03.180
वैशम्पायन उवाच॥
काम्यकं प्राप्य कौन्तेया युधिष्ठिरपुरोगमाः। कृतातिथ्या मुनिगणैर्निषेदुः सह कृष्णया ॥०३-१८०-१॥
ततस्तान्परिविश्वस्तान्वसतः पाण्डुनन्दनान्। ब्राह्मणा बहवस्तत्र समन्तात्पर्यवारयन् ॥०३-१८०-२॥
अथाब्रवीद्द्विजः कश्चिदर्जुनस्य प्रियः सखा। एष्यतीह महाबाहुर्वशी शौरिरुदारधीः ॥०३-१८०-३॥
विदिता हि हरेर्यूयमिहायाताः कुरूद्वहाः। सदा हि दर्शनाकाङ्क्षी श्रेयोऽन्वेषी च वो हरिः ॥०३-१८०-४॥
बहुवत्सरजीवी च मार्कण्डेयो महातपाः। स्वाध्यायतपसा युक्तः क्षिप्रं युष्मान्समेष्यति ॥०३-१८०-५॥
तथैव तस्य ब्रुवतः प्रत्यदृष्यत केशवः। सैन्यसुग्रीवयुक्तेन रथेन रथिनां वरः ॥०३-१८०-६॥
मघवानिव पौलोम्या सहितः सत्यभामया। उपायाद्देवकीपुत्रो दिदृक्षुः कुरुसत्तमान् ॥०३-१८०-७॥
अवतीर्य रथात्कृष्णो धर्मराजं यथाविधि। ववन्दे मुदितो धीमान्भीमं च बलिनां वरम् ॥०३-१८०-८॥
पूजयामास धौम्यं च यमाभ्यामभिवादितः। परिष्वज्य गुडाकेशं द्रौपदीं पर्यसान्त्वयत् ॥०३-१८०-९॥
स दृष्ट्वा फल्गुनं वीरं चिरस्य प्रियमागतम्। पर्यष्वजत दाशार्हः पुनः पुनररिंदमम् ॥०३-१८०-१०॥
तथैव सत्यभामापि द्रौपदीं परिषस्वजे। पाण्डवानां प्रियां भार्यां कृष्णस्य महिषी प्रिया ॥०३-१८०-११॥
ततस्ते पाण्डवाः सर्वे सभार्याः सपुरोहिताः। आनर्चुः पुण्डरीकाक्षं परिवव्रुश्च सर्वशः ॥०३-१८०-१२॥
कृष्णस्तु पार्थेन समेत्य विद्वा; न्धनञ्जयेनासुरतर्जनेन। बभौ यथा भूतपतिर्महात्मा; समेत्य साक्षाद्भगवान्गुहेन ॥०३-१८०-१३॥
ततः समस्तानि किरीटमाली; वनेषु वृत्तानि गदाग्रजाय। उक्त्वा यथावत्पुनरन्वपृच्छ; त्कथं सुभद्रा च तथाभिमन्युः ॥०३-१८०-१४॥
स पूजयित्वा मधुहा यथाव; त्पार्थांश्च कृष्णां च पुरोहितं च। उवाच राजानमभिप्रशंस; न्युधिष्ठिरं तत्र सहोपविश्य ॥०३-१८०-१५॥
धर्मः परः पाण्डव राज्यलाभा; त्तस्यार्थमाहुस्तप एव राजन्। सत्यार्जवाभ्यां चरता स्वधर्मं; जितस्तवायं च परश्च लोकः ॥०३-१८०-१६॥
अधीतमग्रे चरता व्रतानि; सम्यग्धनुर्वेदमवाप्य कृत्स्नम्। क्षात्रेण धर्मेण वसूनि लब्ध्वा; सर्वे ह्यवाप्ताः क्रतवः पुराणाः ॥०३-१८०-१७॥
न ग्राम्यधर्मेषु रतिस्तवास्ति; कामान्न किञ्चित्कुरुषे नरेन्द्र। न चार्थलोभात्प्रजहासि धर्मं; तस्मात्स्वभावादसि धर्मराजः ॥०३-१८०-१८॥
