03.196
पतिव्रतोपाख्यानम्
वैशम्पायन उवाच॥
ततो युधिष्ठिरो राजा मार्कण्डेयं महाद्युतिम्। पप्रच्छ भरतश्रेष्ठो धर्मप्रश्नं सुदुर्वचम् ॥०३-१९६-१॥
श्रोतुमिच्छामि भगवन्स्त्रीणां माहात्म्यमुत्तमम्। कथ्यमानं त्वया विप्र सूक्ष्मं धर्मं च तत्त्वतः ॥०३-१९६-२॥
प्रत्यक्षेण हि विप्रर्षे देवा दृश्यन्ति सत्तम। सूर्याचन्द्रमसौ वायुः पृथिवी वह्निरेव च ॥०३-१९६-३॥
पिता माता च भगवन्गाव एव च सत्तम। यच्चान्यदेव विहितं तच्चापि भृगुनन्दन ॥०३-१९६-४॥
मन्येऽहं गुरुवत्सर्वमेकपत्न्यस्तथा स्त्रियः। पतिव्रतानां शुश्रूषा दुष्करा प्रतिभाति मे ॥०३-१९६-५॥
पतिव्रतानां माहात्म्यं वक्तुमर्हसि नः प्रभो। निरुध्य चेन्द्रियग्रामं मनः संरुध्य चानघ ॥ पतिं दैवतवच्चापि चिन्तयन्त्यः स्थिता हि याः ॥०३-१९६-६॥
भगवन्दुष्करं ह्येतत्प्रतिभाति मम प्रभो। मातापितृषु शुश्रूषा स्त्रीणां भर्तृषु च द्विज ॥०३-१९६-७॥
स्त्रीणां धर्मात्सुघोराद्धि नान्यं पश्यामि दुष्करम्। साध्वाचाराः स्त्रियो ब्रह्मन्यत्कुर्वन्ति सदादृताः ॥ दुष्करं बत कुर्वन्ति पितरो मातरश्च वै ॥०३-१९६-८॥
एकपत्न्यश्च या नार्यो याश्च सत्यं वदन्त्युत। कुक्षिणा दश मासांश्च गर्भं सन्धारयन्ति याः ॥ नार्यः कालेन सम्भूय किमद्भुततरं ततः ॥०३-१९६-९॥
संशयं परमं प्राप्य वेदनामतुलामपि। प्रजायन्ते सुतान्नार्यो दुःखेन महता विभो ॥ पुष्णन्ति चापि महता स्नेहेन द्विजसत्तम ॥०३-१९६-१०॥
ये च क्रूरेषु सर्वेषु वर्तमाना जुगुप्सिताः। स्वकर्म कुर्वन्ति सदा दुष्करं तच्च मे मतम् ॥०३-१९६-११॥
क्षत्रधर्मसमाचारं तथ्यं चाख्याहि मे द्विज। धर्मः सुदुर्लभो विप्र नृशंसेन दुरात्मना ॥०३-१९६-१२॥
एतदिच्छामि भगवन्प्रश्नं प्रश्नविदां वर। श्रोतुं भृगुकुलश्रेष्ठ शुश्रूषे तव सुव्रत ॥०३-१९६-१३॥
मार्कण्डेय उवाच॥
हन्त ते सर्वमाख्यास्ये प्रश्नमेतं सुदुर्वचम्। तत्त्वेन भरतश्रेष्ठ गदतस्तन्निबोध मे ॥०३-१९६-१४॥
मातरं सदृशीं तात पितॄनन्ये च मन्यते। दुष्करं कुरुते माता विवर्धयति या प्रजाः ॥०३-१९६-१५॥
तपसा देवतेज्याभिर्वन्दनेन तितिक्षया। अभिचारैरुपायैश्च ईहन्ते पितरः सुतान् ॥०३-१९६-१६॥
एवं कृच्छ्रेण महता पुत्रं प्राप्य सुदुर्लभम्। चिन्तयन्ति सदा वीर कीदृशोऽयं भविष्यति ॥०३-१९६-१७॥
आशंसते च पुत्रेषु पिता माता च भारत। यशः कीर्तिमथैश्वर्यं प्रजा धर्मं तथैव च ॥०३-१९६-१८॥
तयोराशां तु सफलां यः करोति स धर्मवित्। पिता माता च राजेन्द्र तुष्यतो यस्य नित्यदा ॥ इह प्रेत्य च तस्याथ कीर्तिर्धर्मश्च शाश्वतः ॥०३-१९६-१९॥
नैव यज्ञः स्त्रियः कश्चिन्न श्राद्धं नोपवासकम्। या तु भर्तरि शुश्रूषा तया स्वर्गमुपाश्नुते ॥०३-१९६-२०॥
एतत्प्रकरणं राजन्नधिकृत्य युधिष्ठिर। प्रतिव्रतानां नियतं धर्मं चावहितः शृणु ॥०३-१९६-२१॥