03.178
युधिष्ठिर उवाच॥
भवानेतादृशो लोके वेदवेदाङ्गपारगः। ब्रूहि किं कुर्वतः कर्म भवेद्गतिरनुत्तमा ॥०३-१७८-१॥
सर्प उवाच॥
पात्रे दत्त्वा प्रियाण्युक्त्वा सत्यमुक्त्वा च भारत। अहिंसानिरतः स्वर्गं गच्छेदिति मतिर्मम ॥०३-१७८-२॥
युधिष्ठिर उवाच॥
दानाद्वा सर्प सत्याद्वा किमतो गुरु दृश्यते। अहिंसाप्रिययोश्चैव गुरुलाघवमुच्यताम् ॥०३-१७८-३॥
सर्प उवाच॥
दाने रतत्वं सत्यं च अहिंसा प्रियमेव च। एषां कार्यगरीयस्त्वाद्दृश्यते गुरुलाघवम् ॥०३-१७८-४॥
कस्माच्चिद्दानयोगाद्धि सत्यमेव विशिष्यते। सत्यवाक्याच्च राजेन्द्र किञ्चिद्दानं विशिष्यते ॥०३-१७८-५॥
एवमेव महेष्वास प्रियवाक्यान्महीपते। अहिंसा दृश्यते गुर्वी ततश्च प्रियमिष्यते ॥०३-१७८-६॥
एवमेतद्भवेद्राजन्कार्यापेक्षमनन्तरम्। यदभिप्रेतमन्यत्ते ब्रूहि यावद्ब्रवीम्यहम् ॥०३-१७८-७॥
युधिष्ठिर उवाच॥
कथं स्वर्गे गतिः सर्प कर्मणां च फलं ध्रुवम्। अशरीरस्य दृश्येत विषयांश्च ब्रवीहि मे ॥०३-१७८-८॥
सर्प उवाच॥
तिस्रो वै गतयो राजन्परिदृष्टाः स्वकर्मभिः। मानुष्यं स्वर्गवासश्च तिर्यग्योनिश्च तत्त्रिधा ॥०३-१७८-९॥
तत्र वै मानुषाल्लोकाद्दानादिभिरतन्द्रितः। अहिंसार्थसमायुक्तैः कारणैः स्वर्गमश्नुते ॥०३-१७८-१०॥
विपरीतैश्च राजेन्द्र कारणैर्मानुषो भवेत्। तिर्यग्योनिस्तथा तात विशेषश्चात्र वक्ष्यते ॥०३-१७८-११॥
कामक्रोधसमायुक्तो हिंसालोभसमन्वितः। मनुष्यत्वात्परिभ्रष्टस्तिर्यग्योनौ प्रसूयते ॥०३-१७८-१२॥
तिर्यग्योन्यां पृथग्भावो मनुष्यत्वे विधीयते। गवादिभ्यस्तथाश्वेभ्यो देवत्वमपि दृश्यते ॥०३-१७८-१३॥
सोऽयमेता गतीः सर्वा जन्तुश्चरति कार्यवान्। नित्ये महति चात्मानमवस्थापयते नृप ॥०३-१७८-१४॥
जातो जातश्च बलवान्भुङ्क्ते चात्मा स देहवान्। फलार्थस्तात निष्पृक्तः प्रजालक्षणभावनः ॥०३-१७८-१५॥
युधिष्ठिर उवाच॥
शब्दे स्पर्शे च रूपे च तथैव रसगन्धयोः। तस्याधिष्ठानमव्यग्रं ब्रूहि सर्प यथातथम् ॥०३-१७८-१६॥
किं न गृह्णासि विषयान्युगपत्त्वं महामते। एतावदुच्यतां चोक्तं सर्वं पन्नगसत्तम ॥०३-१७८-१७॥
सर्प उवाच॥
यदात्मद्रव्यमायुष्मन्देहसंश्रयणान्वितम्। करणाधिष्ठितं भोगानुपभुङ्क्ते यथाविधि ॥०३-१७८-१८॥
ज्ञानं चैवात्र बुद्धिश्च मनश्च भरतर्षभ। तस्य भोगाधिकरणे करणानि निबोध मे ॥०३-१७८-१९॥
मनसा तात पर्येति क्रमशो विषयानिमान्। विषयायतनस्थेन भूतात्मा क्षेत्रनिःसृतः ॥०३-१७८-२०॥
अत्र चापि नरव्याघ्र मनो जन्तोर्विधीयते। तस्माद्युगपदस्यात्र ग्रहणं नोपपद्यते ॥०३-१७८-२१॥
स आत्मा पुरुषव्याघ्र भ्रुवोरन्तरमाश्रितः। द्रव्येषु सृजते बुद्धिं विविधेषु परावराम् ॥०३-१७८-२२॥
बुद्धेरुत्तरकालं च वेदना दृश्यते बुधैः। एष वै राजशार्दूल विधिः क्षेत्रज्ञभावनः ॥०३-१७८-२३॥
युधिष्ठिर उवाच॥
मनसश्चापि बुद्धेश्च ब्रूहि मे लक्षणं परम्। एतदध्यात्मविदुषां परं कार्यं विधीयते ॥०३-१७८-२४॥
सर्प उवाच॥
बुद्धिरात्मानुगा तात उत्पातेन विधीयते। तदाश्रिता हि सञ्ज्ञैषा विधिस्तस्यैषणे भवेत् ॥०३-१७८-२५॥