दानं च सत्यं च तपश्च राज; ञ्श्रद्धा च शान्तिश्च धृतिः क्षमा च। अवाप्य राष्ट्राणि वसूनि भोगा; नेषा परा पार्थ सदा रतिस्ते ॥०३-१८०-१९॥
यदा जनौघः कुरुजाङ्गलानां; कृष्णां सभायामवशामपश्यत्। अपेतधर्मव्यवहारवृत्तं; सहेत तत्पाण्डव कस्त्वदन्यः ॥०३-१८०-२०॥
असंशयं सर्वसमृद्धकामः; क्षिप्रं प्रजाः पालयितासि सम्यक्। इमे वयं निग्रहणे कुरूणां; यदि प्रतिज्ञा भवतः समाप्ता ॥०३-१८०-२१॥
धौम्यं च कृष्णां च युधिष्ठिरं च; यमौ च भीमं च दशार्हसिंहः। उवाच दिष्ट्या भवतां शिवेन; प्राप्तः किरीटी मुदितः कृतास्त्रः ॥०३-१८०-२२॥
प्रोवाच कृष्णामपि याज्ञसेनीं; दशार्हभर्ता सहितः सुहृद्भिः। कृष्णे धनुर्वेदरतिप्रधानाः; सत्यव्रतास्ते शिशवः सुशीलाः ॥ सद्भिः सदैवाचरितं समाधिं; चरन्ति पुत्रास्तव याज्ञसेनि ॥०३-१८०-२३॥
राज्येन राष्ट्रैश्च निमन्त्र्यमाणाः; पित्रा च कृष्णे तव सोदरैश्च। न यज्ञसेनस्य न मातुलानां; गृहेषु बाला रतिमाप्नुवन्ति ॥०३-१८०-२४॥
आनर्तमेवाभिमुखाः शिवेन; गत्वा धनुर्वेदरतिप्रधानाः। तवात्मजा वृष्णिपुरं प्रविश्य; न दैवतेभ्यः स्पृहयन्ति कृष्णे ॥०३-१८०-२५॥
यथा त्वमेवार्हसि तेषु वृत्तिं; प्रयोक्तुमार्या च यथैव कुन्ती। तेष्वप्रमादेन सदा करोति; तथा च भूयश्च तथा सुभद्रा ॥०३-१८०-२६॥
यथानिरुद्धस्य यथाभिमन्यो; र्यथा सुनीथस्य यथैव भानोः। तथा विनेता च गतिश्च कृष्णे; तवात्मजानामपि रौक्मिणेयः ॥०३-१८०-२७॥
गदासिचर्मग्रहणेषु शूरा; नस्त्रेषु शिक्षासु रथाश्वयाने। सम्यग्विनेता विनयत्यतन्द्री; स्तांश्चाभिमन्युः सततं कुमारः ॥०३-१८०-२८॥
स चापि सम्यक्प्रणिधाय शिक्षा; मस्त्राणि चैषां गुरुवत्प्रदाय। तवात्मजानां च तथाभिमन्योः; पराक्रमैस्तुष्यति रौक्मिणेयः ॥०३-१८०-२९॥
यदा विहारं प्रसमीक्षमाणाः; प्रयान्ति पुत्रास्तव याज्ञसेनि। एकैकमेषामनुयान्ति तत्र; रथाश्च यानानि च दन्तिनश्च ॥०३-१८०-३०॥
अथाब्रवीद्धर्मराजं तु कृष्णो; दशार्हयोधाः कुकुरान्धकाश्च। एते निदेशं तव पालयन्ति; तिष्ठन्ति यत्रेच्छसि तत्र राजन् ॥०३-१८०-३१॥
आवर्ततां कार्मुकवेगवाता; हलायुधप्रग्रहणा मधूनाम्। सेना तवार्थेषु नरेन्द्र यत्ता; ससादिपत्त्यश्वरथा सनागा ॥०३-१८०-३२॥
