Mahabharata - Aranyaka Parva (महाभारत - आरण्यकपर्वम्)
03.176
वैशम्पायन उवाच॥
स भीमसेनस्तेजस्वी तथा सर्पवशं गतः। चिन्तयामास सर्पस्य वीर्यमत्यद्भुतं महत् ॥०३-१७६-१॥
उवाच च महासर्पं कामया ब्रूहि पन्नग। कस्त्वं भो भुजगश्रेष्ठ किं मया च करिष्यसि ॥०३-१७६-२॥
पाण्डवो भिमसेनोऽहं धर्मराजादनन्तरः। नागायुतसमप्राणस्त्वया नीतः कथं वशम् ॥०३-१७६-३॥
सिंहाः केसरिणो व्याघ्रा महिषा वारणास्तथा। समागताश्च बहुशो निहताश्च मया मृधे ॥०३-१७६-४॥
दानवाश्च पिशाचाश्च राक्षसाश्च महाबलाः। भुजवेगमशक्ता मे सोढुं पन्नगसत्तम ॥०३-१७६-५॥
किं नु विद्याबलं किं वा वरदानमथो तव। उद्योगमपि कुर्वाणो वशगोऽस्मि कृतस्त्वया ॥०३-१७६-६॥
असत्यो विक्रमो नॄणामिति मे निश्चिता मतिः। यथेदं मे त्वया नाग बलं प्रतिहतं महत् ॥०३-१७६-७॥
इत्येवंवादिनं वीरं भीममक्लिष्टकारिणम्। भोगेन महता सर्पः समन्तात्पर्यवेष्टयत् ॥०३-१७६-८॥
निगृह्य तं महाबाहुं ततः स भुजगस्तदा। विमुच्यास्य भुजौ पीनाविदं वचनमब्रवीत् ॥०३-१७६-९॥
दिष्ट्या त्वं क्षुधितस्याद्य देवैर्भक्षो महाभुज। दिष्ट्या कालस्य महतः प्रियाः प्राणा हि देहिनाम् ॥०३-१७६-१०॥
यथा त्विदं मया प्राप्तं भुजङ्गत्वमरिंदम। तदवश्यं मया ख्याप्यं तवाद्य शृणु सत्तम ॥०३-१७६-११॥
इमामवस्थां सम्प्राप्तो ह्यहं कोपान्मनीषिणाम्। शापस्यान्तं परिप्रेप्सुः सर्पस्य कथयामि तत् ॥०३-१७६-१२॥
नहुषो नाम राजर्षिर्व्यक्तं ते श्रोत्रमागतः। तवैव पूर्वः पूर्वेषामायोर्वंशकरः सुतः ॥०३-१७६-१३॥
सोऽहं शापादगस्त्यस्य ब्राह्मणानवमन्य च। इमामवस्थामापन्नः पश्य दैवमिदं मम ॥०३-१७६-१४॥
त्वां चेदवध्यमायान्तमतीव प्रियदर्शनम्। अहमद्योपयोक्ष्यामि विधानं पश्य यादृशम् ॥०३-१७६-१५॥
न हि मे मुच्यते कश्चित्कथञ्चिद्ग्रहणं गतः। गजो वा महिषो वापि षष्ठे काले नरोत्तम ॥०३-१७६-१६॥
नासि केवलसर्पेण तिर्यग्योनिषु वर्तता। गृहीतः कौरवश्रेष्ठ वरदानमिदं मम ॥०३-१७६-१७॥
पतता हि विमानाग्रान्मया शक्रासनाद्द्रुतम्। कुरु शापान्तमित्युक्तो भगवान्मुनिसत्तमः ॥०३-१७६-१८॥
स मामुवाच तेजस्वी कृपयाभिपरिप्लुतः। मोक्षस्ते भविता राजन्कस्माच्चित्कालपर्ययात् ॥०३-१७६-१९॥
ततोऽस्मि पतितो भूमौ न च मामजहात्स्मृतिः। स्मार्तमस्ति पुराणं मे यथैवाधिगतं तथा ॥०३-१७६-२०॥
यस्तु ते व्याहृतान्प्रश्नान्प्रतिब्रूयाद्विशेषवित्। स त्वां मोक्षयिता शापादिति मामब्रवीदृषिः ॥०३-१७६-२१॥
गृहीतस्य त्वया राजन्प्राणिनोऽपि बलीयसः। सत्त्वभ्रंशोऽधिकस्यापि सर्वस्याशु भविष्यति ॥०३-१७६-२२॥
इति चाप्यहमश्रौषं वचस्तेषां दयावताम्। मयि सञ्जातहार्दानामथ तेऽन्तर्हिता द्विजाः ॥०३-१७६-२३॥
सोऽहं परमदुष्कर्मा वसामि निरयेऽशुचौ। सर्पयोनिमिमां प्राप्य कालाकाङ्क्षी महाद्युते ॥०३-१७६-२४॥
तमुवाच महाबाहुर्भीमसेनो भुजङ्गमम्। न ते कुप्ये महासर्प न चात्मानं विगर्हये ॥०३-१७६-२५॥
