Mahabharata - Aranyaka Parva (महाभारत - आरण्यकपर्वम्)
03.181
वैशम्पायन उवाच॥
तं विवक्षन्तमालक्ष्य कुरुराजो महामुनिम्। कथासञ्जननार्थाय चोदयामास पाण्डवः ॥०३-१८१-१॥
भवान्दैवतदैत्यानामृषीणां च महात्मनाम्। राजर्षीणां च सर्वेषां चरितज्ञः सनातनः ॥०३-१८१-२॥
सेव्यश्चोपासितव्यश्च मतो नः काङ्क्षितश्चिरम्। अयं च देवकीपुत्रः प्राप्तोऽस्मानवलोककः ॥०३-१८१-३॥
भवत्येव हि मे बुद्धिर्दृष्ट्वात्मानं सुखाच्च्युतम्। धार्तराष्ट्रांश्च दुर्वृत्तानृध्यतः प्रेक्ष्य सर्वशः ॥०३-१८१-४॥
कर्मणः पुरुषः कर्ता शुभस्याप्यशुभस्य च। स्वफलं तदुपाश्नाति कथं कर्ता स्विदीश्वरः ॥०३-१८१-५॥
अथ वा सुखदुःखेषु नृणां ब्रह्मविदां वर। इह वा कृतमन्वेति परदेहेऽथ वा पुनः ॥०३-१८१-६॥
देही च देहं सन्त्यज्य मृग्यमाणः शुभाशुभैः। कथं संयुज्यते प्रेत्य इह वा द्विजसत्तम ॥०३-१८१-७॥
ऐहलौकिकमेवैतदुताहो पारलौकिकम्। क्व च कर्माणि तिष्ठन्ति जन्तोः प्रेतस्य भार्गव ॥०३-१८१-८॥
मार्कण्डेय उवाच॥
त्वद्युक्तोऽयमनुप्रश्नो यथावद्वदतां वर। विदितं वेदितव्यं ते स्थित्यर्थमनुपृच्छसि ॥०३-१८१-९॥
अत्र ते वर्तयिष्यामि तदिहैकमनाः शृणु। यथेहामुत्र च नरः सुखदुःखमुपाश्नुते ॥०३-१८१-१०॥
निर्मलानि शरीराणि विशुद्धानि शरीरिणाम्। ससर्ज धर्मतन्त्राणि पूर्वोत्पन्नः प्रजापतिः ॥०३-१८१-११॥
अमोघबलसङ्कल्पाः सुव्रताः सत्यवादिनः। ब्रह्मभूता नराः पुण्याः पुराणाः कुरुनन्दन ॥०३-१८१-१२॥
सर्वे देवैः समायान्ति स्वच्छन्देन नभस्तलम्। ततश्च पुनरायान्ति सर्वे स्वच्छन्दचारिणः ॥०३-१८१-१३॥
स्वच्छन्दमरणाश्चासन्नराः स्वच्छन्दजीविनः। अल्पबाधा निरातङ्का सिद्धार्था निरुपद्रवाः ॥०३-१८१-१४॥
द्रष्टारो देवसङ्घानामृषीणां च महात्मनाम्। प्रत्यक्षाः सर्वधर्माणां दान्ता विगतमत्सराः ॥०३-१८१-१५॥
आसन्वर्षसहस्राणि तथा पुत्रसहस्रिणः। ततः कालान्तरेऽन्यस्मिन्पृथिवीतलचारिणः ॥०३-१८१-१६॥
कामक्रोधाभिभूतास्ते मायाव्याजोपजीविनः। लोभमोहाभिभूताश्च त्यक्ता देवैस्ततो नराः ॥०३-१८१-१७॥
अशुभैः कर्मभिः पापास्तिर्यङ्नरकगामिनः। संसारेषु विचित्रेषु पच्यमानाः पुनः पुनः ॥०३-१८१-१८॥
मोघेष्टा मोघसङ्कल्पा मोघज्ञाना विचेतसः। सर्वातिशङ्किनश्चैव संवृत्ताः क्लेशभागिनः ॥ अशुभैः कर्मभिश्चापि प्रायशः परिचिह्निताः ॥०३-१८१-१९॥
दौष्कुल्या व्याधिबहुला दुरात्मानोऽप्रतापिनः। भवन्त्यल्पायुषः पापा रौद्रकर्मफलोदयाः ॥ नाथन्तः सर्वकामानां नास्तिका भिन्नसेतवः ॥०३-१८१-२०॥
जन्तोः प्रेतस्य कौन्तेय गतिः स्वैरिह कर्मभिः। प्राज्ञस्य हीनबुद्धेश्च कर्मकोशः क्व तिष्ठति ॥०३-१८१-२१॥
