Mahabharata - Aranyaka Parva (महाभारत - आरण्यकपर्वम्)
03.182
वैशम्पायन उवाच॥
मार्कण्डेयं महात्मानमूचुः पाण्डुसुतास्तदा। माहात्म्यं द्विजमुख्यानां श्रोतुमिच्छाम कथ्यताम् ॥०३-१८२-१॥
एवमुक्तः स भगवान्मार्कण्डेयो महातपाः। उवाच सुमहातेजाः सर्वशास्त्रविशारदः ॥०३-१८२-२॥
हैहयानां कुलकरो राजा परपुरञ्जयः। कुमारो रूपसम्पन्नो मृगयामचरद्बली ॥०३-१८२-३॥
चरमाणस्तु सोऽरण्ये तृणवीरुत्समावृते। कृष्णाजिनोत्तरासङ्गं ददर्श मुनिमन्तिके ॥ स तेन निहतोऽरण्ये मन्यमानेन वै मृगम् ॥०३-१८२-४॥
व्यथितः कर्म तत्कृत्वा शोकोपहतचेतनः। जगाम हैहयानां वै सकाशं प्रथितात्मनाम् ॥०३-१८२-५॥
राज्ञां राजीवनेत्रोसौ कुमारः पृथिवीपते। तेषां च तद्यथावृत्तं कथयामास वै तदा ॥०३-१८२-६॥
तं चापि हिंसितं तात मुनिं मूलफलाशिनम्। श्रुत्वा दृष्ट्वा च ते तत्र बभूवुर्दीनमानसाः ॥०३-१८२-७॥
कस्यायमिति ते सर्वे मार्गमाणास्ततस्ततः। जग्मुश्चारिष्टनेमेस्ते तार्क्ष्यस्याश्रममञ्जसा ॥०३-१८२-८॥
तेऽभिवाद्य महात्मानं तं मुनिं संशितव्रतम्। तस्थुः सर्वे स तु मुनिस्तेषां पूजामथाहरत् ॥०३-१८२-९॥
ते तमूचुर्महात्मानं न वयं सत्क्रियां मुने। त्वत्तोऽर्हाः कर्मदोषेण ब्राह्मणो हिंसितो हि नः ॥०३-१८२-१०॥
तानब्रवीत्स विप्रर्षिः कथं वो ब्राह्मणो हतः। क्व चासौ ब्रूत सहिताः पश्यध्वं मे तपोबलम् ॥०३-१८२-११॥
ते तु तत्सर्वमखिलमाख्यायास्मै यथातथम्। नापश्यंस्तमृषिं तत्र गतासुं ते समागताः ॥ अन्वेषमाणाः सव्रीडाः स्वप्नवद्गतमानसाः ॥०३-१८२-१२॥
तानब्रवीत्तत्र मुनिस्तार्क्ष्यः परपुरञ्जयः। स्यादयं ब्राह्मणः सोऽथ यो युष्माभिर्विनाशितः ॥ पुत्रो ह्ययं मम नृपास्तपोबलसमन्वितः ॥०३-१८२-१३॥
ते तु दृष्ट्वैव तमृषिं विस्मयं परमं गताः। महदाश्चर्यमिति वै विब्रुवाणा महीपते ॥०३-१८२-१४॥
मृतो ह्ययमतो दृष्टः कथं जीवितमाप्तवान्। किमेतत्तपसो वीर्यं येनायं जीवितः पुनः ॥ श्रोतुमिच्छाम विप्रर्षे यदि श्रोतव्यमित्युत ॥०३-१८२-१५॥
स तानुवाच नास्माकं मृत्युः प्रभवते नृपाः। कारणं वः प्रवक्ष्यामि हेतुयोगं समासतः ॥०३-१८२-१६॥
सत्यमेवाभिजानीमो नानृते कुर्महे मनः। स्वधर्ममनुतिष्ठामस्तस्मान्मृत्युभयं न नः ॥०३-१८२-१७॥
यद्ब्राह्मणानां कुशलं तदेषां कथयामहे। नैषां दुश्चरितं ब्रूमस्तस्मान्मृत्युभयं न नः ॥०३-१८२-१८॥
अतिथीनन्नपानेन भृत्यानत्यशनेन च। तेजस्विदेशवासाच्च तस्मान्मृत्युभयं न नः ॥०३-१८२-१९॥
एतद्वै लेशमात्रं वः समाख्यातं विमत्सराः। गच्छध्वं सहिताः सर्वे न पापाद्भयमस्ति वः ॥०३-१८२-२०॥
एवमस्त्विति ते सर्वे प्रतिपूज्य महामुनिम्। स्वदेशमगमन्हृष्टा राजानो भरतर्षभ ॥०३-१८२-२१॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.