प्रस्थाप्यतां पाण्डव धार्तराष्ट्रः; सुयोधनः पापकृतां वरिष्ठः। स सानुबन्धः ससुहृद्गणश्च; सौभस्य सौभाधिपतेश्च मार्गम् ॥०३-१८०-३३॥
कामं तथा तिष्ठ नरेन्द्र तस्मि; न्यथा कृतस्ते समयः सभायाम्। दाशार्हयोधैस्तु ससादियोधं; प्रतीक्षतां नागपुरं भवन्तम् ॥०३-१८०-३४॥
व्यपेतमन्युर्व्यपनीतपाप्मा; विहृत्य यत्रेच्छसि तत्र कामम्। ततः समृद्धं प्रथमं विशोकः; प्रपत्स्यसे नागपुरं सराष्ट्रम् ॥०३-१८०-३५॥
ततस्तदाज्ञाय मतं महात्मा; यथावदुक्तं पुरुषोत्तमेन। प्रशस्य विप्रेक्ष्य च धर्मराजः; कृताञ्जलिः केशवमित्युवाच ॥०३-१८०-३६॥
असंशयं केशव पाण्डवानां; भवान्गतिस्त्वच्छरणा हि पार्थाः। कालोदये तच्च ततश्च भूयः; कर्ता भवान्कर्म न संशयोऽस्ति ॥०३-१८०-३७॥
यथाप्रतिज्ञं विहृतश्च कालः; सर्वाः समा द्वादश निर्जनेषु। अज्ञातचर्यां विधिवत्समाप्य; भवद्गताः केशव पाण्डवेयाः ॥०३-१८०-३८॥
वैशम्पायन उवाच॥
तथा वदति वार्ष्णेये धर्मराजे च भारत। अथ पश्चात्तपोवृद्धो बहुवर्षसहस्रधृक् ॥ प्रत्यदृष्यत धर्मात्मा मार्कण्डेयो महातपाः ॥०३-१८०-३९॥
तमागतमृषिं वृद्धं बहुवर्षसहस्रिणम्। आनर्चुर्ब्राह्मणाः सर्वे कृष्णश्च सह पाण्डवैः ॥०३-१८०-४०॥
तमर्चितं सुविष्वस्तमासीनमृषिसत्तमम्। ब्राह्मणानां मतेनाह पाण्डवानां च केशवः ॥०३-१८०-४१॥
शुश्रूषवः पाण्डवास्ते ब्राह्मणाश्च समागताः। द्रौपदी सत्यभामा च तथाहं परमं वचः ॥०३-१८०-४२॥
पुरावृत्ताः कथाः पुण्याः सदाचाराः सनातनाः। राज्ञां स्त्रीणामृषीणां च मार्कण्डेय विचक्ष्व नः ॥०३-१८०-४३॥
तेषु तत्रोपविष्टेषु देवर्षिरपि नारदः। आजगाम विशुद्धात्मा पाण्डवानवलोककः ॥०३-१८०-४४॥
तमप्यथ महात्मानं सर्वे तु पुरुषर्षभाः। पाद्यार्घ्याभ्यां यथान्यायमुपतस्थुर्मनीषिणम् ॥०३-१८०-४५॥
नारदस्त्वथ देवर्षिर्ज्ञात्वा तांस्तु कृतक्षणान्। मार्कण्डेयस्य वदतस्तां कथामन्वमोदत ॥०३-१८०-४६॥
उवाच चैनं कालज्ञः स्मयन्निव स नारदः। ब्रह्मर्षे कथ्यतां यत्ते पाण्डवेषु विवक्षितम् ॥०३-१८०-४७॥
एवमुक्तः प्रत्युवाच मार्कण्डेयो महातपाः। क्षणं कुरुध्वं विपुलमाख्यातव्यं भविष्यति ॥०३-१८०-४८॥
एवमुक्ताः क्षणं चक्रुः पाण्डवाः सह तैर्द्विजैः। मध्यंदिने यथादित्यं प्रेक्षन्तस्तं महामुनिम् ॥०३-१८०-४९॥