क्वस्थस्तत्समुपाश्नाति सुकृतं यदि वेतरत्। इति ते दर्शनं यच्च तत्राप्यनुनयं शृणु ॥०३-१८१-२२॥
अयमादिशरीरेण देवसृष्टेन मानवः। शुभानामशुभानां च कुरुते सञ्चयं महत् ॥०३-१८१-२३॥
आयुषोऽन्ते प्रहायेदं क्षीणप्रायं कलेवरम्। सम्भवत्येव युगपद्योनौ नास्त्यन्तराभवः ॥०३-१८१-२४॥
तत्रास्य स्वकृतं कर्म छायेवानुगतं सदा। फलत्यथ सुखार्हो वा दुःखार्हो वापि जायते ॥०३-१८१-२५॥
कृतान्तविधिसंयुक्तः स जन्तुर्लक्षणैः शुभैः। अशुभैर्वा निरादानो लक्ष्यते ज्ञानदृष्टिभिः ॥०३-१८१-२६॥
एषा तावदबुद्धीनां गतिरुक्ता युधिष्ठिर। अतः परं ज्ञानवतां निबोध गतिमुत्तमाम् ॥०३-१८१-२७॥
मनुष्यास्तप्ततपसः सर्वागमपरायणाः। स्थिरव्रताः सत्यपरा गुरुशुश्रूषणे रताः ॥०३-१८१-२८॥
सुशीलाः शुक्लजातीयाः क्षान्ता दान्ताः सुतेजसः। शुभयोन्यन्तरगताः प्रायशः शुभलक्षणाः ॥०३-१८१-२९॥
जितेन्द्रियत्वाद्वशिनः शुक्लत्वान्मन्दरोगिणः। अल्पबाधपरित्रासाद्भवन्ति निरुपद्रवाः ॥०३-१८१-३०॥
च्यवन्तं जायमानं च गर्भस्थं चैव सर्वशः। स्वमात्मानं परं चैव बुध्यन्ते ज्ञानचक्षुषः ॥ कर्मभूमिमिमां प्राप्य पुनर्यान्ति सुरालयम् ॥०३-१८१-३१॥
किञ्चिद्दैवाद्धठात्किञ्चित्किञ्चिदेव स्वकर्मभिः। प्राप्नुवन्ति नरा राजन्मा तेऽस्त्वन्या विचारणा ॥०३-१८१-३२॥
इमामत्रोपमां चापि निबोध वदतां वर। मनुष्यलोके यच्छ्रेयः परं मन्ये युधिष्ठिर ॥०३-१८१-३३॥
इह वैकस्य नामुत्र अमुत्रैकस्य नो इह। इह चामुत्र चैकस्य नामुत्रैकस्य नो इह ॥०३-१८१-३४॥
धनानि येषां विपुलानि सन्ति; नित्यं रमन्ते सुविभूषिताङ्गाः। तेषामयं शत्रुवरघ्न लोको; नासौ सदा देहसुखे रतानाम् ॥०३-१८१-३५॥
ये योगयुक्तास्तपसि प्रसक्ताः; स्वाध्यायशीला जरयन्ति देहान्। जितेन्द्रिया भूतहिते निविष्टा; स्तेषामसौ नायमरिघ्न लोकः ॥०३-१८१-३६॥
ये धर्ममेव प्रथमं चरन्ति; धर्मेण लब्ध्वा च धनानि काले। दारानवाप्य क्रतुभिर्यजन्ते; तेषामयं चैव परश्च लोकः ॥०३-१८१-३७॥
ये नैव विद्यां न तपो न दानं; न चापि मूढाः प्रजने यतन्ते। न चाधिगच्छन्ति सुखान्यभाग्या; स्तेषामयं चैव परश्च नास्ति ॥०३-१८१-३८॥
सर्वे भवन्तस्त्वतिवीर्यसत्त्वा; दिव्यौजसः संहननोपपन्नाः। लोकादमुष्मादवनिं प्रपन्नाः; स्वधीतविद्याः सुरकार्यहेतोः ॥०३-१८१-३९॥
कृत्वैव कर्माणि महान्ति शूरा; स्तपोदमाचारविहारशीलाः। देवानृषीन्प्रेतगणांश्च सर्वा; न्सन्तर्पयित्वा विधिना परेण ॥०३-१८१-४०॥
स्वर्गं परं पुण्यकृतां निवासं; क्रमेण सम्प्राप्स्यथ कर्मभिः स्वैः। मा भूद्विशङ्का तव कौरवेन्द्र; दृष्ट्वात्मनः क्लेशमिमं सुखार्ह ॥०३-१८१-४१॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.