यस्मादभावी भावी वा मनुष्यः सुखदुःखयोः। आगमे यदि वापाये न तत्र ग्लपयेन्मनः ॥०३-१७६-२६॥
दैवं पुरुषकारेण को निवर्तितुमर्हति। दैवमेव परं मन्ये पुरुषार्थो निरर्थकः ॥०३-१७६-२७॥
पश्य दैवोपघाताद्धि भुजवीर्यव्यपाश्रयम्। इमामवस्थां सम्प्राप्तमनिमित्तमिहाद्य माम् ॥०३-१७६-२८॥
किं तु नाद्यानुशोचामि तथात्मानं विनाशितम्। यथा तु विपिने न्यस्तान्भ्रातॄन्राज्यपरिच्युतान् ॥०३-१७६-२९॥
हिमवांश्च सुदुर्गोऽयं यक्षराक्षससङ्कुलः। मां च ते समुदीक्षन्तः प्रपतिष्यन्ति विह्वलाः ॥०३-१७६-३०॥
विनष्टमथ वा श्रुत्वा भविष्यन्ति निरुद्यमाः। धर्मशीला मया ते हि बाध्यन्ते राज्यगृद्धिना ॥०३-१७६-३१॥
अथ वा नार्जुनो धीमान्विषादमुपयास्यति। सर्वास्त्रविदनाधृष्यो देवगन्धर्वराक्षसैः ॥०३-१७६-३२॥
समर्थः स महाबाहुरेकाह्ना सुमहाबलः। देवराजमपि स्थानात्प्रच्यावयितुमोजसा ॥०३-१७६-३३॥
किं पुनर्धृतराष्ट्रस्य पुत्रं दुर्द्यूतदेविनम्। विद्विष्टं सर्वलोकस्य दम्भलोभपरायणम् ॥०३-१७६-३४॥
मातरं चैव शोचामि कृपणां पुत्रगृद्धिनीम्। यास्माकं नित्यमाशास्ते महत्त्वमधिकं परैः ॥०३-१७६-३५॥
कथं नु तस्यानाथाया मद्विनाशाद्भुजङ्गम। अफलास्ते भविष्यन्ति मयि सर्वे मनोरथाः ॥०३-१७६-३६॥
नकुलः सहदेवश्च यमजौ गुरुवर्तिनौ। मद्बाहुबलसंस्तब्धौ नित्यं पुरुषमानिनौ ॥०३-१७६-३७॥
निरुत्साहौ भविष्येते भ्रष्टवीर्यपराक्रमौ। मद्विनाशात्परिद्यूनाविति मे वर्तते मतिः ॥०३-१७६-३८॥
एवंविधं बहु तदा विललाप वृकोदरः। भुजङ्गभोगसंरुद्धो नाशकच्च विचेष्टितुम् ॥०३-१७६-३९॥
युधिष्ठिरस्तु कौन्तेय बभूवास्वस्थचेतनः। अनिष्टदर्शनान्घोरानुत्पातान्परिचिन्तयन् ॥०३-१७६-४०॥
दारुणं ह्यशिवं नादं शिवा दक्षिणतः स्थिता। दीप्तायां दिशि वित्रस्ता रौति तस्याश्रमस्य ह ॥०३-१७६-४१॥
एकपक्षाक्षिचरणा वर्तिका घोरदर्शना। रुधिरं वमन्ती ददृशे प्रत्यादित्यमपस्वरा ॥०३-१७६-४२॥
प्रववावनिलो रूक्षश्चण्डः शर्करकर्षणः। अपसव्यानि सर्वाणि मृगपक्षिरुतानि च ॥०३-१७६-४३॥
पृष्ठतो वायसः कृष्णो याहि याहीति वाशति। मुहुर्मुहुः प्रस्फुरति दक्षिणोऽस्य भुजस्तथा ॥०३-१७६-४४॥
हृदयं चरणश्चापि वामोऽस्य परिवर्तते। सव्यस्याक्ष्णो विकारश्चाप्यनिष्टः समपद्यत ॥०३-१७६-४५॥
स धर्मराजो मेधावी शङ्कमानो महद्भयम्। द्रौपदीं परिपप्रच्छ क्व भीम इति भारत ॥०३-१७६-४६॥
शशंस तस्मै पाञ्चाली चिरयातं वृकोदरम्। स प्रतस्थे महाबाहुर्धौम्येन सहितो नृपः ॥०३-१७६-४७॥
द्रौपद्या रक्षणं कार्यमित्युवाच धनञ्जयम्। नकुलं सहदेवं च व्यादिदेश द्विजान्प्रति ॥०३-१७६-४८॥
स तस्य पदमुन्नीय तस्मादेवाश्रमात्प्रभुः। ददर्श पृथिवीं चिह्नैर्भीमस्य परिचिह्निताम् ॥०३-१७६-४९॥
धावतस्तस्य वीरस्य मृगार्थे वातरंहसः। ऊरुवातविनिर्भग्नान्द्रुमान्व्यावर्जितान्पथि ॥०३-१७६-५०॥
स गत्वा तैस्तदा चिह्नैर्ददर्श गिरिगह्वरे। गृहीतं भुजगेन्द्रेण निश्चेष्टमनुजं तथा ॥०३-१७६-५१॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.