर्वमुक्तवान्भुजगोत्तम ॥०३-१७७-३२॥
सर्प उवाच॥
श्रुतं विदितवेद्यस्य तव वाक्यं युधिष्ठिर। भक्षयेयमहं कस्माद्भ्रातरं ते वृकोदरम् ॥०३-१७७-३३॥