बुद्धेर्गुणविधिर्नास्ति मनस्तु गुणवद्भवेत्। बुद्धिरुत्पद्यते कार्ये मनस्तूत्पन्नमेव हि ॥०३-१७८-२६॥
एतद्विशेषणं तात मनोबुद्ध्योर्मयेरितम्। त्वमप्यत्राभिसम्बुद्धः कथं वा मन्यते भवान् ॥०३-१७८-२७॥
युधिष्ठिर उवाच॥
अहो बुद्धिमतां श्रेष्ठ शुभा बुद्धिरियं तव। विदितं वेदितव्यं ते कस्मान्मामनुपृच्छसि ॥०३-१७८-२८॥
सर्वज्ञं त्वां कथं मोह आविशत्स्वर्गवासिनम्। एवमद्भुतकर्माणमिति मे संशयो महान् ॥०३-१७८-२९॥
सर्प उवाच॥
सुप्रज्ञमपि चेच्छूरमृद्धिर्मोहयते नरम्। वर्तमानः सुखे सर्वो नावैतीति मतिर्मम ॥०३-१७८-३०॥
सोऽहमैश्वर्यमोहेन मदाविष्टो युधिष्ठिर। पतितः प्रतिसम्बुद्धस्त्वां तु सम्बोधयाम्यहम् ॥०३-१७८-३१॥
कृतं कार्यं महाराज त्वया मम परन्तप। क्षीणः शापः सुकृच्छ्रो मे त्वया सम्भाष्य साधुना ॥०३-१७८-३२॥
अहं हि दिवि दिव्येन विमानेन चरन्पुरा। अभिमानेन मत्तः सन्कञ्चिन्नान्यमचिन्तयम् ॥०३-१७८-३३॥
ब्रह्मर्षिदेवगन्धर्वयक्षराक्षसकिंनराः। करान्मम प्रयच्छन्ति सर्वे त्रैलोक्यवासिनः ॥०३-१७८-३४॥
चक्षुषा यं प्रपश्यामि प्राणिनं पृथिवीपते। तस्य तेजो हराम्याशु तद्धि दृष्टिबलं मम ॥०३-१७८-३५॥
ब्रह्मर्षीणां सहस्रं हि उवाह शिबिकां मम। स मामपनयो राजन्भ्रंशयामास वै श्रियः ॥०३-१७८-३६॥
तत्र ह्यगस्त्यः पादेन वहन्स्पृष्टो मया मुनिः। अदृष्टेन ततोऽस्म्युक्तो ध्वंस सर्पेति वै रुषा ॥०३-१७८-३७॥
ततस्तस्माद्विमानाग्रात्प्रच्युतश्च्युतभूषणः। प्रपतन्बुबुधेऽऽत्मानं व्यालीभूतमधोमुखम् ॥०३-१७८-३८॥
अयाचं तमहं विप्रं शापस्यान्तो भवेदिति। अज्ञानात्सम्प्रवृत्तस्य भगवन्क्षन्तुमर्हसि ॥०३-१७८-३९॥
ततः स मामुवाचेदं प्रपतन्तं कृपान्वितः। युधिष्ठिरो धर्मराजः शापात्त्वां मोक्षयिष्यति ॥०३-१७८-४०॥
अभिमानस्य घोरस्य बलस्य च नराधिप। फले क्षीणे महाराज फलं पुण्यमवाप्स्यसि ॥०३-१७८-४१॥
ततो मे विस्मयो जातस्तद्दृष्ट्वा तपसो बलम्। ब्रह्म च ब्राह्मणत्वं च येन त्वाहमचूचुदम् ॥०३-१७८-४२॥
सत्यं दमस्तपो योगमहिंसा दाननित्यता। साधकानि सदा पुंसां न जातिर्न कुलं नृप ॥०३-१७८-४३॥
अरिष्ट एष ते भ्राता भीमो मुक्तो महाभुजः। स्वस्ति तेऽस्तु महाराज गमिष्यामि दिवं पुनः ॥०३-१७८-४४॥
वैशम्पायन उवाच॥
इत्युक्त्वाजगरं देहं त्यक्त्वा स नहुषो नृपः। दिव्यं वपुः समास्थाय गतस्त्रिदिवमेव ह ॥०३-१७८-४५॥
युधिष्ठिरोऽपि धर्मात्मा भ्रात्रा भीमेन सङ्गतः। धौम्येन सहितः श्रीमानाश्रमं पुनरभ्यगात् ॥०३-१७८-४६॥
ततो द्विजेभ्यः सर्वेभ्यः समेतेभ्यो यथातथम्। कथयामास तत्सर्वं धर्मराजो युधिष्ठिरः ॥०३-१७८-४७॥
तच्छ्रुत्वा ते द्विजाः सर्वे भ्रातरश्चास्य ते त्रयः। आसन्सुव्रीडिता राजन्द्रौपदी च यशस्विनी ॥०३-१७८-४८॥
ते तु सर्वे द्विजश्रेष्ठाः पाण्डवानां हितेप्सया। मैवमित्यब्रुवन्भीमं गर्हयन्तोऽस्य साहसम् ॥०३-१७८-४९॥
पाण्डवास्तु भयान्मुक्तं प्रेक्ष्य भीमं महाबलम्। हर्षमाहारयां चक्रुर्विजह्रुश्च मुदा युताः ॥०३-१७८-५०॥